Book Title: Dharm Pariksha Part 01
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
३७२
टीडा :
तेणं ति । तेन = अनुमोदनाप्रशंसयोर्विषयभेदाभावेन, अनुमोदनीयं प्रशंसनीयं च सर्वं शुद्धं स्वरूपशुद्धं, कृत्यं दयादानशीलादिकं जात्या स्वरूपयोग्यताऽवच्छेदकरूपेण, भवति, यद्रूपावच्छेदेन यत्र सुन्दरत्वज्ञानं तद्रूपविशिष्टप्रतिसन्धानस्य तद्रूपावच्छिन्नविषयकहर्षजनकत्वाद्, अत एव शुद्धाहारग्रहणदानादिव्यक्तीनां सर्वासामसुन्दरत्वेऽपि, कासाञ्चिच्चाशुद्धाहारग्रहणदानादिव्यक्तीनामप्यपवादकालभाविनीनां सुन्दरत्वेऽपि, 'साधोः शुद्धाहारग्रहणं सुन्दरं, श्रावकस्य च शुद्धाहारदानं' इत्ययमेवोपदेशो युक्तो, नत्वशुद्धाहारग्रहणदानोपदेशोऽपि, सामान्यपर्यवसायित्वात्तस्य, सामान्यपर्यवसानस्य च स्वरूपशुद्ध एव वस्तुन्युचितत्वात्, स्वरूपशुद्धं हि वस्तु जात्याप्यनुमोद्यमानं हितावहमिति । भावविशिष्टं तु = अपुनर्बन्धकादिभावसंवलितं तु, अन्यदपि विषयशुद्धादिकमपि वस्त्वनुमोद्यम्, 'भावविशिष्टा क्रिया सुन्दरा' इत्यादिप्रशंसया भावकारणत्वेन विषयशुद्धादावपि कृत्ये स्वोत्साहसंभवात्, न चैवमपुनर्बंधकोचितविषयशुद्धकृत्येऽपि साधोः प्रवृत्त्यापत्तिः, स्वाभिमततत्तद्धर्माधिकारीष्टसाधनत्वेन प्रतिसंहितेऽधस्तनगुणस्थानवर्त्यनुष्ठाने स्वोत्साहसंभवेऽपि स्वाधिकाराभावेन तत्राप्रवृत्तेः, अत एव 'शोभनमिदमेतावज्जन्मफलमविरतानां' इतिवचनलिङ्गगम्यस्वोत्साहविषयेऽपि जिनपूजादौ श्राद्धाचारे न साधूनां प्रवृत्तिरिति बोध्यम्, इत्थं च भावानुरोधादपुनर्बंधकादेरारभ्यायोगिकेवलिगुणस्थानं यावत्सर्वमपि धर्मानुष्ठानमनुमोदनीयं प्रशंसनीयं चेति सिद्धम् । उक्तं चोपदेशपदसूत्रवृत्त्योः
"ता एअम्मि पयत्तो आहेणं वीयरायवयणंमि ।
धर्मपरीक्षा भाग -१ | गाथा - 34
-
बहुमाणो कायव्वो धीरेहिं कयं पसंगेणं ।। २३४ ।।"
" तत्= तस्मात्, एतस्मिन्= धर्मबीजे प्रयत्नो = यत्नातिशयः कर्त्तव्यो धीरैः इत्युत्तरेण योगः, किंलक्षणः प्रयत्नः कर्त्तव्यः? इत्याशङ्क्याह-ओघेन = सामान्येन, वीतरागवचने = वीतरागागमप्रतिप्रादितेऽपुनर्बन्धकचेष्टाप्रभृत्ययोगिकेवलिपर्यवसाने तत्तच्चित्रशुद्धसमाचारे, बहुमानो = भावप्रतिबन्धः क्षयोपशमवैचित्र्यान्मृदुमध्याधिमात्रः कर्त्तव्यो धीरैर्बुद्धिमद्भिः, उपसंहरन्नाह-कृतं प्रसंगेन=पर्याप्तं धर्मबीजप्रख्यापनेनेति" । भावानुरोधेन ह्यनुष्ठानस्यानुमोदनप्रशंसे विहिते, भावश्चापुनर्बन्धकाद्यनुष्ठाने नियत एव, अन्ततो मोक्षाशयस्यापि सत्त्वात्, तस्याप्यचरमपुद्गलपरावर्त्ताभावित्वेन मोहमलमन्दतानिमित्तकत्वेन शुद्धत्वात् । तदुक्तं विंशिकायां
-
-
“मोक्खासओवि णण्णत्थ होइ गुरुभावमलपहावेणं ।
गुरुवाहिविगारेण जाउ पत्थासओ सम्मं ॥ | १ || ” (विंशतिविंशिका - ४ / १) इति । अन्यत्र=चरमपुद्गलपरावर्त्तादन्यत्र, ततो विषयशुद्धादिकं त्रिविधमप्यनुष्ठानं प्रशस्तमिति सिद्धम् ।
उक्तं च विंशिकायामेव

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402