________________
૨૮૯
ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૨૪ तदा केयं वाचोयुक्तिः?' 'सर्वेऽपि शाक्यादिप्रवादा जैनागमसमुद्रसम्बन्धिनो बिन्दव इति भ्रान्तिः' इति, ज्ञानवाक्ययोमिथ्यारूपयोरविशिष्टयोरेकत्र जैनागमसम्बन्धित्वमपरत्र नेत्यत्र प्रमाणाभावात्, प्रत्युत वाक्यमुत्सर्गतो न प्रमाणं न वाऽप्रमाणं, अर्थापेक्षया तु तत्र प्रामाण्यमप्रामाण्यं वा व्यवतिष्ठत इति कल्पभाष्यप्रसिद्धार्थानुसारेणोदासीनेषु वाक्यरूपपरप्रवादेषु तत्सम्बन्धित्वं नात्यसुन्दरं, साक्षात्प्रतिपक्षभूतेषु मिथ्याज्ञानरूपेषु प्रवादेषु च तदत्यन्तासुन्दरमिति, भावभेदे च सति वाक्यरचनायां न विशेषः, 'सम्यग्दृष्टिपरिगृहीतं मिथ्याश्रुतमपि सम्यक्श्रुतं, मिथ्यादृष्टिपरिगृहीतं च सम्यक्श्रुतमपि मिथ्याश्रुतं' इति सिद्धान्तव्यवस्थितत्वात् । शाक्यादिप्रवादेषु जैनागमोद्गतत्वरूपतत्संबन्धित्वाभ्युपगमस्य तदेकानुपूर्वीकरचनारूपसंबन्धाभावेन खण्डनं त्वपाण्डित्यविजूंभितमेव, न ह्येवंभूतसंबन्धेन साधूनां तद्वचनादसंयतत्वापत्तिः, शुद्धाशुद्धविवेकेनैव साधुभिस्तत्परिग्रहात् । न च 'शाक्यादिप्रवादा जैनागमसमुद्रसम्बन्धिनो बिन्दवः' इति प्रवाहपतितमेव वचनं । (धन. पञ्चा. ४१)
पावंति जसं असमंजसावि वयणेहिं जेहिं परसमया । तुह समयमहोअहिणो ते मंदा बिंदुणिस्संदा ।। इति परमश्रावकेण धनपालपण्डितेनापीत्थमभिधानात् । किञ्च - जं काविलं दरिसणं एअं दव्वट्ठिअस्स वत्तव्वं । सुद्धोअणतणयस्स उ परिसुद्धो पज्जवविअप्पो ।। दोहि वि णएहिं णीअं सत्थमुलूएण तहवि मिच्छत्तं । जं सविसयपहाणत्तणेण अण्णुण्णणिरवेक्खं ।। इत्यादि सम्मतिग्रन्थेऽपि (३-४८/४९) शाक्यादिप्रवादानां जैनागममूलत्वं सुप्रसिद्धम्, तस्य द्रव्यार्थिकपर्यायार्थिकोभयनयरूपत्वात् । यच्च सिद्धसेनः (संमति १-३) तित्थयरवयणसंगहविसेसपत्थारमूलवागरणी । दव्वट्टिओ अ पज्जवणओ अ सेसा विअप्पा सिं ।। इति । यच्चोक्तं-'बिन्दुभावं भजन्ते' इति प्रयोगानुपपत्तिः, अवयवावयविनोरुपमानोपमेयभावे गौरवाभावादिति-तदसत्, न ह्यत्र हस्ताद्यवयवसाधारणमवयवत्वं, किन्तु समुदितेषु परप्रवादेषु तदेकदेशार्थत्वमिति गौरवाऽप्रतिघातात् । यच्चोक्तं 'समुद्रस्य बिन्दव इति भणनमप्यसंगतं' इत्यादि, तदप्यसत् समुद्रस्थानीयजैनमहाशास्त्रप्रभवकल्लोलस्थानीयावान्तरशास्त्रेभ्यः सामान्यदृष्टिपवनप्रेरितपरसमयबिन्दूद्गमस्याविरोधात् । 'समुद्रानिर्गतबिन्दुभिः समुद्रस्य गांभीर्यहानिः' इति तु न पामरस्यापि