________________
२९०
कातन्त्रव्याकरणम्
[वि० प०]
यन्यो०। 'उपोयते' इति उपपूर्वो ‘वेञ् तन्तुसन्ताने' (१ । ६११) यजादित्वाद् यणि सम्प्रसारणमुकारः। तत: "उवणे ओ" (१। २। ३) इत्योत्वे परलोपे कृते च धातोरोकारो न भवति, तत् कथमिह प्राप्तिरित्याह – परनिमित्तेत्यादि।। ७१६ ।
[समीक्षा]
'धति, स्यति' आदि शब्दरूप धात्घटित ओकार का लोप करने के बाद ही सिद्ध होते हैं। दोनों ही व्याकरणों में इस अभीष्ट ओकारलोप की व्यवस्था की गई है। पाणिनि का सूत्र है- "ओतः श्यनि'' (अ० ७। ३। ७१)।
[विशेष वचन] १. परनिमित्तादेश: पूर्वस्मिन् स एव (दु० वृ०)। २. नकारग्रहणं दिवादेर्यन् इत्यस्यैव परिग्रहार्थम् (दु० टी०)। [रूपसिद्धि]
१. द्यति। दो + यन् + ति। दो अवखण्डने' (३ । २२) धातु से वर्तमानाविभक्तिसंज्ञक परस्मैपद - प्र० प्र० – ए० व० ति' प्रत्यय, “दिवादेर्यन" (३।२।३३) से 'यन्' विकरण तथा प्रकृत सूत्र से ओकार का लोप।
२. स्यति। सो + यन् + ति। 'षो अन्तकर्मणि' (३। २१) धातु से वर्तमानासंज्ञक 'ति' प्रत्यय, “धात्वादे: षः सः' (३। ८। २४) से धातुगत षकार को सकार, ‘यन्' विकरण तथा ओकार का लोप।। ७१६।
७१७. आकारस्योसि [३।६। ३७] [सूत्रार्थ] 'उस्' प्रत्यय के परे रहते धातु के आकार का लोप होता है।। ७१७ । [दु० वृ०] धातोराकारस्य लोपो भवति उसि परे। उदगुः, अदुः, अरु:, अलुः।। ७१७ । [दु० टी०]
आकार० । 'अचकासुः, अशासुः' इत्यत्र न भवति, व्यवहितत्वादाकारस्येति। आकारेण धातुर्विशिष्यते। 'विशेषणेन च तदन्तविधिः' (का० परि० ३) इत्याकारान्तस्य धातोरिति परोक्षायामुसि सिद्धत्वादुसादेश इह गृह्यते।। ७१७ ।
[वि० प०]
आकारस्य०। 'उदगुः, अदुः' इति अद्यतन्यन्, इणो गाः, “इण्स्था०' (३। ४। ९३) इत्यादिना सिचो लोपः। 'अरुः, अलु:' इति ह्यस्तन्यन्, अदादित्वाद् अनो