________________
तृतीये आख्याताध्याये पञ्चमो गुणपादः
१९३
ककार को चकार तथा "अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु" (३ । ६ । ५) से कृधातुगत ऋ को वृद्धि - आर् ।। ६५८ ।
६५९. कुटादेरनिनिचट्सु [३ । ५। २७]
[सूत्रार्थ]
‘इन्–इच्–अट्' प्रत्ययों से भिन्न प्रत्ययों के परे रहते कुटादिगणपठित धातुओं को गुण आदेश नहीं होता है ।। ६५९ ।
[दु० वृ०]
कुटादेर्गणस्येनिचटो वर्जयित्वाऽन्येषु प्रत्ययेषु गुणो न भवति । उत्कुटिता, उत्कुटितुम्, उत्कुटिष्यति, उत्कुटितव्यम् । उत्पुटिता, उत्पुटितुम्, उत्पुटिष्यति, उत्पुटितव्यम् । कुटादेरिति किम् ? लेखनीयम्। अनिनिचट्स्विति किम् ? उत्कोटयति, उदकोटि, उच्चुकोट । कथं पृच्छनीयम् ? रूढित्वात् ।। ६५९ । [दु० टी० ]
कुटा० । 'कुङ् शब्दे' (१ । ४५८; ५ । १०९) इति यावत् कुटादिस्तावद् वृत्करणात्। उच्चुकुटिषतीति । सनि सेट्यप्यनेन प्रतिषिध्यते । केचिद् अत्र कुटस्यादिः कुटादिरिति तत्पुरुषार्थं कुटादिशब्दमावर्णयन्ति तेषां मते लिखेरपि गुणप्रतिषेधः, तदप्रमाणमित्याहकुटादेरित्यादि। इन् च इच्च अट् च इनिचटः । अनिनिचटः इति पर्युदासोऽयं नञ् । कथमित्यादि । प्रच्छेरनीय इत्येके । संप्रसारणं रूढमित्यर्थः । यथा पञ्जिकेति । पचि विस्तारवचने' (९। ७२) इत्यस्य चकारस्य जत्वं दृश्यते, तथायमपीत्यर्थः ।। ६५९ ।
[वि० प० ]
1
कुटादेः । कुट एवादिर्यस्यासौ कुटादिः । केचित् कुटादिशब्दस्यावृत्त्या कुटस्यादिः कुटादिरिति तत्पुरुषं वर्णयन्ति तेन लिखेरपि प्रतिषेधः सिद्धो भवति, तदिहाप्रमाणमिति प्रत्युदाहरणेन दर्शयन्नाह - कुटादेरित्यादि । उदकोटीति । " भावकर्मणोश्च" (३। २। ३०) इतीचि कृते इचस्तलोपः । कथमित्यादि । प्रच्छेः कुटादित्वाभावादगुणे विधीयमानं संप्रसारणम् अनीयप्रत्यये न स्यादित्यर्थः ।। ६५९ ।
[समीक्षा]
'उत्कुटिता, उत्कुटितुम्' आदि शब्दरूपों में अपेक्षित गुण का अभाव दोनों ही व्याकरणों में निर्दिष्ट है। कुटादिगण उभयत्र स्वीकृत है और उन धातुओं से कुछ प्रत्ययों के परे रहते गुण किसी को भी अभीष्ट नहीं है। 'इन - इच्-अट्' प्रत्ययों के परवर्ती होने पर गुणादेश प्रवृत्त हो जाता है, अतः निषेधविधि में इन्हें छोड़ दिया गया है। पाणिनि ने त्रित्–णित् प्रत्ययों से भिन्न प्रत्ययों में कुटादिगणपठित धातुओं को डिवद्भाव किया है, जिसके कारण "क्ङिति च " (अ० १ । १ । ५) सूत्र से गुणनिषेध होता है। ङिद्वत् करने वाला सूत्र है- "गाकुटादिभ्योऽञ्णिन्ङिन् ” (अ० १ । २ । १) ।
""