Book Title: Dharm Pariksha Part 01
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 382
________________ धर्मपरीक्षा माग-१ / गाथा-3४ 354 न च अनुमोदनायाः स्वेष्टसाधकमेव वस्तु विषयः, तादृशस्यैव तपः संयमादेरारंभपरिग्रहादेर्वा विरतैरविरतैश्चानुमोदनात्, न तु परेष्टसाधकमात्मनश्चानिष्टसाधनमपि, निजधनापहारस्याप्यनुमोदनीयत्वापत्तेः, प्रशंसायाश्चेष्टमनिष्टं च वस्तु विषयः, इष्टस्य धार्मिका-नुष्ठानस्यानिष्टस्य चाज्ञाबाह्यस्य वस्तुनः प्रशंसाव्यवस्थितेः, भवति हि निजकार्यादिनिमित्तमसद्गुणस्यापि प्रशंसा, अत एवायमागमोऽपि (स्था.४/३७०) - "चउहिं ठाणेहिं असंते गुणे दीवेज्जा, अब्भासवत्तियं, परछंदाणुवत्तियं, कज्जहेउ, कयपडिकइए त्ति ।।" सा चेयमनिष्टप्रशंसाऽतिचाररूपापि प्रयोजनविशेषेण कस्यचित्कादाचित्की स्याद् ~ इत्येतदपि वचनं शोभनं, स्वारसिकप्रशंसाया अनिष्टाऽविषयत्वात्, पुष्टालंबनकानिष्टप्रशंसाया अपीष्टविषयत्वपर्यवसानात्, न हि किञ्चिज्जात्येष्टमनिष्टं वा वस्तु विद्यते, किन्तु परिणामविशेषेण भजनीयमिति । यदुवाच कल्पाकल्पविभागमाश्रित्य वाचकमुख्यः - "किञ्चिच्छुद्धं कल्प्यमकल्प्यं स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्र पात्रं वा भेषजाद्यं वा ।।" इति । (प्रशमरति १४५) मोहप्रमादादिनाऽनिष्टविषयत्वं च प्रशंसाया इवानुमोदनाया अपि भवतीति न कोऽपि विषयभेदः, न चानिष्टविषयतावच्छेदेनोपचारानुपचारप्रवृत्त्याऽनयोरतिचारभङ्गभावाद् भेदः, अभिमतोपचारेणातिचारत्वाभावात्, अन्यथा "संथरणंमि असुद्धं दोण्हवि गिण्हंतदितयाणहियं । आउरदिट्ठतेणं तं चेव हियं असंथरणे ।।" (पिण्डविशुद्धि) इत्यादौ कारणिकाशुद्धग्रहणप्रशंसाया अप्यतिचारत्वप्रसङ्गाद, अनभिमतोपचारादतिचारभङ्गयोस्तु परिणामभेदः प्रयोजको न तु विषयभेद इति यत्किञ्चिदेतत् । शास्त्रेऽपि प्रशंसाऽनुमोदनाविशेष एव गीयते । तदुक्तं पञ्चाशकवृत्तिकृता 'जइणोवि हु दव्वत्थयभेओ अणुमोअणेण अत्थित्ति' इति प्रतीकं विवृण्वता 'यतेरपि=भावस्तवारूढसाधोरपि, न केवलं गृहिण एव, हु शब्दोऽलङ्कृतौ, द्रव्यस्तवविशेष: अनुमोदनेन= जिनपूजादिदर्शनजनितप्रमोदप्रशंसादिलक्षणयाऽनुमत्या, अस्ति=विद्यते, इति शब्दो वाक्यपरिसमाप्ताविति' ।।३४।। टीमार्थ :___ अनुमोदनाप्रशंसयोः ..... वाक्यपरिसमाप्ताविति ।। 'सामनविसेसत्तत्ति' प्रती छ. अनुमोदन। भने પ્રશંસાનું સામાન્ય-વિશેષપણું હોવાથી અનુમોદના ત્રણે વ્યાપારરૂપ છે માટે સામાન્યપણું છે અને પ્રશંસા વાણીના વ્યાપારરૂપ છે માટે વિશેષપણું છે તેથી સામાન્ય-વિશેષ ભાવ હોવાથી, ભેદ છે. જે પ્રમાણે પૃથ્વીનો અને દ્રવ્યનો સામાન્ય-વિશેષના ભાવથી ભેદ છે.

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402