________________
२५४
धर्मपरीक्षा भाग - १ / गाथा - २४ નિષ્પત્તિનું સ્થાન છે તેમ ભગવાને બતાવેલ દ્વાદશાંગીરૂપ પ્રવચન મોક્ષને અનુકૂળ એવા સર્વ ગુણોની નિષ્પત્તિનું કારણ છે. માટે ગુણોરૂપી રત્નોનું સ્થાન એવું દ્વાદશાંગીરૂપ પ્રવચન છે. અન્યદર્શનમાં પણ જે કાંઈ સુંદર દેખાય છે તે સર્વ ભગવાનના પ્રવચનમાં અવતરણીય છે. માટે અન્યદર્શનમાં જે અકરણનિયમાદિ છે જેના અવલંબનથી યોગીઓ પાપના અક૨ણનિયમને સેવીને આત્મામાં યોગમાર્ગની નિષ્પત્તિ કરે છે, તેવા અકરણનિયમાદિમાં “આ પરદર્શનના છે”, તેમ કહીને અવજ્ઞા કરવામાં આવે તો ભગવાનની જ અવજ્ઞાની પ્રાપ્તિ થાય. માટે કોઈ કલ્યાણની પ્રાપ્તિ થાય નહિ.
टीडा :
अत्र कश्चिदाह-जैनानामकरणनियमपरिहारशङ्कानिरासार्थमेव तीर्थान्तरीयवर्णितत्वमुपवर्णितं, न त्वन्यतीर्थिकेष्वकरणनियमो ऽस्तीति भणितम् वर्णनं च वर्णनीयवस्तुविषयकयथार्थज्ञानसापेक्षमेव, अन्यथा च तथाभूतवर्णनं सम्यगेव स्यात्, तथा च तद्दर्शनेऽपि धर्मसद्भावप्रसङ्गः, इत्थं च कपिलस्य पुरस्तात्, ‘मनागिहापि धर्मोऽस्ति' इति परिव्राजकदर्शनमधिकृत्य मरीचिवचनमुत्सूत्रं न स्याद् इति, तदसत् तीर्थान्तरीयाणामपि सद्भूताकरणनियमवर्णनस्य शुभभावविशेषसापेक्षत्वेन मार्गानुसारितया तेषु सामान्यधर्मसिद्धेः, शुभभावविशेषसापेक्षत्वं च तस्य
इत्तो अकरणनियमो अण्णेहि वि वण्णिओ ससत्यंमि ।
सुहभावविसेसाओ ण चेवमेसो ण जुत्तोत्ति ।।६९२ ।।
इत्युपदेशपदवचनेनैव प्रसिद्धम् । न चैवंविधस्तेषां शुभाध्यवसायस्तथाभूतज्ञानावरणीयमोहनीयक्षयोपशमजनितत्वेन स्वयमेवोक्तो निरनुबन्धशुभप्रकृतिहेतुत्वादनर्थहेतुरेवेति परेण वक्तुं युक्तं, निरुपधिभवबीजप्रहाणेच्छागोचरमार्गानुसारिशुभाध्यवसायस्य शुभानुबन्धिपुण्यनिमित्तत्वेनोक्तत्वात् । तदुक्तमपुनर्बन्धकाधिकारे योगबिन्दौ (१९३-९४)
क्रोधाद्यबाधितः शान्त उदात्तस्तु महाशयः । शुभानुबन्धिपुण्याच्च विशिष्टमतिसङ्गतः ।। ऊहतेऽयमतः प्रायो भवबीजादिगोचरम् ।
कान्तादिगतगेयादि तथा भोगीव सुन्दरम् ।।
अत एव परेषामकरणनियमवर्णनहेतुः शुभभावविशेषो वज्रवदभेद्यः प्रशस्तपरिणामभेद उपदेशपदवृत्तौ विवृतः, अयमेव ह्यस्य विशेषो यद्विशेषदेशनाप्रतिसंधानं विनापि तद्विषयपर्यवसायित्वमिति । अत एव मार्गानुसारिणां परेषां जैनाभिमतप्रकारेण जीवाद्यनभ्युपगमान्न नास्तिकत्वं, विप्रतिपन्नांशे पक्षपातपरित्यागे सति वस्तुतस्तदभ्युपगमपर्यवसानाद्, अत एव च शुभभावविशेषादकरणनियमवर्णनं मार्गा