________________
४५२
कातन्त्रव्याकरणम्
धातोरिति लभ्यते ? सत्यम्, उत्तरार्थम् । अन्यथा स्वरादीनां वृद्धिरिति निर्देशो न युज्यते, अधिकृतधातुसम्बन्धेनैकवचनप्रसङ्गात् । किञ्च धातुसंज्ञाप्राप्तिकाले स्वरादिग्रहणे औद्यत' इत्यादीनामसिद्धेः । धातुग्रहणं धातुकार्येऽपि उत्तरत्र परिग्रहार्थम् ।।८३६।
[समीक्षा
'अकरोत्, अकार्षीत्, अकरिष्यत्' आदि शब्दरूपों को धातुपूर्व अडागम का विधान करके ही उभयत्र सिद्ध किया गया है । पाणिनि का सूत्र है - "लुङ्लङ्लुङ्वडुदात्तः" (अ० ६।४७१)। पाणिनीय लुङ् के लिए कातन्त्रकार ने अद्यतनी, लङ् के लिए ह्यस्तनी तथा लङ् के लिए क्रियातिपत्ति का प्रयोग किया है । इस प्रकार पाणिनि की ये कृत्रिम संज्ञाएँ हस्तचेष्टादिवत् साङ्केतिक संज्ञाएँ हैं, जब कि कातन्त्र की संज्ञाएँ अन्वर्थक हैं ।
[विशेष वचन] १. टकारोऽयं निर्देशसुखार्थ: (दु० टी०) । २. धातुग्रहणं ............. उत्तरार्थम् । ............... धातुग्रहणं धातुकार्येऽपि उत्तरत्र ___ परिग्रहार्थम् (बि० टी०) । [रूपसिद्धि
१. अकरोत्। अट् + कृ + ह्यस्तनी-दि । 'डु कृञ् करणे' (७।७) धात् से ह्यस्तनीविभक्तिसंज्ञक प्र० पु० - ए० व० 'दि' प्रत्यय, प्रकृत सूत्र से धातुपूर्व अडागम, "तनादेरुः” (३।२।३७) से 'उ' विकरण, ऋ-र को गुण तथा दकार को तकार।
२. अकार्षीत्। अट् + कृ + अद्यतनी-दि । 'कृ' धातु से अद्यतनीसंज्ञक 'दि' प्रत्यय, प्रकृत सूत्र से अडागम, सिच् प्रत्यय, ईट् आगम, वृद्धि तथा द् को त् ।
३. अकरिष्यत्। अट् + कृ + क्रियातिपत्ति-स्यत् । 'कृ' धातु से क्रियातिपत्तिविभक्तिसंज्ञक प्र० पु०-ए० व० ‘स्यत्' प्रत्यय, प्रकृत सूत्र से धातुपूर्व अडागम, इडागम, गुण तथा सकार को षकारादेश ।।८३६।
८३७. स्वरादीनां वृद्धिरादेः [३।८।१७] [सूत्रार्थ
'ह्यस्तनी - अद्यतनी – क्रियातिपत्ति' विभक्तियों के परे रहते स्वरादि धात् के आदि वर्ण को वृद्धि आदेश होता है ।।८३७।
[दु० वृ०]
स्वरादीनां धातूनां ह्यस्तन्यादिष्वादेः स्वरस्य वृद्धिर्भवति आन्तरतम्यात् । ऐधत, ऐधिष्ट, ऐधिष्यत । कथम् ऐज्यत, औप्यत, औद्यत ? अन्तरङ्गत्वादडागमे यणि सम्प्रसारणे सन्धौ च वृद्धिः । पदान्तरङ्गा वा यणादयः ।।८३७।
दु० टी०] __स्वरादीनाम्।। पदान्तरङ्गा वा यणादय: इत्यस्मिन् पक्षे प्रागडागमो न भवति, पदापेक्षयाऽन्तरङ्गत्वं यणादीनाम् । तेषु सत्सु सम्प्रसारणे वृद्धिरिति । तत्रेह च विषयसप्तमीमाश्रित्याह