________________
૨૧૦
धर्मपरीक्षा भाग-१ | गाथा-१७ તે જીવો ક્વચિત્ ઇન્દ્રિયોના વિષયોમાં ઉત્કટ ભોગના રાગી હોય તો ક્વચિત પોતપોતાના દર્શનના અતત્ત્વભૂત પદાર્થ પ્રત્યે ઉત્કટ રાગી હોય તેમાં પોતાના પક્ષને સ્થિર કરવા માટે અવિચારક રાગ વર્તતો હોય છે. તેથી સ્વપક્ષનો રાગ એ પણ ભોગનો રાગ છે. કપિલ ઋષિને તે પ્રકારનો પોતાના સ્વપક્ષનો રાગ હતો તેથી જ દેવભવમાં ગયા પછી પણ પોતાના પક્ષને પુષ્ટ કરવા અર્થે શિષ્યને સહાયતા કરી છે. તેથી કપિલને ભવાભિમ્પંગનો ભાવ હતો અને તેના બળથી હરિભદ્રસૂરિ મહારાજા કહે છે કે કપિલ ઋષિની જે પૂર્વસેવાની આચરણા હતી તે ભોગાથે હતી માટે કપિલ ઋષિ ચરમાવર્ત બહારની પૂર્વસેવા કરનારા છે, એમ હું માનું છું. टी :
अपि च 'मनागपि हि तन्निवृत्तौ तस्यापुनर्बन्धकत्वमेव स्याद्' इति वचनान्मनागपि संसारासंगनिवृत्तौ जीवस्यापुनर्बंधकत्वं सिद्ध्यति, तत्रिवृत्तिश्च मुक्त्यद्वेषेणापि स्यात्, तस्य च चरमपुद्गलपरावर्त्तव्यवधानेनापि मोक्षहेतुत्वमुक्तम् । तथा च योगबिन्दुसूत्रवृत्ती -
नास्ति येषामयं तत्र तेऽपि धन्याः प्रकीर्तिताः । भवबीजपरित्यागात्तथाकल्याणभागिनः ।।४०।।
न-नैव, अस्ति=विद्यते, येषां=भव्यविशेषाणां, अयं द्वेषः, तत्र=मुक्तौ, तेऽपि किंपुनस्तत्रानुरागभाज इति 'अपि' शब्दार्थः, धन्याः धर्मधनलब्धारः, प्रकीर्तिताः । पुनरपि कीदृशाः? इत्याह-भवबीजपरित्यागात् मनाक्स्वगतसंसारयोग्यतापरिहाणेः सकाशात्, तथा तेन प्रकारेण चरमपुद्गलपरावर्त्तव्यवधानादिना, कल्याणभागिनः= तीर्थकरादिपदप्राप्तिद्वारेण शिवशर्मभाज इति ।।' तथा च चरमपुद्गलपरावर्त्तवर्तिनां मुक्त्यद्वेषतद्रागाऽक्षुद्रतादिगुणवतां गलितकदाग्रहाणां सम्यक्त्वप्राप्तिसांनिध्यव्यवधानविशेषेऽपि सर्वेषामपुनर्बन्धकादीनामविशेषेण मार्गानुसारित्वमङ्गीकर्त्तव्यम् ।
यत्तु 'पढमकरणोवरि तहा अणहिनिविट्ठाण संगया एसा' इति वचनात् 'प्रथमकरणोपरि वर्तमानानामपुनबन्धकादीनां शुद्धवन्दना भवति' इत्यभिधाय
णो भावओ इमीए परोवि हु अवड्डपोग्गला अहिगो । संसारो जीवाणं हंदि पसिद्धं जिणमयंमि ।। (पंचा. ३-३२)
इत्यनेन ग्रन्थेन शुद्धाध्यवसायशुद्धायां वन्दनायां, सत्यामुत्कृष्टोऽप्यपार्द्धपुदगलावर्त्ताधिकः संसारो जीवानां न भवतीति पञ्चाशके प्रोक्तं, तदपुनर्बन्धकस्यावस्थाभेदेन विचित्रत्वाद् विधिशुद्धजैनक्रियाऽऽराधकमपुनर्बन्धकमधिकृत्यावसेयं, सर्वस्यापुनर्बन्धकस्य, प्रागुक्तयुक्त्यैतावत्कालमानाऽनियमाद्, भावशुद्धजैनक्रियाया एव एतावत्कालनियतत्वाद् । अत एवास्मिन्नर्थे (आव.नि. ८५३)