________________
१६०
कातन्त्रव्याकरणम्
को उस, प्रकृत सूत्र से गुण, “ए अय्” (१ । २। १२) से अयादेश तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से सकार को विसर्गादेश।
२. अजुहवुः। अट् + हु + अन्लोप + अन्-उस्। 'हु दाने' (२। ६७) धातु से ह्यस्तनीसंज्ञक अन्प्रत्यय, अडागम, अन् विकरण, उसका लोप, धातु को द्विवचन, अभ्याससंज्ञादि, अन् को उस्, प्रकृत सूत्र से गुण, "ओ अव्'' (१। २ । १४) से ओकार को अव आदेश तथा सकार को विसर्ग।
३. अबिभरुः। अट् + भृ + अन्लोप + अन्-उस्। 'डु भृञ् धारणपोषणयो:' (२८५) धातु से अन् प्रत्यय, अडागम, अन्विकरण, उसका लोप, धातु को द्विर्वचन, अभ्याससंज्ञाटि, प्रकृत सूत्र से ऋ को गुण-अर् तथा सकार को विसर्गादेश।।६३८ ।
६३९. न णकारानुबन्धचेक्रीयितयोः [३। ५। ७] [सूत्रार्थ]
णकारानुबन्ध वाले तथा चेक्रीयितसंज्ञक प्रत्यय के परे रहते नाम्यन्त एवं नाम्युपध धातुओं को गुण आदेश नहीं होता है।। ६३९ ।
[दु० वृ०]
नाम्यन्तानां नाम्युपधानां च णकारानुबन्धे चेक्रीयिते च परे गुणो न भवति। अशिश्रियत्, अपुषत्, अघुक्षन्, नीयते, दुष्यते, नरीनृत्यते, लोलूयते।। ६३९ ।
[दु० टी०]
न णकारा । प्रतिषेधस्य प्राप्तिपर्वकत्वान्नाम्यन्तानां नाम्यपधानां चेत्यवसीयते। वृत्तौ मन्दधियां सुखार्थमित्युच्यते। णकारोऽनुबन्धो यस्येति णकारानुबन्धश्चेक्रोयितं चेत्यल्पस्वरस्यापि परनिपातो गमकत्वात्। अनुबन्धग्रहणं च स्पष्टार्थम्। न हि णकार: स्थितिमानस्ति। यणादीनामनुबन्धसामर्थ्याच्च। यदि चेक्रोयितस्यापि ण्य इति णकारानुबन्धः क्रियते तदा चेक्रीयितग्रहणं शक्यमकर्तुम्, किन्तु सुखार्थं तत्र पूर्वाचार्यसंज्ञाश्रयणं चेक्रीयितलुगन्तस्य भाषायां यथाविधानं गुणप्रतिषेधः – “बोबुधीति न किञ्चिदप्यसौ" इति।। ६३९।
[वि० प०]
न णकारा० । प्रतिषेधस्य प्राप्तिपूर्वकत्वात् सर्वत्र भवतीत्याह-नाम्यन्तानामित्यादि अघुक्षदिति। गुहू संवरणे। "सणनिट: शिडन्तात" (३।२।२५) इत्यादिना सण. हा दु: "तृतीयादेर्घढधभान्तस्य" (३। ६ । १००) इत्यादिना आदिचत्थंत्वम्, गकारम्प घकार "षढोः कः से" (३।८।४) इति कत्वम्। इह ‘चण, अण, सण यण् एते गान्बल क्रमेणोदाहृताः।।६३९।
[बि० टी०] न ण० । ननु अनुबन्धग्रहणं किमर्थम् , णकारचेक्रीयितयारित्याम्नान ---