________________
१७२
कातन्त्रव्याकरणम्
[दु० टी०]
स्थादोः। एवं 'दाण दाने' (१।२६९) – व्यत्यदित, अदिषातां वस्त्रे। देङ - अदित, अदिषातां मित्रे। दो-व्यत्यदित, अदिषातां दण्डौ। धेट – व्यत्यधित, अधिषातां स्तनौ। स्थादोरिति किम् ? दाप्दैपो: - व्यत्यदास्त, अदासाताम!। नाम्यधिकारादेवाशिषो निवृत्तिरवसीयते आत्मनेपदमप्यत्र यदुच्यते तन्मन्दधियां सुखार्थम्। तथा अनिटीत्यधिकारोऽपि न प्रयोजयति व्यावृत्तेरभावात्। न च वक्तव्यम्, स्थादोरिकारविधानाद् गुणो न भविष्यति, अन्यथा एकारमेव विदध्यात्। नित्यत्वात् सिचो लोपो हि गणेन बाध्यते इति। नैवम्, इह वचनं लाघवार्थमपि स्यात्। स्थादोरिच्चेति कृते भुव: सिज्लुकीत्यत्र च इकारोऽपि वर्तते।। ६४४।।
[वि० प०]
स्थादोः। “समवप्रविभ्यः" (३।२।४२--१४) इति वचनात् सम्पूर्वस्तिष्ठती रुचादिः, इतरयोस्तु अनुबन्धत्वादुभयपदम्। “स्थादोरिरद्यतन्यामात्मने” (३। ५ । २९) इति वचनादित्वे कृते गुण: स्यादिति प्रतिषेध उच्यते। नन्विकारविधानादेव गुणो न भविष्यति, अन्यथा एकारमेव कुर्यात् । न चेकारविधानं ह्रस्वात् सिचो लोपार्थमिति युक्तम्, यस्मात् सतोऽपीकारस्य नित्यत्वाद् गुणेन भवितव्यम् इति कथं सिचो लोपस्तस्मादिकारकरणमेव गुणं बाधिष्यते, तदयुक्तम् । इकारविधानं हि लाघवार्थमपि स्यादिति गुणः प्रतिषिध्यते। नामिनः इत्यादि। यदि नामाधिकारो न स्यात् तदेहाप्यग्णत्वादाशिष्येकार इत्येत्त्वं स्यात् तस्मान्नाम्यधिकार एवाशिषं निवर्तयतीति।। ६४४।
[बि० टी०]
स्थादो:। 'स्थादोरिच्च' कथन्न कृतम्, चकारादगणश्च। ततश्च "स्थादोरिरद्यतन्यामात्मने" (३। ५ । २९) इति न कृतं स्यादिति चेत्, नैवम्। अविशेषे द्वयोः सिजाशिषोरनुवृत्ति: स्यात्। किञ्च सिज्लुकीत्यत्र इकारो वर्तते।। ६४४।
[समीक्षा
'समस्थिषत, अदित, अधित' आदि शब्दरूपों में वाञ्छित गुणनिषेध दोनों ही आचार्यों ने किया है। अन्तर यह है कि कातन्त्रकार ने साक्षात् ही गुणनिषेध किया है, जबकि पाणिनि ने “स्थाघ्वोरिच्च' (अ० १ । २ । १७) सूत्र से सिच् को किद्भाव तथा "क्डिति च' (अ० १।१। ५) से उसके गुणनिषेध की प्रक्रिया अपनाई है। टीकाकार बिल्वेश्वर ने "स्थादोरिच्च' यह न्यासान्तर पूर्वपक्ष के रूप में उपन्यस्त करके उसका समाधान भी दर्शाया है कि अविशेष निर्देश से 'सिच्–आशी:' इन दोनों की ही अनुवृत्ति होने लग जाएगी, जो अभीष्ट नहीं है, अत: न्यासान्तर समीचीन नहीं है।
[विशेष वचन] १. आत्मनेपदमप्यत्र यदुच्यते तन्मन्दधियां सुखार्थम् (दु० टी०)। २. इह वचनं लाघवार्थमपि स्यात् (दु० टी०)।