Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
Catalog link: https://jainqq.org/explore/022439/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आगमोद्धारक-ग्रन्थमालायाः सप्तविंशं रत्नम् । णमोत्थु णं समणस्स भगवओ महावीरस्स * पू० आगमोद्धारक-आचार्यप्रवरश्री-आनन्दसागरसूरीश्वरेभ्यो नमः । आगमोद्धारक-आचार्यश्रीआनन्दसागरसूरि-निर्मितदीपिकाविभूषितः सत्तार्किकशिरोमणि-श्रीसिद्धसेनदिवाकरप्रणीतः ॥न्यायावतारः॥ Nastestosteslesiasleshestostestostestostelsteisleste संपादक:प. पू. गच्छाधिपति-आचार्य-श्रीमन्माणिक्यसागरसूरिः प्रतयः ५००] *वीर सं० २४६१ [ मूल्य २=00 आगमोद्धारक सं० १५ वि० सं० २०२१ Page #2 -------------------------------------------------------------------------- ________________ प्रकाशक:आगमोद्धारक ग्रन्थमालाना एक कार्यवाहक शा. रमणलाल जयचंद कपडवंज (जि. खेडा) -: द्रव्य-सहायक :२५०) पू. गणिवर्य श्री चिदानन्दसागरजी म. ना उपदेशथी धूलीआ जैन संघ। २००) पू. गणिवर्य श्री लब्धिसागरजी म. ना उपदेशथी इन्दौर जैन संघ। २५०) पू. मुनिराज श्री गुणसागरजी म० ना उपदेशथी श्री बंसीलालजी कोचर हिंगणघाट । मुद्रकः-- शांति प्रिन्टर्स जवाहर मार्ग रूट नं. २ इन्दौर नगर-२ Page #3 -------------------------------------------------------------------------- ________________ १८७२ * आगमोद्धारक-प्रन्थमालायाः सप्तविंशं रत्नम् । & णमोत्थु णं समणस्स भगवओ महावीरस्स * * पू० आगमोद्धारक-आचार्यप्रवरश्री-आनन्दसागरसूरीश्वरेभ्यो नमः । ____आगमोद्धारक-आचार्य* श्रीअानन्दसागरसूरि-निर्मितदीपिकाविभूषितः * सत्ताकिकशिरोमणि-श्रीसिद्धसेनदिवाकरप्रणीतः NAMANENESMARREENKaskesladkakaSINISksekaskeekadlookedkaokaakaskesladkesleaked ॥न्यायावतारः॥ संपादकःप. पू. गच्छाधिपति-आचार्य-श्रीमन्माणिक्यसागरसूरिः प्रतयः ५००] वीर सं० २४६१ [ मूल्य २=०० आगमोद्धारक सं० १५ वि० सं० २०२१ Page #4 -------------------------------------------------------------------------- ________________ प्रकाशकीय-निवेदन। प. पूज्य गच्छाधिपति आचार्य श्री माणिक्यसागरसूरीश्वरजी महाराज आदिठाणा वि. सं. २०१० ना वर्षे कपडवंज शहेरमां मीठाभाई गुलालचंदना उपाश्रये चतुमास बीराज्या हता। आ अवसरे विद्वान् बालदीक्षित मुनिराज श्री सूर्योदयसागरजी महाराजनी प्रेरणाथी आगमोद्धारक ग्रन्थमालानी स्थापना थएलो हती, श्रा ग्रन्थमालाए त्यार बाद प्रकाशनोनी ठीक ठीक प्रगति करी छे। . सूरीश्वरजीनी पुण्यकृपाए आ न्यायावतार' नामनु पुस्तक आगमोद्धारक ग्रन्थमाला ना २७ मा रत्न तरीके प्रगट करतां अमोने बहु हर्ष थाय