________________
१७४
कातन्त्रव्याकरणम्
ननु च नामिन इति वर्तते, तत्कथमत्र प्रसङ्गः, येनैतदर्थ भूग्रहणमिति ? सत्यम्, एवं मन्यते, सिज्लुकीति सामान्यवचनाद् यावतो धातोः सिचो लुक्, तावत एव तस्मिन् सति गुणो न भवतीति व्याप्तिः प्रतिपद्येत, ततश्च नामिनो निवृत्तिरिति सर्वत्र स्यादित्याह - सिज्लुकीत्यादि। वाशब्देन प्रवृत्तिरपि कथ्यते। दृष्टानुवृत्तिकस्य नामिग्रहणस्य शक्यमानेन वचनस्य व्यापकत्वेन निवृत्तेरयोगात् ततो भूग्रहणं निःसन्देहार्थमित्यर्थः।। ६४५ ।
[बि० टी०]
भुवः। ननु लुञ्चनं लुक्, सम्पदादित्वात् क्विपि कृते लुचीति भवितव्यम्, कथं लुकीति ? सत्यम्, लुक्शब्दोऽव्युत्पन्नोऽस्ति। ननु सिच इति किमर्थ लुकीत्यास्ताम्। न च वक्तव्यम् – चेक्रीयितलोपेऽपि स्यात् सिचीत्यर्थवशात् षष्ठ्यन्त: संबध्यते, भुव: सम्बन्धद्वारक एव लुकीत्यर्थ: ? सत्यम्। प्रतिपत्तिरियं गरीयसीति। अस्धातोरादेशस्यापि ग्रहणमिति हेमः।। ६४५।
[समीक्षा
'अभूत्, अभूवन्, अभूवम्' आदि शब्दरूपों के सिद्ध्यर्थ 'भू' धातुगत ऊकार के गुणाभाव की अपेक्षा होती है, जिसकी पूर्ति दोनों व्याकरणों में की गई है। पाणिनीय व्याकरण का सूत्र है - "भूसुवोस्तिङि' (अ० ७। ३। ८८)। इस प्रकार उभयत्र साम्य है।
[विशेष वचन] १. सिज्लुकीति वचनान्नामिनो निवृत्तिर्वेति शक्यते (दु० वृ०)। २. लुक्शब्दोऽव्युत्पन्नोऽप्यस्ति (दु० टी०; बि० टी०)। ३. प्रतिपत्तिरियं गरीयसी स्यात् (दु० टी०; बि० टी०)। ४. भूग्रहणं निःसन्देहार्थम् (वि० प०)। [रूपसिद्धि]
१. अभूत्। अट् + भू + दि। 'भू सत्तायाम्' (१ । १) धातु से भूतकालिक अद्यतनीविभक्तिसंज्ञक प्रथमपुरुष–एकवचन दि' प्रत्यय, अडागम, सिच् प्रत्यय, उसका लुक्, प्राप्त गुण का प्रकृत सूत्र द्वारा निषेध, दिप्रत्ययस्थ इकार का लोप तथा दकार को तकारादेश।
२. अभूताम्। अट् + भू + ताम्। 'भू सत्तायाम्' (१ । १) धातु से 'आताम्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।
३. अभूवन्। अट् + भू + अन्। भू सत्तायाम्' (१ । १) धातु से प्रथमपुरुष-बहुवचन अन् प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।। ६४५ ।