Book Title: Dharm Pariksha Part 01
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 306
________________ ૨૮૯ ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૨૪ तदा केयं वाचोयुक्तिः?' 'सर्वेऽपि शाक्यादिप्रवादा जैनागमसमुद्रसम्बन्धिनो बिन्दव इति भ्रान्तिः' इति, ज्ञानवाक्ययोमिथ्यारूपयोरविशिष्टयोरेकत्र जैनागमसम्बन्धित्वमपरत्र नेत्यत्र प्रमाणाभावात्, प्रत्युत वाक्यमुत्सर्गतो न प्रमाणं न वाऽप्रमाणं, अर्थापेक्षया तु तत्र प्रामाण्यमप्रामाण्यं वा व्यवतिष्ठत इति कल्पभाष्यप्रसिद्धार्थानुसारेणोदासीनेषु वाक्यरूपपरप्रवादेषु तत्सम्बन्धित्वं नात्यसुन्दरं, साक्षात्प्रतिपक्षभूतेषु मिथ्याज्ञानरूपेषु प्रवादेषु च तदत्यन्तासुन्दरमिति, भावभेदे च सति वाक्यरचनायां न विशेषः, 'सम्यग्दृष्टिपरिगृहीतं मिथ्याश्रुतमपि सम्यक्श्रुतं, मिथ्यादृष्टिपरिगृहीतं च सम्यक्श्रुतमपि मिथ्याश्रुतं' इति सिद्धान्तव्यवस्थितत्वात् । शाक्यादिप्रवादेषु जैनागमोद्गतत्वरूपतत्संबन्धित्वाभ्युपगमस्य तदेकानुपूर्वीकरचनारूपसंबन्धाभावेन खण्डनं त्वपाण्डित्यविजूंभितमेव, न ह्येवंभूतसंबन्धेन साधूनां तद्वचनादसंयतत्वापत्तिः, शुद्धाशुद्धविवेकेनैव साधुभिस्तत्परिग्रहात् । न च 'शाक्यादिप्रवादा जैनागमसमुद्रसम्बन्धिनो बिन्दवः' इति प्रवाहपतितमेव वचनं । (धन. पञ्चा. ४१) पावंति जसं असमंजसावि वयणेहिं जेहिं परसमया । तुह समयमहोअहिणो ते मंदा बिंदुणिस्संदा ।। इति परमश्रावकेण धनपालपण्डितेनापीत्थमभिधानात् । किञ्च - जं काविलं दरिसणं एअं दव्वट्ठिअस्स वत्तव्वं । सुद्धोअणतणयस्स उ परिसुद्धो पज्जवविअप्पो ।। दोहि वि णएहिं णीअं सत्थमुलूएण तहवि मिच्छत्तं । जं सविसयपहाणत्तणेण अण्णुण्णणिरवेक्खं ।। इत्यादि सम्मतिग्रन्थेऽपि (३-४८/४९) शाक्यादिप्रवादानां जैनागममूलत्वं सुप्रसिद्धम्, तस्य द्रव्यार्थिकपर्यायार्थिकोभयनयरूपत्वात् । यच्च सिद्धसेनः (संमति १-३) तित्थयरवयणसंगहविसेसपत्थारमूलवागरणी । दव्वट्टिओ अ पज्जवणओ अ सेसा विअप्पा सिं ।। इति । यच्चोक्तं-'बिन्दुभावं भजन्ते' इति प्रयोगानुपपत्तिः, अवयवावयविनोरुपमानोपमेयभावे गौरवाभावादिति-तदसत्, न ह्यत्र हस्ताद्यवयवसाधारणमवयवत्वं, किन्तु समुदितेषु परप्रवादेषु तदेकदेशार्थत्वमिति गौरवाऽप्रतिघातात् । यच्चोक्तं 'समुद्रस्य बिन्दव इति भणनमप्यसंगतं' इत्यादि, तदप्यसत् समुद्रस्थानीयजैनमहाशास्त्रप्रभवकल्लोलस्थानीयावान्तरशास्त्रेभ्यः सामान्यदृष्टिपवनप्रेरितपरसमयबिन्दूद्गमस्याविरोधात् । 'समुद्रानिर्गतबिन्दुभिः समुद्रस्य गांभीर्यहानिः' इति तु न पामरस्यापि

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402