छे। आनु' संशोधन प. पू. गच्छाधिपति आ. श्री माणिक्यसागरसूरिजीनी पवित्र दृष्टि नीचे शतावधानी मुनिराज श्रीलाभसागरजीए करेल छे ते बदल तेओश्रीनी तेमज जेओए आना प्रकाशनमां द्रव्य तथा प्रति श्रापवानी सहाय करी छे, ते बधा महानुभावोनो आभार मानीए छीए। प्रकाशक Page #5 -------------------------------------------------------------------------- ________________ पूज्य-आगमोद्धारकाचार्यविहितवृत्तिसनाथस्य श्रुतधराऽऽास्थविर-श्रीसिद्धसेनदिवाकरविरचित श्रीन्यायावतारग्रन्थस्य अवतरसिका परमाप्तत्वाभिसन्धिजविशिष्टबुद्धिसदानुगुण्यविभ्राजि - शेमुषीधनानां सद्गुरुचरणसमुपास्तिपूतकुशेशयानुसारिसुगुणकरकमलेषूपदीक्रियमाण सत्तर्ककर्कशधियामपि स्याद्वादनिकषोपल-- मन्तरा मतिवैभवस्य सकलशास्त्रपारीणत्वसम्पत्तरकृतार्थत्वसंसूचनाय वचोविधिविरचने छल-जाप्ति-वितण्डा-हेत्वाभास-परस्परविरोधाघातत्वादिदोषराहित्यसम्पत्तये च न्यायशास्त्राभिधया प्रामाण्यविनिश्वायकशास्त्राणां छन्दोवृत्तिनिग्रहार्थमनन्यथासिद्धमहत्त्वं ख्यापयदिदं यथार्थाभिधान श्रीन्यायावतारसूत्रं महामतिप्रखरतार्किकशिरोमणिसुरम्यविविधभावभङ्गीगर्भकवनकलानिपुणैः श्रीसिद्धसेनदिवाकरपादैः प्रथितं कुशाग्रातिनिशितधीमतामपि बहुव्यामोहकमासीत् तदर्थविवेचकवृत्तेः दुरूहार्थ काठिन्यप्रस्तुतसन्दर्भसङ्गतिमूलकानेकपदार्थानामनवगमकत्वादिहेतुना। ततश्वोपयोगिनोऽप्यस्य पठनादिक दुरूहं समीक्ष्यागमपारदृश्वभिः तात्त्विकविचारधौरेयैः सच्छ तज्ञानाव्यवच्छित्तिगुणगरिमोद्भासकैराचार्यवयः बहुश्रुतसत्तमैः श्रीआनन्दसागरसूरीशपादःशासनानुगुणानेकभव्यजनहितकारिप्रवृत्तिशालित्वेऽपि भव्यजनानुजिघृक्षया सुन्दरसुविशदनैकदार्शनिकपदार्थानामस्वारस्योद्भावन-प्रामाण्यव्य - Page #6 -------------------------------------------------------------------------- ________________ (४) वस्थापन - निकृष्टस्वरूपनिदर्शन- विविधसर्वतोमुखी प्रतिभागमक विविधपदार्थविवेचनादिविधया स्वरूपोपलब्धिप्रत्यलाया वृत्तेर्विरचनमकारि । एतस्याश्च मुद्रणं परमकरुणालु-शास्त्रेदम्पर्यबोधक- गच्छाधिपतिश्रीमाणिक्यसागरसूरीशैः सुसूक्ष्मतरं संशोधनादि कृत्वाऽधिकारिबालजीवानां जैन न्यायप्रवेशस्य कृतार्थत्वसम्पादनरूपं महत्त्वपूर्ण पदच्छेदादिसनार्थं शतावधानिविनेयावतंस - श्रीलाभसागरजितां विविधसाहाय्यसङ्कलितं विधापितमस्ति । प्राग्जन्मोपात्त पुण्यप्राग्भारलभ्यमहापुरुषचरणनिश्रोपजीव्यात्मशुद्धिं समभीप्सावतो मम देवगुरुकृपाबलेनैतद्धि सौभाग्यमतर्कितोपनतम् | परमानुग्रवीराजि - श्रीगच्छाधीशकृपया देवगुरुप्रसत्तिमूलयोपलब्धमिति स्वं जनुः कृतार्थमभिमन्यमान: परमाराध्य - सुविहितप्रष्ठ-तारकार्य - परमोपकारि-शासनरक्षाबद्धकक्ष-शासनसुभट पू. गुरुदेवगणिवर्य श्रीधर्मसागर जिन्महाराजचरणेन्दिवर मिलिन्दायमानोऽभयः सकलसङ्घसमक्षं प्रस्तुतलेखे छादुमरथ्यादिमूलकक्षतेर्मिध्यादुष्कृतदानपूर्व निवेदयति । वीर नि० सं० २४६१ आगमोद्वारक सं० १५ वि० २०२१ माघ कृष्ण ३ लवणकपुरं ॥ विजयतां जिनशासनम् ॥ Page #7 -------------------------------------------------------------------------- ________________ गाथा (५) विषयानुक्रमः । विषयः उपक्रमः अनुबन्धचतुष्कनिर्देशश्च । प्रमाणस्य लक्षणं भेदनिदर्शन | १. २/ ३० प्रमाणानां लोकप्रसिद्धत्वेन तल्लक्षणविधानस्यासङ्गतिमुद्भाव्य व्यामोनिवृत्तिप्रयोजनवर्णनम् । ३/४ I ४. प्रमाणभेदयोः प्रत्यक्षपरोक्षयोर्लक्षणे । परोक्षभिन्नत्वेन प्रत्यक्षलक्षणे हि किं बीजमित्यत्र सोपपत्तिकं इतरेतराश्रयादिदोषवारणपूर्वकं निर्वचनम् । ५. लोकोपयोगित्वेन परोक्षस्य विवेचनम् । ७. ६. अनुमानस्य प्रामाण्यव्यवस्थापनम् । ८. प्रथमं अनुमानप्रामाण्ये चार्वाकविप्रतिपत्तिः । प्रत्यक्षस्याध्यप्रामाण्यप्रतिबन्द्या चार्वाकानां बलादापद्यमानानुमानप्रामाण्यविचारः । पृष्ठम् प्रमाणस्य निष्टतिलक्षणविधया प्रामाण्यनिर्देशः । ज्ञानाद्वै तत्रादिबौद्धानां ब्रह्माद्वैतवादिवेदान्तिनामभिमताद्वैतवादस्य प्रमाणस्य प्रामाण्यानुपपत्तिद्वाराऽसारत्वनिर्देशः । शाब्दप्रमाणस्वरूपम् । ६/७ ६/१० १० १०/११ १२ १२ Page #8 -------------------------------------------------------------------------- ________________ गाथा k विषयः पृष्ठम् शाब्दप्रमाणस्य सर्वतन्त्र-सम्मतस्वरूपनिर्देशद्वारा तस्य याथार्थ्या-नुमानगातार्थ्यप्रामाण्यबीजाप्तोक्तिपभृतिनिष्कर्षवर्णनम् । १२/१३ विशिष्टशाब्दप्रमाणत्वेन आतागमानां निर्देशः । १४ शाब्दप्रमाणस्य स्वरूपनिर्णये आप्तत्व-सर्वज्ञत्वस्याद्वादशास्त्रनिर्वचनाद्यनेकपदार्थवर्णनम् । प्रसङ्गतः नैयायिकानां वेदान्तिनां जैमिनीयानां चानेकानां विप्रतिपत्त्यर्ह कल्पनानामसारत्वनिर्देशः । १०. प्रमाणस्य स्वव्यवसायित्ववत् परव्यवसायित्वस्यापि युक्तिमत्त्वनिर्देशः। ज्ञानस्य प्रामाण्ये परव्यवसायित्वोपपत्तिः। १८ ११. परार्थप्रमाणस्य भेदनिरूपणम् प्रामाण्यनिदर्शनं च। १८/१६ १२. परार्थप्रत्यक्षस्वरूपम् । १३. परार्थानुमानस्वरूपम् । १४. पक्षव्याख्या तत्प्रयोगनैयत्यं च । प्रक्षप्रयोगोपपत्तौ साध्यसिद्धिदोषापत्तिप्रदर्शनम् । पक्षप्रयोगाकरणे धानुष्कदृष्टान्तसङ्गतिः । १७. हेतोरूपन्यासफलम् , हेतु विध्यं च । २३/२४ १८. दृष्टान्तस्य स्वरूपोपपत्तिः । Page #9 -------------------------------------------------------------------------- ________________ गाथा (७) बिषयः साधर्म्यदृष्टान्तस्वरूपम् । १६. वैधर्म्यदृष्टान्तस्वरूपम् । २०. दृष्टान्तस्योपयोगित्वेऽपि साध्यसिद्धौ व्याप्तिसमकक्षस्वाभावनिरूपणम् । २१. पक्षाभासस्वरूपम् । पक्षाभासत्रैविध्यनिरूपणम् दृष्टान्तसङ्गतिद्वारा पक्षा भासनिर्वचनम् । २२. हेतोरसाधारणलक्षणनिर्देशः हेत्वाभासत्वोपपत्तिश्च । हेत्वाभासानां त्रिरूपत्वसिद्धिः । पृष्ठम् २५ २५ २८ २६ ३० तन्त्रान्तरीयाभिमतहेत्वाभासानां पञ्चरूपत्वादिनिरास: ३०/३१ २३. त्रिविधहेत्वाभासलक्षणानि दृष्टान्तद्वारा उनणसङ्गतिः । ३२ २४. साधर्म्य-दृष्टान्तदूषणानि । २५. वैधर्म्यदृष्टान्तदूषणानि । २६ २७ ३३ साधर्म्यदृष्टान्ताभासनवकस्य सोदाहरणं निरूपणम् । ३४/३५ ३५ वैधर्म्यदृष्टान्ताभासनषकस्य सोदाहरणं निरूपणम् । ३६ / ३७ ३७ २६. वादस्थलोपयोगिनोः दूषण- तदाभासयोः स्वरूपम् । श्री वादोपनिषद् - वादि सर्वस्वसंज्ञद्वात्रिंशिकाधारेण संक्षेपेण वाद- वादिस्वरूपम् । दूषणस्य व्याख्यान्तर समर्थनम् । ३८, ३६ ४० Page #10 -------------------------------------------------------------------------- ________________ (=) विषयः गाथा २७. प्रमाणकल निरूपणद्वारा केवलज्ञानमाहात्म्यम् । आत्मनः ज्ञानगुणावरणे श्रभ्रपटल-कटादि उपमासङ्गतिः, प्रदेशाष्टकनिरावरणत्वं प्रदर्श्य मतिज्ञानादिक्षायोपशमिकभावव्यवस्थाप्रदर्शनम् । क्षायोपशमिक-शायिकज्ञानवसदृश्यत्र्यावर्णनम् । ४२ केवलज्ञानस्य विविधविशेषणद्वारेतरज्ञानातिशायित्वम् । ४३ ४२ केवलेन ज्ञेयत्वेन द्रव्यादीनां विचारे गुणानां पर्यायाभेदत्वेन विचारः । पृष्टम् ४१ ४४ केवलज्ञानेनातीतानागतयोः विनष्टानुत्पन्नत्वेऽपि ज्ञायमानत्वसङ्गतिः । सर्वज्ञत्व सिद्धिः । सकलार्थविषयज्ञानसम्भवप्रतिपादनम् । सर्वज्ञत्वस्य प्रमाण र कानुपलभ्यत्वरूप पूर्वपचः । सर्वज्ञत्व- स्थापने उत्तरपक्षप्रारम्भे प्रत्यक्षप्रमाणस्य सर्वज्ञत्वसाधकत्व निरूपणम् । अनुमानस्य सर्वज्ञत्वसिद्धौ प्रबल साधकतमत्त्रसिद्धिः । ४८/४६/५० सर्वज्ञत्वसिद्धौ उपमानाऽऽगमार्थापत्तीनामपि साधकत्वनिरूपणम् । ५०/५१ केवलज्ञानस्य सततोपयोगप्रवहमानत्व निर्वचनम् । ५१ सन्मतितर्कगाथोद्धरणेन केवलज्ञानस्य सततोपयोगसिद्धिः । ५२ प्रमाणस्य फलत्वेन निर्विकल्प केवलज्ञाननिकृष्टस्व ४५ ४५ थी ५० ४६ ४६/४७ Page #11 -------------------------------------------------------------------------- ________________ गाथा विषयः २६ रूपव्यावर्णनादिमुखेन स्पष्टीकरणम् । प्रमाणस्य साक्षात् फलव्यावर्णनम् । अज्ञाननिवृत्तिःप्रमाणस्य साक्षात् फलमित्यत्र विप्रतिपन्नवादिनां मुखेन विविधयुक्तिगर्भमज्ञानस्य नाशासम्भवमुपक्रम्य सत्तर्कबलेन कूटयुक्तीः