________________
तृतीये आख्याताध्याये पञ्चमो गुणपादः
१५९
[दु० वृ०]
अभ्यस्तानामुसि परे नामिनो गुणो भवति। "द्वित्वबहुत्वयोश्च परस्मै" (३। ५ । १९) इति प्रतिषेधे प्राप्ते वचनम्। अबिभयुः, अजुहवुः, अबिभरुः, अजागरुः। अभ्यस्तानामुसीति किम्? जुहुवुः ।।६३८ ।
[दु० टी०]
अभ्य० । अभ्यस्तानामुसीति। अभ्यस्तमाश्रित्योत्पद्यते। “अन उस् सिजभ्यस्त०" (३।४।३१) इत्यादिना य उस् सोऽभ्यस्तानामुस्, श्रुतत्वादभ्यस्तानामेव गुणः। तेन परोक्षायामुसि न भवति । अथवा विकरण इति वर्तते। उसीति भूतपूर्वविकरण इत्यर्थः ।।६३८ ।
[वि० प०]
अभ्यस्त० । “बि भी भये, हु दाने, डु धाञ् डु भृञ् धारणपोषणयोः' (२। ६८, ६७, ८५) इति सर्वत्र शस्तन्यन्, जुहोत्यादित्वाद् द्विर्वचनम्। “अन उस सिजभ्यस्तविदादिभ्योऽभुवः” (३।४।३१) इत्युस। “भृहाङ्माडामित्" (३।३।२४) इति भृडोऽभ्यासस्येकार:, अभ्यस्तमाश्रित्य यो भवति सोऽभ्यस्तानामुम इत्याह – अभ्यस्तानामित्यादि। तेन परोक्षाया उसि न भवति।। ६३८।
[बि० टी०]
अभ्यस्ता० । नाम्युपधस्याभ्यस्तस्य चोपधाया: इत्यनेन निषेधः। अत एव नामिन इत्युक्तं विवरणे। “अभ्यस्तानामुसि'' (३। ५। ६) इति अभ्यस्तसम्बन्धिनीत्यर्थः।। ६३८।
[समीक्षा]
'अबिभयुः, अजुहवुः, अबिभरु:' आदि प्रयोगों के सिद्ध्यर्थ अभ्यस्तसंज्ञा के अन्त में विद्यमान 'ई-3-ऋ' को गुण आदेश करने की अपेक्षा होती है। इसकी पूर्ति दोनों ही व्याकरणों में की गई है। पाणिनि का सूत्र है- "जुसि च' (अ० ७।३।८२)। इस प्रकार उभयत्र समानता ही कही जा सकती है।
[विशेष वचन] १. उसीति भूतपूर्वविकरणे इत्यर्थः (दु० टी०)। २. अभ्यस्तानामुसीति अभ्यस्तसम्बन्धिनीत्यर्थ: (बि० टी०)। [रूपसिद्धि]
१. अबिभयुः। अट् + भी + अन्लोप + अन्-उस्। 'जि भी भये' (२। ६८) धातु से हस्तनीविभक्तिसंज्ञक प्रथमपुरुष-बहुवचन 'अन्' प्रत्यय, “अड् धात्वादिहस्तन्यद्यतनीक्रियातिपत्तिषु' (३। ८। १६) से धातुपूर्व अडागम, "अन् विकरण: कर्तरि" (३। २।३२) से अन् विकरण, उसका लुक्, “जुहोत्यादीनां सार्वधातुके' (३ । ३। ८) से 'भी' धातु को द्विर्वचन, “पूर्वोऽभ्यासः'' (३।३।४) से पूर्ववर्ती 'भी' की अभ्याससंज्ञा, दीर्घ ईकार को ह्रस्व, भ् को ब्, “अन उस्०'' (३। ४। ३१) से अन्