________________
३८६
कातन्त्रव्याकरणम्
५. जिगमिषुः। गम् + इट् + सन् + उ + सि । 'गम्ल गतौ' (११२७९) से सन् प्रत्यय, इडागम, द्विर्वचनादि, “सनन्ताशंसिभिक्षामुः" (४।४।५१) से 'उ' प्रत्यय, “अस्य च लोपः" (३।६।४९) से अकार लोप, लिङ्गसंज्ञा, 'सि' प्रत्यय तथा “रसकारयोर्विसृष्टः" (३।८।२) से स् को विसर्गादेश ।
६. जिगमिषितव्यम्। गम् + इट् + सन् + इट् + तव्य + सि। 'गम्ल गतौ' (१।२७९) धातु से सन् प्रत्यय, इडागम, द्विर्वचनादि, धातु संज्ञा, 'तव्य' प्रत्यय, इडागम, लिङ्गसंज्ञा, 'सि' प्रत्यय, नपुंसकलिङ्ग में 'मु' आगम तथा सि-प्रत्यय का लोप।।७८८।
७८९. हनृदन्तात् स्ये [३।७।७] [सूत्रार्थी
‘स्य के परे रहते 'हन्' तथा ऋकारान्त धात् से उत्तर तथा प्रत्यय के आदि में इडागम होता है।।७८९।
[दु० वृ०]
हन्तेरृदन्ताच्च धातोः स्ये परे आदिरिडागमो भवति । हनिष्यति, हनिष्यमाणः। करिष्यति, करिष्यमाणः। स्मरिष्यति, स्मरिष्यमाणः, अस्मरिष्यत् ।।७८९।
[दु० टी०]
हनृ०। ऋदन्तो यस्येति विग्रहः। अन्तग्रहणं व्याप्त्यर्थम्, तेन स्वरतिसूतीत्यादिना परेणापि स्वरते: से विकल्पो न भवति, यदि पुनस्तत्र व्यवस्थितविभाषा श्रीयते, तदान्तग्रहणमिह सुखप्रतिपत्त्यर्थमेव। तकारोऽत्र सुखनिर्देशाार्थ एव।।७८९।
[वि० प०]
हन०। स्वरतिसतीत्यादिना परत्वात् स्वरतेर्विकल्पोऽपि न भवति। इह ऋदन्तादित्यस्यान्तग्रहणस्य व्याप्त्यर्थत्वात्। अन्यथा 'येन विधिस्तदन्तस्य' (का० परि० ३) इति सिद्धमिति भावः।।७८९।
[समीक्षा
'करिष्यति, हरिष्यति, हनिष्यति' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में इडागम का विधान किया गया है। पाणिनि का सूत्र है- “ऋद्धनो: स्ये" (अ० ७।२७०)। सूत्र में अन्त' शब्द का उपादान व्याप्त्यर्थ तथा तपरनिर्देश सुखप्रत्तिपत्त्यर्थ किया गया है।
[विशेष वचन १. अन्तग्रहणं व्याप्त्यर्थम् (दु० टी०)। २. अन्तग्रहणमिह सुखप्रतिपत्त्यर्थमेव (दु० टी०)। ३. तकारोऽत्र सुखनिर्देशार्थ एव (दु० टी०)।