निरस्य अज्ञानस्य सर्वथा नाश्यत्वोपपत्तिः । प्रमाणस्य परम्पराफलत्वेन केवलज्ञानं निर्दिश्य केवलज्ञानस्य फलपरिणतिनिदर्शनम् । छद्मस्थानां प्रमाणस्य परम्पराफलनिर्देशः । ५७:५८ प्रमेयस्वरुपम्। वस्तुन अनेकान्तात्मकत्वसिद्धिः । स्याद्वादसम्बन्धिनां शङ्कराचार्य-मण्डनमिश्रादीनामपलापपूर्णप्रवादानां सयुक्तिकं निरासः । अनेकान्तवादस्यागमसमर्थनम् । अनेकान्तवादनिरूपणे वस्तूनामनेकधर्मत्वसिद्धिः। ६१ थी ६६ प्रमाणनिरूपणे तत्फलस्य तद्विषयस्य वा नयस्य निरूपणं कथं सङ्गच्छतेति तर्कस्य सोपपत्तिकं समाधानम्। ६६ नयव्यावर्णनसङ्गतिः नयस्वरूपम् । यथार्थश्रुतलक्षणम् नयवादद्वारा स्याद्वादमय तज्ञानस्वरूपनिश्चितिः । नयवादनिरूपणमहत्त्वम् । ६६७० नयानां दुर्नयानां च वैलक्षण्यनिरूपणम् । ७१ ६७ Page #12 -------------------------------------------------------------------------- ________________ गाथा ७७ (१०) विषयः पृष्ठम् स्याद्वादशब्दस्य व्याकरणेन साधुत्वविचारः । स्याद्वादमहत्त्वम् । प्रत्येक नयानां मिथ्यात्वात् कथं स्याद्वादश्य प्रामाण्यम् ? इति उद्भाविततर्कस्य सयुक्तिकं सन्मतिगाथोपहितं समाधानम्। ७३/७४ नयानां सापेक्षत्वमहत्त्वम्। सम्यक् श्रुतस्य स्याद्वादोदृङ्कितत्वमभिनिरूप्य ग्रन्थान्तरोद्धरणैः स्याद्वादमाहात्म्यनिरूपणम् । ७६ ३१ विविधासाधारणगुणोपलक्षितप्रमातृनिरूपणम् । आत्मनः प्रमातृत्वसिद्धिः । आत्मनः उपयोगमयत्वेन स्वान्यप्रकाशकत्वसिद्धिः । ७७ प्रसङ्गतोऽत्र नैयायिकाभिमतमात्मनि ज्ञानस्य समवायेन सत्त्वमित्यादि विप्रतिपत्तीनां निरासः। ७८७६ आत्मनः स्वपरप्रकाशकत्वसिद्धौ आत्मनि षट्कारकसङ्गतिवर्णनम्। आत्मनः कर्तृत्वसिद्धिः। ' ८१ थी अहङ्कारादेः कर्तृत्वनिरासः। आत्मनः भोक्तृत्वसिद्धिः । आत्मनः परिणामित्वनिदर्शनम् । आत्मनः परिणामित्वसिद्धौ पदार्थमात्रस्य गुणपर्यायात्मकत्वात् परिणामित्ववर्णनम् । तत्र च बौद्धाद्यमिमतवासनादीनां सयुक्तिकं प्रतिक्षेपः । आत्मसिद्धिः । Page #13 -------------------------------------------------------------------------- ________________ गाथा विषयः . पृष्ठम् पूर्वपक्षे-सर्वेषां प्रमाणानां जीवसिद्धावकिञ्चित् - करत्वनिरूपणम् । ६०/६१ उत्तरपक्षे-जीवसिद्धौ प्रत्यक्षस्य प्रबलप्रमाणत्वोपन्यासः । ६२ अनुमानस्यापि प्रामाण्यनिर्णयाय प्रामाणिकत्वेनाभ्युपगमं निरूप्यागमप्रामाण्यबलेनापि जीवसिद्धिः। ६२/६३/६४ अनुमानागमप्रामाण्य दृढीकृत्य चेतनायाः भूतधर्मत्वनिरासः। ६४/६५/६६ चेतनासंसिद्धावनुमानानां नानाविधानामुपन्यासः (पद्यषटकद्वारा)। चेतनाऽस्तित्वे आगमप्रामाण्यनिरूपणम्। ६८/६६ /१००/१०१ उपमानेन जीवास्तित्वनिरूपणन् । चेतनायाः