________________
२८८
कातन्त्रव्याकरणम्
[दु० टी०]
व्रश्चि० । व्रश्चिरिह शोपधो न सोपध इत्यस्यान्तलोप उच्यते। मस्जेश्च स्वरात् परो नकारागम इति मध्यस्य सकारस्य लोपो न प्राप्नोति। मग्नः, मग्नवानिति। अनुषङ्गलोपो न स्यादित्यन्तलोपः। “स्को: संयोगाद्योरन्ते च" (३। ६।५४) इत्यत्र संयोगादिग्रहणम् उपलक्षणार्थं मध्यस्यापि लोप इत्यगतिकानां गतिरियम् ।। ७१५ ।
[वि० प०]
व्रश्चि० । व्रश्चेरिह शोपधत्वात् संयोगादिलोपो नास्तीत्यन्तलोप उच्यते। तथा मस्जेरन्तरङ्गत्वाद् "मस्जिनशोटि" ( ३। ५। ३१) इति नकारागमे कते सकारस्यानादित्वात् “स्को: संयोगाद्योरन्ते च" (३। ६। ५४) इति लोपो नास्ति। अतोऽन्तरङ्गत्वादेव “धुटां तृतीयः” (२।३।६०) इति सस्य दत्वम्। “तवर्गश्चटवर्गयोगे चटवर्गों" (२। ४। ४६) इति कृते जलोप इत्येतदेवाह-नागम इत्यादि।। ७१५ ।
[बि० टी०]
व्रश्चि०। व्रष्टा, व्रक्ष्यतीति वृत्तिः। नन्वत्रान्तलोपे "प्रत्ययलुकां चानाम्' (४।१। ४) इति प्रतिषेधः कथन्न स्यादिति चेत्, निषेधोऽपि भृजादिपाठान्न स्यात्, तर्हि मङ्क्तेति न सिध्यति ? सत्यम्, धातुश्रुतकार्यं तेन निषिध्यते, यथा गुणो दीर्घश्च। तर्हि दीर्घादिकृते धातोः श्रुतिः तथा "चवर्गस्य किः" (३।६। ५५) इत्यनेनापि स्यात् । तर्हि वर्गग्रहणं व्यक्त्यवधारणार्थं भविष्यतीति कश्चित् ।। ७१५।
[समीक्षा]
'वष्टा, व्रक्ष्यति' इत्यादि शब्दरूपों के सिदध्यर्थ दोनों व्याकरणों में भिन्न प्रक्रिया का आश्रय लिया गया है। कातन्त्रकार व्रश्च् + ता' इस स्थिति में चलोप, तकार को टकार तथा शकार को षकारादेश करके 'व्रष्टा' शब्द सिद्ध करते हैं। जब कि पाणिनि के अनुसार “स्को: संयोगाद्योरन्ते च'' (अ० ८। २। २९) से सलोप, “वश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां ष:' (अ० ८।२। ३६) से चकार को षकार तथा “ष्टुना ष्टुः" (अ० ८।४। ४१) से तकार को टकारादेश करने पर यह शब्द सिद्ध होगा। इससे पाणिनि के अनुसार 'व्रस्च्' धातु को सोपध कहा जाएगा। माधवीय धातुवृत्तिकार ने कहा है--
"तत्रेडभावे झल्परत्वात् “स्को:'" (अ० ८।२।२९) इति सलाप, व्रश्चादिना षत्वे, ष्टुत्वम्-व्रष्टा, व्रक्ष्यति। वृश्चिता, वृश्चिप्यति'' (मा० धा० वृ०, तु० १४ – ओ वश्चू छेदने)। इस प्रकार प्रक्रियाभेद होने पर भी कार्यों की दृष्टि से समानता ही
[विशेष वचन] १. नागमेऽन्तरङ्गत्वात् सस्य तृतीये सति पश्चाल्लोप: (दु० टो०)। २. वृश्चिरिह शोपधो न सोपध इत्यस्यान्तलोप उच्यत (दु. टो०)।