Book Title: Dharm Pariksha Part 01
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
3७८
ધર્મપરીક્ષા ભાગ-૧ | ગાથા-રૂપ इयं च पुरुषविशेषानुपग्रहात्सामान्यप्रशंसैवेति । यद्यप्यत्रापि वाक्यार्थस्य विशेष एव पर्यवसानं, तथापि साधारणगुणानुरागस्यैवाभिव्यङ्ग्यत्वान्न मिथ्यात्वाभिवृद्धिरिति द्रष्टव्यम् । स्यादत्र परस्येयमाशङ्का - ‘एवं सति मिथ्यादृष्टेः पुरुषविशेषस्य दयाशीलादिगुणपुरस्कारेण प्रशंसा न कर्त्तव्या स्यात्, अन्यतीर्थिकपरिगृहीतार्हत्प्रतिमाया विशेषेणावन्द्यत्ववदन्यतीर्थिकपरिगृहीतगुणानामपि विशेषतोऽप्रशंसनीयत्वात्, दोषवत्त्वेन प्रतिसन्धीयमाने पुरुषे तद्गतगुणप्रशंसायास्तद्गतदोषानुमतिपर्यवसितत्वात्, अत एव सुखशीलजनवन्दनप्रशंसयोस्तद्गतप्रमादस्थानानुमोदनापत्तिरुक्ता - "किइकम्मं च पसंसा सुहसीलजणंमि कम्मबंधाय । जे जे पमायठाणा ते ते उवबूहिया हुंति ।।" इत्यादिनाऽऽवश्यकादाविति । तत्र ब्रूमः-यदि नाम तद्गतदोषज्ञानमेव तत्प्रशंसायास्तदीयतदोषानुमतिपर्यवसायकमिति मिथ्यादृष्टिगुणप्रशंसात्यागस्तवाभिमतस्तदाऽविरतसम्यग्दृष्टेः सम्यक्त्वादिगुणप्रशंसाऽप्यकर्त्तव्या स्यात्, तद्गताविरतिदोषज्ञानात्तस्यास्तदनुमतिपर्यवसानात् ।
अथाविरतसम्यग्दृष्ट्यादावविरत्यादेर्न स्फुटदोषत्वं, स्फुटदोषप्रतिसन्धानमेव च तद्गतप्रशंसाया दोषानुमतिपर्यवसानबीजम्, अत एव शैलकराजर्षिप्रभृतीनां पार्श्वस्थत्वादिस्फुटदोषप्रतिसन्धाने हीलनीयत्वमेवोक्तं शास्त्रे, न तु गुणसामान्यमादाय प्रशंसनीयत्वं, तत्कालीनतत्प्रशंसाया दोषानुमतिरूपत्वाद्, इत्यविरतसम्यग्दृष्ट्यादीनां सम्यक्त्वादिगुणानुमोदने न दोष इति चेत्, तर्हि मार्गानुसारिणां मिथ्यादृशां मिथ्यात्वमपि न स्फुटो दोषः, तत्त्वेतरनिन्दनायुपहितप्रबलमिथ्यात्वस्यैव स्फुटदोषत्वादिति तद्गतगुणप्रशंसायामपि न दोषः, अवश्यं चैतदित्थं प्रतिपत्तव्यं, अन्यथा मेघकुमारजीवहस्तिनोऽपि दयागुणपुरस्कारेण प्रशंसानुपपत्तिरिति । अन्यतीर्थिकपरिगृहीतत्वं चाहत्प्रतिमायामिव दयादिगुणेषु न स्फुटो दोषः, दयादिगुणानामभिनिविष्टान्यतीर्थिकसाक्षिकत्वाभावेन मिथ्यात्वाभावात्, प्रत्युत तत्त्वतो जिनप्रवचनाभिहितत्वप्रतिसन्धानेन तदस्फुटीकृतमेव, अतः 'स्तोकस्यापि भगवदभिमतस्य गुणस्योपेक्षा न श्रेयसी' इत्यध्यवसायदशायां तत्प्रशंसा गुणानुरागातिशयद्वारा कल्याणावहा, अत एव गुणानुरागसङ्कोचपरिहाराय स्तोकगुणालंबनेनापि भक्त्युद्भावनं विधेयमित्युपदिशत्ति पूर्वाचार्याः । तदुक्तं बृहत्कल्पभाष्यवृत्त्योः -
"दंसणनाणचरित्तं तवविणयं जत्थ जत्तियं पासे । जिणपन्नत्तं भत्तीए पूयए तं तहिं भावं ।।"

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402