________________
तृतीये आख्याताध्याये पञ्चमो गुणपाद:
२०९ [दु० वृ०]
अभ्यस्तात् परस्यान्तेर्नकारस्य लोपो भवति। ददति, ददतु, जाग्रति, जाग्रतु। नलोप: साध्य इति अन् न कृतः।। ६७० ।
[दु० टी०]
लोपो० । अन्तेरिकार उच्चारणार्थो न विशेषार्थ: "आत्मने चानकारात्" (३। ५। ३९) इति सम्बन्धस्यानुपपत्तेरिति। ननु अभ्यस्तादन्तिरदिति कथं न कृतवान् इत्याह-नलोप इत्यादि। साध्य एव विधेयः सुखहेतुः, प्रक्रियागौरवहेतुत्वादिति भावः। अन्तेरिति किमर्थम्-ददानि, दधानि। परस्मैपदार्थमिदं वचनम्।।६७० ।
[वि० प०]
लोपे० । "द्वयमभ्यस्तम्, जक्षादिश्च" (३।३।५, ६) इत्यभ्यस्तसंज्ञा विहितैवेति क्रमेण दर्शयन्नाह – ददतीत्यादि। “अभ्यस्तानामाकारस्य" (३।४।४२) इत्याकारलोपः। अन्तेरिकार उच्चारणार्थो न विशेषणार्थ:। “आत्मने चानकारात्" (३। ५। ३९) इत्यत्र वक्ष्यमाणेऽन्तिन इति सम्बन्धस्यानुपपत्तिप्रसङ्गात्। न हि आत्मनेपदेऽन्तिरस्ति, तेन अन्तेरपि नलोपो न भवति। तथा अभ्यस्तादन्तिरदिति कथं न कृतम्। अर्थान्नलोपो गम्यते इत्याह - नलोप इत्यादि। न हि साध्यमन्यव्याजेन विधातुमुचितमिति भावः।। ६७०।
[समीक्षा]
‘ददति, ददत्' इत्यादि शब्दरूपों के सिद्धयर्थ पाणिनीय व्याकरण में ‘दा धातु से आने वाले 'झि' प्रत्यय के अन्तर्गत 'झ' को 'अत्' आदेश होता है - "अदभ्यस्तात्' (अ० ७।१। ४), परन्तु कातन्त्रकार 'अन्ति-अन्तु' प्रत्यय पढ़ते हैं, अत: वहाँ 'दा' धातु को द्वित्वादि होने के बाद नलोप का विधान करना पड़ता है। जिसे प्रकृत सूत्र में कहा गया है। अत: उभयत्र समानता है।
[विशेष वचन] १. नलोप: साध्य इत्यन्न कृतः (दु० वृ०)। २. अन्तेरिकार उच्चारणार्थो न विशेषार्थ: (द० टी०)। ३. साध्य एव विधेयः सुखहेतुः, प्रक्रियागौरवहेतुत्वादिति भावः (दु० टी०)। ४. परस्मैपदार्थमिदं वचनम् (दु० टी०)। ५. अन्तेरिकार उच्चारणार्थो न विशेषणार्थ: (वि० प०)। [रूपसिद्धि]
१. ददति। दा + अन्ति। 'डु दाञ् दान' (२।८८) धातु से वर्तमानासंज्ञक प्रथमपुरुष-बहुवचन 'अन्ति' प्रत्यय, 'अन्' विकरण का लोप, द्विर्वचनादि तथा प्रकृत सूत्र द्वारा 'अन्ति' प्रत्ययगत नकार का लोप
२. ददतु। दा + अन्तु। 'डु दाञ् दाने' (२। ८४) धातु से पञ्चमीविभक्तिसंज्ञक