________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः लकारादप्यकार: प्रतिपत्तव्यः, तेनाभेदादृकार लकारो भवतीत्यपि पक्षः। यथा 'श्वेतो धावति, श्वा इतो धावति'। श्वेतगुणयुक्तो धावतीति। अक्लपितेरिति वररुचिवचनाद् वा संग्रहः। कथमित्यादि। भिदादिषु पठ्यन्ते कृपे: सम्प्रसारणं च। कृपेरिति इनिर्देशो वा स्वरूपग्राहकः। यस्त्वाह कृपेरेव भिदादित्वादङिति, स च 'क्रप कृपायाम्' (१।४९७) इति ज्ञापयति। कृपणादयो डौणादिका इति व्युत्पत्तिपक्षेऽपि लत्वं न भवति, "उणादिषु बहुलम्" इति । कृपणः, कृपाणः, कृपीट:, कर्पूर;। अन्य आह- ऋकारलकारयोः सवर्णविधिरिति । अत्र गणे ऋकारोपदेश एव लिङ्गं कृपणादेर्न भवति।।७७७।
[वि० प०]
कृपेः। कथमित्यादि। र इति ल इति च जातिनिर्देशाददोष इत्याह-रश्रुते रित्यादि। एतदुक्तं भवति, ऋकारे त्रयः स्वरभागाः सन्ति, तन्मध्यवर्ती रेफश्चतुर्थो भागस्तथा लकार लकार इति, ततश्च ऋकारस्थस्य रेफस्य लकारो भवन्नान्तरतम्यात् लकारस्थ एव भवितुमर्हतीति न स्वतन्त्रः, स च लकारमन्तरेण न शक्नोति भवितुम् , अव्यतिरिक्तत्वात्। अतोऽर्थाद् ऋकारस्य लकार एव प्रवर्तते इत्येतदेवाह - इहेत्यादि। अवर्णात्मन इति वर्णावयवत्वाद् असम्पूर्णस्य वर्णस्येत्यर्थः। ये तु मन्यन्ते 'वर्णैकदेशास्तु वर्णच्छायानुकारिणो न पुनर्वर्णाः' इति। तथा चोक्तम् - 'पृथक प्रयत्ननिर्वयं हि वर्णमिच्छन्त्याचार्याः' इति। तदा ऋकारे रेफस्यानभ्युपगमान सिध्यति इत्याशङ्कयाह-वक्तव्यं वेति। वक्तव्यं व्याख्येयम्। एकमेवेदं वाक्यमावृत्य द्विधा व्याख्यायते ऋकारादकार: लकारादप्यकार: उच्चारणार्थः प्रतिपत्तव्यः । ततः सन्धौ सति 'रो लः' इति प्रथमान्तं पदम्, तेनाभेदाद् ऋकार: लकारो भवतीत्यपि पक्ष इत्यर्थः। यथा 'श्वेतो धावति, श्वा इतो धावति'। श्वेतगुणयुक्तोऽपि धावतीति वाक्यं भिद्यते, तथेदमपीत्यर्थः। कथमित्यादि। 'क्रप कृपायाम्' (१।४९७) इत्यस्य षानुबन्धभिदादित्वादङि कृते सम्प्रसारणे च निपातिते लाक्षणिकत्वम् । अत: कृपू सामर्थ्य एव परिशिष्यते। कृपणादय इति। ‘कृपणः, कृपाणः, कृपीट:, कर्पूरः' इत्यादीनां व्युत्पत्तिपक्षेऽपि न भवति, उणादयो हि बहुलं भवन्तीति।।७७७/
[समीक्षा
'कल्पयति, कल्प्ता, कल्प:' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में रेफ को लकारादेश किया गया है। पाणिनि का सूत्र है- “कृपो रो लः' (अ० ८।२।१८)। वर्ण में वर्णैकदेश की मान्यता आदि पर व्याख्याकारों ने विचार किया है और इसी प्रसङ्ग में वर्ण की परिभाषा भी दी गई है। ऋकार में तीन भाग स्वर तथा एक भाग रेफ को माना गया है, इसी प्रकार लकार में लकार की भी चतुर्थांश स्थिति समझनी चाहिए। 'ऋ-ल' अथवा 'र-ल' समानजातीय होने के कारण या सवर्णसंज्ञा के बल पर अभिन्न माने जाते हैं - इन पक्षों को भी दिखाया गया है।
[विशेष वचन]
१. ऋकारस्थस्य रेफस्यावर्णात्मन: लकारस्थो लकारोऽवर्णात्मा आन्तरतम्याद् भवन् ऋकारस्य लकार एव स्यात् अव्यतिरिक्तत्वात् (दु० वृ०)।