________________
१८२
कातन्त्रव्याकरणम्
३. नुनूषति। नु + सन् + अन् + ति। ‘णु स्तुतो' (२। ७) धातु से इच्छार्थ में 'सन्' प्रत्यय, नुनूष' की धातुसंज्ञा तथा अन्य प्रक्रिया पूर्ववत्।
४. तुष्टूपति। स्तु + सन् + अन् + ति। 'ष्टुञ् स्तुतो' (२ । ६५) धातु से इच्छार्थक 'सन्' प्रत्यय, ‘तुष्टूष' की धातुसंज्ञा तथा अन्य प्रक्रिया पूर्ववत्।
५. लुलूषति। लू + सन् + अन् + ति। 'लूञ् छेदने' (८। ९) धातु से सन् प्रत्यय, द्वित्वादि, लुलूष' की धातुसंज्ञा तथा अन्य प्रक्रिया पूर्ववत्।
६. चिकीर्षति। कृ + सन् + अन् + ति। 'डु कृञ् करणे' (७। ७) धातु से सन् प्रत्यय, द्वित्वादि, 'चिकीर्ष' की धातुसंज्ञा तथा अन्य प्रक्रिया पूर्ववत्।
७. बुभूषति। भृ + सन् + अन् + ति। 'डु भृञ् धारणपोषणयो:' (२। ८५) धातु से इच्छार्थक सन् प्रत्यय, द्वित्वादि, 'बुभूर्ष' की धातुसंज्ञा तथा अन्य प्रक्रिया पूर्ववत् ।। ६४९।
६५०. सर्वेषामात्मने सार्वधातुकेऽनुत्तमे पञ्चम्याः [३। ५। १८] [सूत्रार्थ]
पञ्चमीविभक्ति में उत्तमपुरुष से भिन्न सार्वधातुकसंज्ञक आत्मनेपद प्रत्ययों के परे रहते सभी नाम्यन्त – नाम्युपध धातुओं तथा विकरण को गुण नहीं होता है।। ६५० ।
[दु० वृ०]
सर्वेषां धातूनां विकरणानां च नामिन उपधाया नाम्यन्तस्य च सार्वधातुके पञ्चम्युत्तमवर्जिते आत्मनेपदे गुणो न भवति। दुग्धे, स्तुते, चिनुते, कुरुते। सार्वधातुके इति किम् ? धोक्ष्यते, स्तोष्यते। अनुत्तमे पञ्चम्या इति किम् ? स्तवे, करवै।। ६५०।
[दु० टी०]
सर्वेषाम् । एवं दुहीत, दुग्धाम्, अदुग्ध। स्तुवीत, स्तुताम्, अस्तुत इति। दुह: कर्मकर्तस्थो रुचादिः। सर्वेषामिति वचनं नाम्यन्तानामित्यस्य निवृत्त्यर्थम्। "द्वित्वबहत्वयोश्च परस्मै" (३। ८ । १९) इति द्वित्वबहुत्वयोरेव नियमेनात्मनेपदग्रहणमिह सुखार्थमेव स्यात्।। ६५०।
[वि० प०]
सर्वेषाम् । दुग्ध इति। 'दुह प्रपूरणे' (२ । ६१), "दादेर्घः' (३। ६ । ५७), ततो "घढधभेभ्यस्तथोोऽधः" (३। ८। ३) इति तस्य धत्वम्। धोक्ष्यते इति। "तृतीयादेर्घढधभान्तस्य" (३। ६ । १००) इत्यादिना दकारस्य धत्वम् ।। ६५० |
[बि० टी०]
सर्वे० । ननु नामिन उपधाया नाम्यन्तस्य च' इत्युक्तं कथं वृत्तिकृता। अनन्नरत्वान्नाम्यन्त एवानुवर्तते इति। न च वक्तव्यं सर्वेषां ग्रहणबलान्नाम्यन्तनाम्युपधे च प्राप्येते सर्वेषाम् – ग्रहणसामर्थ्यात्। यद् विकरणविधानं तदेव फलम्, अन्यथा धातुरेव