________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपाद:
३२१ [वि० प०]
ह्रस्वात् । समस्थितेति। “समवप्रविभ्यः" (३।२।४२-१४) इति रुचादित्वाद् आत्मनेपदम्। “स्थादोरिरद्यतन्यामात्मने" (३। ५। २९) इतीकारः। आहतेति। "आङो यमहनौ स्वाङ्गकर्मको च" (३।२।४२-२२) इत्यनेनात्मनेपदम्। 'हने: सिच्यात्मने दृष्टः' इति वचनात् पञ्चमलोपः। अथ 'अवारिष्टाम्' इति नित्यत्वादन्तरङ्गत्वाच्च वृद्धौ कृतायां धातोर्हस्वान्तत्वाभावादेवेट: परस्य सिचो लोपो न भवति, किमनिड्ग्रहणेन ? सत्यम्, अनिग्रहणं ज्ञापयति, नात्र सिचो लोपविधौ तदन्तविधिरस्तीति। तेन 'अवारिष्टाम, व्यद्योतिष्ट' इति सिद्धम्। अन्यथा धुडन्तत्वाद् धातोरिटस्तद्ग्रहणे ग्रहणात् सेटोऽपि सिच: पूर्वेणैव लोप: प्राप्नोति। सिद्धान्ते तु नायं धुट: पर: सिच्, किन्तर्हि इकारात् स्वरादिति। यदि पुन: 'निर्दिश्यमानानामादेशिनामादेशाः' (का० परि० ७) इत्युच्यते, न तदा सेट: सिच: प्राप्तिरिति अनिग्रहणं स्वरूपविशेषणं सुखार्थमिति। पक्षद्वयमालोच्याह - नेट: परस्य वेति ।। ७३२।
[बि० टी०]
ह्रस्वात् । इहानिग्रहणं किमर्थमित्याह – नेट: परस्येति। अनिग्रहणाभावे इट: परस्य सिचो लोपो भवतीत्यर्थः। ननु कथमिदमुक्तम् अनिग्रहणाभावे सेटि सिचि लोप: स्यादिति वक्तुं युज्यते, नहि सिज्लोपे प्राप्ते इटमन्तरेण प्राप्नोतीतीटस्तद्ग्रहणेन ग्रहणात्। अत्र केचिद् आचक्षते–अत्र चकारोऽध्याहर्तव्यः। इटो लोपो न भवति, परस्य च लोपो न भवतीति। परं तु इटमपेक्ष्य वेदितव्यम्। 'व्यद्योतिष्ट' इत्येकवर्णः पञ्जीकृता दत्तः। किञ्च धुड्ग्रहणेन धुइमात्रं गृह्यते, तत्साहचर्यात् सिचोऽपि वर्णमात्रं गृह्यते इति इदं तु वर्णद्वयम् ।। ७३२।
[समीक्षा]
'अकृत, अकृथाः, समस्थित, आहत' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों व्याकरणों में सिच् का लोप किया गया है। पाणिनि का सूत्र है - "ह्रस्वादङ्गात्' (अ० ८।२।२७)। पाणिनीय रचनाक्रम के अनुसार सकार का लोप होता है, क्योंकि "रात् सस्य' (अ० ८।२।२४) सूत्रस्थ 'सस्य' की अनुवृत्ति यहाँ होती है। 'सिच्' के अभीष्ट होने पर केवल सकार का प्रयोग अभीष्ट अर्थ का स्पष्ट अवबोध नहीं कराता, व्याख्यान से ही उसका निर्धारण सम्भव होता है। कातन्त्रकार ने 'सिच्' का ही स्पष्ट उल्लेख किया है “सिचो धकारे'' (३। ६। ५०) सूत्र में, उसी की अनुवृत्ति प्रकृत सूत्र में होने से तात्पर्यबोध सुगमता से हो जाता है।
[विशेष वचन] १. नेट: परस्य वेति सुखार्थम्, तेन अवारिष्टात्, व्यद्योतिष्ट (दु० वृ०)। २. अनिड्ग्रहणं ज्ञापयति नात्र सिचो लोपविधौ तदन्तविधिरस्तीति (दु० टी०)।