________________
४५६
कातन्त्रव्याकरणम्
[वि० प०]
अस्तेः । अद्यतन क्रियातिपन्योभूरादेश एवास्तीति परिशिष्टा ह्यस्तनीह लभ्यते । तत्र गुणिनि पूर्वेणैव सिद्धे इत्यर्थादगुण इत्याह अस्तेईस्तन्यामगुण इति । व्यत्यस्तेति । "अनियमे चागतिहिंसाशब्दार्थहसः'' (३।२।४२-६६) इति रुचादित्वाद् व्यतीहारे आत्मनेपदम् । अथ गुणिनि चागुणेऽपि "अस्तेरादेः' (३।४।४१) इति लोपं बाधित्वा परत्वादवर्णस्याकार एव भविष्यति, किमनेनेत्याह – परोऽपीत्यादि । लोपे ह्यस्तनीमात्रमाश्रित्य भवन्नल्पाश्रयत्वादन्तरङ्गो बलीयान् इति भावः ।।८३९।
[बि० टी०]
अस्तेः। अस्तेईस्तन्यामगुणे इति वृत्तिः । नन्वनन्तरत्वाद् ह्यस्तन्यादयो वर्तन्ते । तत्र पञ्जीकृतोक्तम् "अस्तेभूरसार्वधातुके" (३।४।८७) इति भूरादेशः पारिशेष्याद् हस्तनीति कथं सङ्गच्छते, यावता भूरादेशोऽसार्वधातुके भवन् श्वस्तन्यादौ ‘भविता, भूत:' इत्यादौ सार्थकः, अनेन तु ह्यस्तन्यादौ अधिकारप्राप्तत्वादाकारः स्यादेव । कथमुक्तं ह्यस्तन्यामगुणे इति, आकारपरत्वात् । न च वाच्यम् आकारे कृते एकदेशविकृतत्वाद् भूर्भविष्यति तिनिर्देशस्य स्वरूपग्राहकत्वादिति ब्रूमः । सत्यम्, व्यक्तिपक्षेऽ सार्वधातुकविषयप्याकृतार्थत्वात् लोपवत् परमप्याकारं निरवकाशत्वाद् बाधते । व्यक्तिपक्षस्य ज्ञापकस्तु 'अभूनृपो विबुधसखः परन्तपः' इत्यादि प्रयोग इति सर्वं समञ्जसम् ।।८३९।
[समीक्षा
'आस्ताम्, आसन्' इत्यादि शब्दरूपों के सिद्धयर्थ 'अस्' धात्घटित अकार के स्थान में आकारादेश की आवश्यकता होती है । इसकी पूर्ति दोनों व्याकरणों में की गई है । अन्तर यह है कि पाणिनि आट आगम तथा वृद्धि करके “आडजादीनाम्, आटश्च" (अ० ६।४।७२; १।९०) उक्त रूप सिद्ध करते हैं, जबकि कातन्त्रकार ने 'अस्' धातुगत अकार को आकारादेश करके सिद्धि बताई है, जो लाघव की द्योतक कहीं जा सकती है।
यह ध्यातव्य है कि पूर्ववर्ती सूत्र से ही यहाँ आकारादेश प्राप्त था, फिर इस सूत्र को बनाने की क्या आवश्यकता है ? इस पर कहा गया है कि “अस्तेरादेः' (३।४।४१) सूत्र से यहाँ अस्धात् के आदि अकार का परविधि के कारण लोप हो जाता, अत: अभीष्ट रूप की सिद्धि कथमपि सम्भव नहीं थी । अतः इस विशेष सूत्र को स्वतन्त्ररूप में बनाया गया है।
[विशेष वचन १. परोऽप्यवर्णस्याकारो लोपेन बाध्यते, अस्तिमात्राश्रयत्वात् (दु० वृ०)। २. तिनिर्देशाऽत्र स्वरूपग्राहक: ------- सुखप्रतिपत्त्यर्थ इति (दु० टी०; बिल्टी० )। ३. अल्पाश्रयत्वादन्तरङ्गो बलीयान् (वि० प०)।