________________
तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः
२५१ समीप इति यदि पुनरुपधाग्रहणमनुवर्तते तदा देश्यमेव नास्तीति। व्यञ्जनादीनामित्यादि। हश्च मश्च यश्च म्यः, ते अन्ते येषां ते हम्यन्ताः, एदनुबन्धाश्च हम्यन्ताश्च क्षण च श्वस चेति द्वन्द्वः, पश्चान्नसमासः, तदेतत् कथमित्याह-अनिटामित्यादि। नत्रा निर्दिष्टस्यानित्यत्वात् “अस्य च दीर्घः" (३। ६। ८) इत्यनेन सेटामपि पक्षे दीर्घ इत्यर्थः।। ६८९।
[बि० टी०]
वद० । कथम् ‘अबभ्रीत्, अश्वल्लीत्' इति वृत्तिः, नन्वयमपि लान्तः कुतो न दीर्घः ? सत्यम्, मध्यपदलोपिसमासान्न दीर्घः। तथाहि रश्च लश्च रलम्, रलं च तदन्तं चेति रलन्तम्। रलन्तमन्ते येषाम्, ते तथोक्ता इति।। ६८९ ।
[समीक्षा]
'अचारीत्, अचालीत्, अवादीत्, अव्राजीत्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों आचार्यों ने अकार के आकार आदेश का विधान किया है। पाणिनि के दो सूत्र हैं"अतो लन्तस्य, वदव्रजहलन्तस्याच:" (अ० ७। २। २,३)। विशेषता यह है कि पाणिनि ने अकार के स्थान में वृद्धि आदेश तथा कातन्त्रकार ने दीर्घ आदेश माना है। इसका कारण यह हो सकता है कि पाणिनि ने 'आ' की वृद्धिसंज्ञा की है, जबकि कातन्त्रकार 'आर्' की वृद्धिसंज्ञा करते हैं। इस आधार पर पाणिनि का वृद्धिनिर्देश तथा कातन्त्रकार का दीर्घनिर्देश समीचीन कहा जा सकता है।
[विशेष वचन] १. अनिटामिति नत्रा निर्दिष्टस्यानित्यत्वात् (दु० वृ०)।
२. अनेकवर्णव्यवधानादेव न भविष्यति, उपधाग्रहणं वाऽनुवर्तते, तदा अन्तग्रहणं स्पष्टार्थम् (दु० टी०)।
३. नत्रा निर्दिष्टमनित्यमिति सेटोऽपि ग्रहणं पक्षे भवतीति भाव: (दु० टी०; वि० प०)।
४. केचिद् दीर्घस्य भावं केचिदभावमिच्छन्नि, तदुभयमतं प्रमाणीकृत्य अपरैर्विभाषा कृता। सूत्रकारमते तु दीर्घमप्रमाणमितीव लक्ष्यते (दु० टी०)।
५. नन्वयमपि लान्तः कुतो न दीर्घः ? सत्यम्। मध्यपदलोपिसमासान्न दीर्घः (बि० टी०)।
[रूपसिद्धि]
१. अवादीत्। अट् + वद् + सिच् + अद्यतनी-दि। 'वद व्यक्तायां वाचि' (१। ६१५) धातु से अद्यतनीविभक्तिसंज्ञक परस्मैपद-प्रथमपुरुप-एकवचन 'दि' प्रत्यय, "अड् धात्वादिद्यस्तन्यद्यतनीक्रियानिपत्तिषु' (३। ८। १६) से धातुपूर्व अडागम, "सिजद्यतन्याम्'' (३।२।२८) से 'मिच्' प्रत्यय, 'इ-च्' अनुबन्धों का प्रयोगाभाव, "इडागमोऽसार्वधातुकस्यादिर्व्यञ्जनादेरयकारादेः'' (३। ७। १) से इडागम, “सिच:"