________________
३३०
कातन्त्रव्याकरणम्
निपातनस्येत्यादि। सम्प्रसारणादन्यत्रेति। सम्प्रसारणविषयादित्यर्थः। एवं बभजतुः, बभर्जुः । बभ्रज्जतुः, बभ्रज्जुः। ननु गुणिनि गुणे सति भ रूपमस्ति तत् कथं गुण: स्यात् ? सत्यम्। नवा निर्दिष्टस्यानित्यत्वाद् गुणप्रतिषेधो नास्ति, एवमन्यत्रागुणे गुणिनि ज्ञेयम्। ननु व्रश्चेरिह शोपधत्वाद् "वश्चिमस्जोधुटि" (३।६। ३५) इत्यन्तलोपे “छशोश्च" (३। ६। ६०) इति षत्वं सिद्धम्। तत् किमिह वश्चेरुपादानेन ? सत्यम्। अन्यैः सोपधोऽयमिति मन्यमानैः पठितस्तत्प्रसङ्गादनेनापि पठ्यते। न खलु अन्यथा परसूत्रे लाघवम् अस्तीति।। ७३९।
[बि० टी०]
भृजा० । असार्वधातुकमात्रे भ्रस्जे«जि वा वक्तव्यमिति परः। तन्नेत्याह-भ्रस्जेरिति। बिभक्षतीति। “सनि चानिटि" (३। ५। ९) इत्यगुणत्वम्, लाक्षणिकत्वादेकदेशलाक्षणिके पुनरगुणो भवत्येवेति। दिदृक्षतीत्यादौ अगुणत्वं स्यात्। तथा च टीका “सनि चानिटि" (३। ५। ९) इति “सिजाशिषोश्चात्मने" (३। ५। १०) इति च प्रतिपदोक्तस्यैव प्रतिषेध इति।। ७३९।
[समीक्षा]
'यष्टा, स्रष्टा, विराट्' आदि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'यज्, राज्' आदि सात धातुओं के अन्तिम वर्ण को षकारादेश किया गया है। पाणिनि का सूत्र है – “वश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां ष:' (अ० ८।२।३६)। दोनों की रचनाशैली में अन्तर स्पष्ट है। पाणिनि ने जिन सात धातुओं का पाठ सूत्र में किया है, कातन्त्रकार ने उन्हें 'भृजादि' गण में पढ़ा है।
[विशेष वचन] १. भ्रस्जे जिरिहोपलक्षणम् (दु० टी०)। २. निपातनस्येष्टविषयत्वात् सम्प्रसारणादन्यत्र विभाषा (दु० वृ०)। ३. उपलक्षणमिति न तत्परमित्यर्थः (टु० टी०)। ४. निपातनस्येष्टविषयत्वादित्यादिना विकल्पं साधयति (टु० टी०)। ५. अथवा मुख्यं सम्प्रसारणं सूत्रोपात्तमुपदेशावस्थायामपि भवति (दु० टी०)। ६. नत्रा निर्दिष्टस्यानित्यत्वाद् गुणप्रतिषेधो नास्ति (वि० प०)।.
७. अन्यैः सोपधोऽयमिति मन्यमानैः पठितस्तत्प्रसङ्गादनेनापि पठ्यते, न खलु अन्यथा परसूत्रे लाघवमस्तीति (वि० प०)।
[रूपसिद्धि]
१. भ्रष्टा, भा। भ्रस्ज् + ता। 'भ्रस्ज पाके' (५४) धातु से श्वस्तनीविभक्तिसंज्ञक प० प० - प्र० पु० - ए० व० ता' प्रत्यय, प्रकृत सूत्र से जकार को षकार, "स्को: संयोगाद्योरन्ते च" (३।६।५४) से सकार का लोप तथा “तवर्गस्य षटवर्गासवर्ग:"