भूतगुणत्वाभावः। १०२/१०३ आत्मनः स्वसंवेदनसिद्धत्वनिरूपणम् । १०४/१०५ अहंप्रत्ययस्यौपचारिकत्वनिरूपणम् । प्रत्यगात्मनि चाहंप्रत्ययस्वरूपो निर्देशः तन्निरासश्च । १०६/१०८ जीवशब्दव्याख्या। १०६ तत्स्वरूप-भेदादिवर्णनम् । ११०/११/१२/१३ प्रमाणनामनादिव्यवस्था निरूप्योपसंहारः । ११३ प्रमाणानामनादिव्यवस्थानिरूपणप्रसङ्ग सृष्टरेनादित्वविचारः। ११४ थी सृष्टः सक कव्यस्थापनाय विविधापातरम्ययुक्तिगर्भपूर्वपक्षः। . ११५/११६ १०२ Page #14 -------------------------------------------------------------------------- ________________ गाथा (१२) विषयः पृष्ठम् सृष्टः सककत्वाभिमतौ विविधदूषणोपस्थापनम् । ११७ प्रथमं ब्रह्मसूत्राघुल्ल खेनैव सृष्ट रनादित्वम्। ११८ ततश्च सृष्ठे : सर्जने विकल्पषट्कम् । ११६/१२० जीवानां सुखदुःखादेरदृष्टनियम्यत्वे सति ईश्वरस्य ग्रतार्थत्वनिरुपणम्। ११६/१२० सृष्टरुत्पत्तौ वैष्णवीय-स्मार्त्त-पौराणिकादिविविध-.. विप्रतिपत्तीनामुपन्यासः । .. १२१ थी १२५ औपनिषदिकानां जगदुत्पत्तौ विचित्रप्रतिपत्तिनिरूपणम्। कठोपनिषद-प्रश्नोपनिषद-मुण्डकोपनिषद्तैत्तिरीय छान्दोग्य-बृहदारण्यक-सूर्योपनिषदबहचोपनिषदादिग्रन्थेषु दर्शितं विविध जगदुत्पत्तिस्वरूपं व्यावर्ण्य सृष्ठः सक कत्वविचारासारस्वनिरूपणम । उपन्यस्त विविधविप्रतिपत्तीनामसारताविचारः। १२५ ईश्वरवादे नानाऽसङ्गतिनिरूपणम्। १२७/१२५ ईश्वरस्य कारुणिकत्व-सशरीरत्वनिरासः। १२६ ईश्वरपदवाच्यत्वेन का शक्तिरिति प्रश्नोपनिषद्बृहदारण्यक-भृगुवल्ल्यादिपाठोपृबंहितं निरूपणं । १३० थी १३२ ईश्वरस्याचिन्त्यशक्तिमरव-सर्वज्ञत्वविचारः। १३२/१३३ भवान्तरगमादौ ईश्वरनामाऽदर्शनं श्रुतिमूलकमुपजीव्य मुण्डक--छान्दोग्य बृहदारण्यकाद्युपनिषदाधारेणेश्वरस्य ज्ञानद्वारा क त्वमुपन्यस्य स्वाभ्युपगमनिरूपणम् । १३४ थी १३६ Page #15 -------------------------------------------------------------------------- ________________ गाथा (१३) विषयः छान्दोग्य-वृहदारण्यकाद्याधारेणाऽऽत्मनः विचित्रपर्यायभाजः कर्तृत्वं निरूप्योपचारत ईश्वरेऽपि संसाध्य ईश्वरवादासारत्वनिरूपणम् । ईश्वरकत्वसिद्धयै कालादिवत्साधारणकारणत्वाभिमतिरुपषष्ठविकल्पस्यासारत्वप्रतिपादनम् । १३७/१३८ ईश्वरस्य मुक्तिमार्गक त्वप्ररूपणयाऽपि जगत्कर्तृ - त्वाभिमतभिमतसिद्धयभावः । १३८/१३६ पृष्ठम् १३६/१३७ कर्मण: फलोपभुक्त्यै जीवस्यानीशत्वं प्रतिपाद्येश्वरस्यकर्तृत्वमित्ययुक्तयुक्ति निरासः । १३६/१४० ईश्वरस्य कर्तृत्वाभावेऽपि उपकर्तृत्वादिसङ्गतिः । १४० /१४१ भूतानामचेतनत्वात् विनेश्वरं कथं जगद्व्यवस्थेति कुतर्कस्यापि पौद्गलिकशक्तिव्यावर्णनेन धर्ममहिम्नः