________________
४७७
तृतीये आख्याताध्यायेऽष्टमो धुडादिपादः ४७७ ८४९. लुग्लोपे न प्रत्ययकृतम् [३।८।२९] [सूत्रार्थ
'लक' शब्द का नाम लेकर जिसका लोप किया गया हो, उस प्रत्यय के परे रहते प्रकृति को निर्दिष्ट कार्य नहीं होता है ।।८४९।
[दु० वृ०]
लुका लोपे सति प्रत्यये परे प्रकृतेर्यत् कार्यं तन्न भवति । लका लोपो यस्येति विग्रहः । अङ्गाः, वङ्गाः, कलिङ्गाः, पञ्च, कति, दुग्धे, स्तुते । विकरणस्य लुकि न गुणः, लुकीति न कृतम्, लुग्लोपयोर्विशेषप्रतिपत्त्यर्थम् । तेन प्रत्ययलोपे प्रत्ययलक्षणमवधार्यतेअभित्त, अच्छित्त । प्रत्ययकृतमिति किम् ? परस्यान उस्-उदगुः, अदुः । कतीह पञ्चात्र । सन्धिः स्यादेव ।।८४९।
[वि० प०]
लुक्० । अङ्गा इत्यादि । "वृद्धिरादौ सणे, घुटि चासम्बुद्धौ, इरेदु-रोज्जसि, अनि च विकरणे नामिनश्चोपधायाः लघोः" (२।६।४९; २।१७; ११५५; ३।५।३, २) इत्येतैरणादिषु प्रत्ययेषु वृद्ध्यादिकं यत्कृतं तदणादिलुकि 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (का० परि० २७) इत्यनेन निवृत्तम्, पुनः प्रत्ययलोपलक्षणन्यायेन वृद्ध्यादिक प्राप्तमनेन निषिद्धम् । अभित्त, अच्छित्तेति । "घुटश्च धुटि" (३।६।५१) इति सिचो लोपः । "सिजाशिषोश्चात्मने" (३।५।१०) इति पुनर्गुणनिषेधः । अन्यथा लुकीति कृतेऽदर्शनमात्रं मन्यमान: सिचो लोपोऽपि न प्रत्ययकृतमिति मन्यते इति भावः । प्रत्यय इत्यादि । प्रत्यये कृतं प्रत्ययकृतम् इति सप्तमीसमासात् प्रकृतेः प्रत्यये यत् कृतं कार्यम्, तन्न भवति प्रत्ययात् परस्य प्रत्ययस्य यत् कृतम्, तद् भवत्येव । यथा “इण्स्थादा०" (३।४।९३) इत्यादिना सिचो लुक्यपि "अन उस् सिजभ्यस्त०" (३।४।३१) इत्यादिना उस्, तथा प्रत्यये परे प्रकृतेर्यत् कार्यं कृतम्, तन्न भवति, तदपि परपदे भवतीति दर्शयति-कतीह पञ्चात्रेति ॥८४९।
[समीक्षा]
'अङ्गाः, वङ्गाः, पञ्च, दुग्धे' आदि के सिद्ध्यर्थ प्रत्यय का लुक् हो जाने पर प्रत्ययलक्षणकार्य का दोनों ही व्याकरणों में निषेध किया गया है । पाणिनि का सूत्र है - "न लुमताङ्गस्य' (अ० १।१।६३) । पाणिनि ने ‘लुक्-श्लु-लुप्' इन तीनों का विधान किया है, अत: इन तीनों के ग्रहणार्थ 'लुमत्' शब्द का निर्देश है । इससे तीनों का ग्रहण हो जाता है। इसके विपरीत कातन्त्र व्याकरण में लुक् का ही विधान होने से प्रकृत सूत्र में केवल उसी का उल्लेख किया गया है ।
[विशेष वचन १. विकरणस्य लुकि न गुणः । लुकीति न कृतम्, लुग्लोपयोर्विशेषप्रतिपत्त्यर्थम्
तेन प्रत्ययलोपे प्रत्ययलक्षणमवधार्यते (दु० वृ०)। २. कतीह, पञ्चात्र । सन्धिः स्यादेव (दु० वृ०) ।