________________
७२
कातन्त्रव्याकरणम्
२. कुर्वन्ति। कृ + उ + अन्ति। 'डु कृञ् करणे' (७१७) धातु से वर्तमानाविभक्तिसंज्ञक प्रथमपुरुष-बहुवचन 'अन्ति प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ५७८ ।
५७९. रुधादेर्विकरणान्तस्य लोपः [३।४।३९] [सूत्रार्थ
रुधादि धातुओं से होने वाले विकरण 'न' के अन्तिम अकार का लोप होता है, अगुण सार्वधातुकसंज्ञक प्रत्यय के परे रहते।। ५७९ ।
[दु० वृ०]
रुधादेर्विकरणान्तस्य लोपो भवति अगुणे सार्वधातुके परे। रुन्धः, रुन्धन्ति। भिन्त:, भिन्दन्ति। अगुण इति किम् ? रुणद्धि, भिनत्ति।। ५७९ ।
[दु० टी०]
रुधादेः। किमर्थमन्तग्रहणम्। अस्येति वर्तिष्यते, तथा वक्ष्यमाणेऽप्यादिग्रहणमनर्थकम्, तथा अस्तेरप्यकरणीयम्भवति। परत्वादवर्णस्याकार इति दीर्घस्य कथं लोप: ? सत्यम्, मन्दधियां सुखसम्बन्धविशेषज्ञापनार्थम, अन्यथा निर्दिष्टस्य विकरणस्यैव लोपः प्रतिपद्यते अस्तेश्चान्तस्येति।। ५७९।
[वि० प०]
रुधादेः। रुन्द्धः इति। "स्वराद् रुधादेः परो नशब्दः" (३।२।३६) इति नशब्दः; अन्तलोपेऽनुस्वारे वर्गे वर्गान्तः, “घढधभेभ्यस्तथोर्थोऽध:' (३। ८। ३), "धुटां तृतीयश्चतुर्थेषु" (३।८।८) इति पूर्वधकारस्य दत्वम्। भिन्त: इत्यादि। "अघोषेष्वशिटां प्रथमः" (३। ८। ९)।। ५७९ ।
[समीक्षा]
‘रुन्धन्ति, भिन्दन्ति' इत्यादि शब्दों के सिद्ध्यर्थ 'न' विकरणघटित अकार के लोप की आवश्यकता होती है, इसका विधान दोनों ही आचार्यों ने किया है। पाणिनि का सूत्र है - "श्नसोरल्लोप:'' (अ०६। ४। १११)।
[रूपसिद्धि
१. रुन्द्धः । रुध् + न + तस्। 'रुधिर् आवरणे' (६। १) धात् से वर्तमानासंज्ञक प्रथमपुरुष-द्विवचन तस्' प्रत्यय, “द्वित्वबहत्वयोश्च परस्मै' (३ ५ १९) से अगुण, "स्वराट रुधादेः परो नशब्दः'' (३।२।३६) से न-विकरण, प्रकृत सूत्र से न—घटित अकार का लोप, “घढवभेभ्यस्तथार्थोऽध:' (३।८।३) से 'त्' को ध्, 'धुटां तृतीयश्चतुषु' (३।८।८) से धातुघटित ध् को द्, न को अनुस्वार, अनुस्वार को न् तथा स् को विसर्गादेश। “धुटा धुट्येकवर्ग" (कात० परि० सं०-७६) से द् का लोप होने पर रुन्धः' रूप बनगा।
१. इस विषय में कातन्त्रपरम्परा का एक श्लोकवचन प्रसिद्ध है - 'त्रयो यत्रेकवर्गीया मध्यमस्तत्र लुप्यते' द्र०-वङ्गभाष्य)।