________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः
९७
[वि० प० ]
य इवर्ण०। यदुक्तं धातुग्रहणमुत्तरार्थम्, तस्य फलमाह – अनेकाक्षरस्य धातोर्य इवर्ण इति। एतेनानेकाक्षरस्येति धातोर्विशेषणम् असंयोगपूर्वस्येति, एतत् पुनरिवर्णस्येति दर्शितम्। अन्यथा अनेकाक्षरस्येत्यपि इवर्णस्य विशेषणं स्यात् । असंयोगपूर्वो य इवर्णस्तदन्तसमुदायस्यानेकाक्षरस्य यत्वमिति । एवं सति 'अधीयते' इत्यत्रापि स्यात् तदन्तसमुदायस्यानेकाक्षरत्वादिति। अथ महाधात्वधिकाराद् अनेकाक्षरस्येति धातोर्विशेषणमुच्यते । यद्येवम् असंयोगपूर्वस्येत्यपि धातोरेव विशेषणं स्यात् तदा 'व्यशिश्वियत्' इत्यत्रैव प्रतिषेधः स्यात् । इह धातोः पूर्वो व्यशब्दः संयोगोऽस्तीति 'शिवधेटोर्वा वक्तव्यम्' इति वचनात् श्वयतेश्चण्। इह तु यत्वमेव स्यात् । शिश्वियतुः, चिक्रियतुः' इति धातोः पूर्वं संयोगत्वाभावादिति। 'दिग्यिरे' इति "दिगि दयतेः परोक्षायाम्" (३ । ३ ।४२ ) इति दिग्यादेशोऽभ्यासलोपश्च । 'अधीयते' इति अधिपूर्व इङ् अध्ययने, इयादेशः, “आत्मने चानकारात्” (३ । ५। ३९) इति नलोपः ।। ५९७।
[समीक्षा]
'निन्यतुः, निन्युः, ग्रामण्यौ, ग्रामण्य:, दिग्यिरे, निन्यिरे' आदि शब्दों के सिद्ध्यर्थ असंयोगपूर्व अनेकाक्षर–धातुघटित इवर्ण को यकारादेश की अपेक्षा होती है। इसका समाधान दोनों ही आचार्यों ने किया है। पाणिनि का सूत्र है – 'एरनेकाचोऽसंयोगपूर्वस्य" (अ० ६।४।८२) । पाणिनि के 'ए' प्रयोग की अपेक्षा 'इवर्णस्य' का प्रयोग अधिक स्पष्टाधायक है। ज्ञातव्य है कि 'अक्षर' शब्द का प्रयोग केवल स्वर वर्णों के लिए तथा व्यञ्जनयुक्त स्वरवर्णों के लिए होता रहा है। अतः पाणिनि के 'अनेकाच: ' पद की अपेक्षा कातन्त्रकार के 'अनेकाक्षरस्य' शब्द के उल्लेख में स्पष्टता अधिक है।
[विशेष वचन ]
१. महाधात्वधिकाराद् धातुरस्तीति (दु० टी० ) ।
२. असंयोगादिति सिद्धे पूर्वग्रहणं स्पष्टार्थम् (दु० टी० ) |
३. तदन्तसमुदायस्यानेकाक्षरत्वात् (वि. प ० ) ।
४. अथ महाधात्वधिकारादनेकाक्षरस्येति धातोर्विशेषणमुच्यते (वि० प० ) । [रूपसिद्धिः ]
१. विव्यतुः । व्येञ् + परोक्षा- अनुस् । 'व्येञ् संवरणे' (१।६१२) धातु से परोक्षाविभक्तिसंज्ञक परस्मैपद - प्रथम पुरुष - द्विवचन 'अतुस्' प्रत्यय, "परोक्षायां च " (३ । ५। २०) से अगुण, "स्वपिवचियजादीनां यणपरोक्षाशी :षु" (३।४।३) से 'ये' को सम्प्रसारण, ‘‘तद् दीर्घमन्त्यम् " ( ४१ १५२ ) से दीर्घ, "चण्परोक्षाचक्रीयितसनन्तेषु ” (7. ।३।७ ) से 'वी' धातु को द्विर्वचन, पूर्ववर्ती 'वी' की अभ्याससंज्ञा, “ह्रस्वः” (३।३।१५) से ह्रस्व, प्रकृत सूत्र से ईकार को यकार तथा सकार को विसर्गादेश।
२. विव्युः । व्येञ् + परोक्षा- उस् । 'व्येञ् संवरणे' (१ । ६१२) धातु से परोक्षाविभक्तिसंज्ञक 'उस्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।