________________
तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः
१३५
[दु० वृ०]
इणो धातोर्गादेशो भवति अद्यतन्यां परतः। अगात्, अगाताम्। इण्वदिकोऽपि - अध्यगात्।। ६२३।
[दु० टी०]
इणो गा। इण्वदिकोऽपीत्यत्र समाधिः। इण्ग्रहणमिकारं परस्मैपदिनमासन्नपाठमुपलक्षयति। तेन 'इक् स्मरणे' (२ । १२) इत्यस्यापि भवतीति। कथम् ‘अगायि भवता, अगासाताम्, अगासत' इति इचा सिचा च गादेशान्नित्यत्वेन व्यवधानात् ? सत्यम्, विषयसप्तम्या भविष्यति ।। ६२३ ।
[वि० प०]
इण:। “इणस्था०" (३। ४। ९३) इत्यादिना सिचो लुक्। इण्वदिकोऽपीति इण्वत् कार्यमिकोऽपि भवतीत्यर्थः। कथमेतत् ? सत्यम्, इण्ग्रहणमुपलक्षणम्, तेन सादृश्यात् परस्मैपदिनमेकस्वरं सानुबन्धं सन्निहितपाठमुपलक्षयति, ततः ‘इक् स्मरणे' (२।१२) इत्यस्यापि भवतीत्यर्थ: ।। ६२३।
[समीक्षा]
'इण्' धातु से अद्यतनी ( = लुङ् लकार) विभक्ति में 'अगात्, अगाताम्' आदि शब्दरूपों के सिद्ध्यर्थ 'इण' के स्थान में 'गा' आदेश की आवश्यकता होती है, जिसकी पूर्ति दोनों ही आचार्यों ने की है। पाणिनि का सूत्र है – “इणो गा लुङि" (अ० २।४। ४५)। उभयत्र व्याख्याकारों ने 'इण्वद् इकोऽपि वक्तव्यम्' यह वार्तिक वचन प्रस्तुत करके 'इक् स्मरणे' धातु से भी 'गा' आदेश स्वीकार किया है, जिसके फलस्वरूप 'अध्यगात्' आदि प्रयोग निष्पन्न होते हैं।
[विशेष वचन]
१. इण्ग्रहणमिकारं परस्मैपदिनमासन्नपाठमुपलक्षयति, तेन 'इक् स्मरणे' इत्यस्यापि भवतीति (दु० टी०)।
२. इण्ग्रहणमुपलक्षणम् (वि० प०)। [रूपसिद्धि]
१. अगात्। अट् + इण् + सिच् + दि। ‘इण् गतौ' (२। १३) धातु से अद्यतनीविभक्तिसंज्ञक प्रथमपुरुष – एकवचन दि' प्रत्यय, "अड् धात्वादिस्तिन्यद्यतनीक्रियातिपत्तिषु'' (३। ८ । १६) से धातुपूर्व अडागम, “अनिडेकस्वरादातः' (३ । ७।१३) से अनिट्, “सिजद्यतन्याम्' (३। २। २४) से सिच् प्रत्यय, प्रकृत सूत्र से इण को 'गा' आदेश, “इणस्थादापिबतिभूभ्य: सिच: परस्में" (३। ४। ९३) से सिच् का लुक् तथा दकार को तकारादेश।
२. अगाताम्। अट् + इण् + सिच् + ताम्। 'इण् गतौ' (२। १३) धातु से अद्यतनीविभक्तिसंज्ञक 'ताम्' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।। ६२३।