________________
३९०
कातन्त्रव्याकरणम्
[दु० वृ०]
एषां परस्मैपदे सिच्यादिरिडागमो भवति सिश्चान्तः। अयंसीत्, अयंसिष्टाम्। व्यरंसीत्, व्यरंसिष्टाम्। अनंसीत्, अनंसिष्टाम्। अयासीत्, अयसिष्टाम्। अम्लासीत्, अम्लासिष्टाम् । अदरिद्रासीत्, अदरिद्रासिष्टाम्? अन्तग्रहणाद् दरिद्रातरालोपो न स्यात्। कथम् अदरिद्रीत्, अदरिद्रिष्टाम्? आगमस्यानित्यत्वाद् विभाषैव।।७९२।
[दु० टी०]
यमि०। अयंसीदित्यादि। एकवचनमप्युदाहृतम्, सेट्त्वाद् अस्य च दी? मा भूदिति । न च वक्तव्यम, इटोऽभावे सिरागमो न भवति, "यन्तक्षण" (अ० ७।२।५) इति प्रतिषेधादिह न दीर्घ इति। अत्रापि यस्मादनिटाम् इति सम्बन्धो यथा 'अधाक्षीत्' इति। अदरिद्रासीदित्येकवचनमपि प्रयोजयति, मतान्तरेणापि "अनिडेकस्वरादातः" (३७।१३) इति प्रतिषेधदिडस्ति। परस्मा इति किम्? अयंस्त, अरंस्त ।।७९२।
[वि० ०प०]
यमिरमि०। व्यरंसीदिति। "व्यापरिभ्यो रमः' (अ० १।३।८३) इति वचनात् परस्मैपदम् एषु सेटकत्वादस्य च दीपों न भवति। अन्तग्रहणमागमार्थमित्याह- अन्तेत्यादि। ननु तद्ग्रहणेन गृहीतस्य सकारस्यैवान्तस्य कथं लोपो न भवति। नहि "दरिद्रातेरसार्वधातुके" (३।६।३४) इत्यत्र विशेषोऽस्ति, येनाकारस्यैवेति। न च सकारकरणस्य व्यर्थत्वादिति परिहारो युज्यते, अन्यत्र चरितार्थत्वात् । तदयुक्तम्, वर्णान्तस्य विधित्वाद् अन्यत्राकारस्यैव लोपदर्शनात्। ततो दृष्टपरिकल्पनावशात् सर्वत्र स एव स्थानी समूहनीयः, स चेह नान्त इति न दोषः।।७९२।
[समीक्षा
'अयंसीत्, व्यरंसीत्, अयासीत्' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों व्याकरणों में इडागम तथा सकारागम का विधान किया गया है। पाणिनि का सूत्र है- “यमरमनमातां सक्न च' (अ० ७।२।७३)। पाणिनीय ‘सक्' आगम कित् है और कित् आगम “आद्यन्तो टकितौ' (अ० १११।४६) परिभाषा के नियमानुसार धातुओं के अन्त में प्रवृत्त होता है । कातन्त्रकार ने प्रकृत सूत्र में ही उसका स्पष्ट निर्देश कर दिया है।
[विशेष वचन] १. अन्तग्रहणाद् दरिद्रातेरालोपो न स्यात् (दु० वृ०)। २. आगमस्यानित्यत्वाद् विभाषैव (दु० वृ०)। ३. मतान्तरेणापि अनिडेकस्वरादात: इति प्रतिषेधादिडस्ति (दु० टी०)। ४. अन्तग्रहणमागमार्थ (वि० प०)। [रूपसिद्धि]
१. अयंसीत्। अट्+यम्+स्+इट्+दि। ‘यम उपरमे' (१।१५८) धातु से अद्यतनीसंज्ञक परस्मैपद प्र० पु०-ए० व० 'दि' प्रत्यय, अडागम, सिच् प्रत्यय,-प्रकृत सूत्र से