लोकस्वभावस्य निरूपणेन च निरसनम् । १४१ भी १४४ सर्वस्यैव जन्तुनः सुखेसुत्त्रात् दुःखद्वेषित्वाच्च विमेश्वरं तत्तदशुभकर्मसु कथं प्रवृत्तिरिति कुतर्कग्रहस्यापि सयुक्तिकं निरासः । १४३/१४४ 'अज्ञ: जन्तुरनीशोऽयं' मितिश्लोकस्य जगतः कर्तृत्वमीश्वरस्याप्यनभिमत्य व्याख्यान्तरेण सङ्गतिः । १४४/१४५ क्रियामात्रस्य मूर्त्तजन्यत्वेन व्याप्तत्वादीश्वरस्य कर्तृस्वाभावसिद्धिः । १४५/१४६ तुष्यतु दुर्जन भ्यायेन जगतः कार्यत्वे स्वीकृतेऽपि उत्पत्तिमत्त्वं सिद्धयेत् नहि सक कत्वमिति विद्युदश्रादि निदर्शनेन निरूपणम् । १४६/१४७ Page #16 -------------------------------------------------------------------------- ________________ गाथा (१४) विषय: स्याद्वादिनां जैनानामाभिमत्येन तु कार्यस्य वैस्रसि कादि त्रैविध्यात विश्वस्य नानारूपत्वसङ्गतिः समीचीनतरैवेति निरूपणम् । ईश्वरस्य जगत्कर्तृत्वे हि यूथान्तरीयोपहास - प्रधानोक्तिसंग्रहः तद्द्द्वारा चाज्ञानमूलत्वं जगत्कतृत्वस्येति प्रतिपादनम् । विश्वेश्वरस्य जगद्विधातृत्वे प्रकीर्णकानां हेत्वन्तः राणां निरासः । १५० थी १५३ जगत्कर्तृत्ववादापोद्वारा विश्वस्यानादित्वमनूचानवर्याः संसूच्य प्रमाणादिव्यवस्थामध्यादिनिधनरहितां निर्देशितवन्तः । पृष्ठम् १४७/१४८ 6 १४६ / १५० १५३ १५४ अन्त्यमङ्गलनिर्देशः । न्यायावतारकतुः नामनिर्देशेन वस्त्रापह्न तिद्वारा मुनिमार्गमपलपमानानां दिगम्बराणां जैनाभासतां केवलिभुक्तिं च संसाध्याव्यक्तध्वनिरूपेण तीर्थकृतां देशनेति मुग्धजनोपहसनीयत्वं प्रतिपाद्य ग्रन्थकतु: सिद्धसेनापराह्नमाचार्य पदलभ्यां सूचितत्रन्तः । १५५/१५६ प्रथकतु' : गरिमास्पदमहिमासूचकप्रमाणोपन्यासः । १५६/१५७ प्रन्थकतुः नामोच्चारण मदोषायेति सयुक्तिकम् निरूपणम् । १५७ दीपिकाकतु : प्रशस्तिः । १५७ थी १५६ Page #17 -------------------------------------------------------------------------- ________________ (१५) शुद्धिपत्रम् पृष्ठम् पक्तिः अशुद्धम् शुद्धम् पृष्ठम् पङ्क्तिः अशुद्धम् शुद्धम् २. २३ स्वत्र स्त्वत्र वह्नि ३. २३ पिवेदित्यु पिबेदित्यु ४ वह्नयु वह्नय ५. २२ लक्षथति लक्षयति , ७ दशनेन दशेनेन ६. २५ स्मायति स्मारयति बद्धमा बधूमा ७. ६ भायकारेण भाष्यकारेण " १३ स्थाप्यते ल्याप्यते २२ चीकृतन् चीकथन् | १८ ऽवद्य ऽविद्य १. ५ मचक्षीत माचक्षीत १८ हदादि ह दादि १५ पकीर्तितं प्रकीर्तितं । एवं ११ जडताम्व जडतास्व ५ व्यथैव व्यर्था स्यात् १४. १५ निरादेवे निरासादेवे| २९. १९ साध्यसत्त्वे साधन१४ यत्तिं यति सत्त्वे साध्य ४ वेधे विधे २१ यथाथ यथार्थ २४ वहन्य वह्नय २१ वाधक्ते वाद्युक्ते २३ निश्चनु- निश्चिनु- २६ मसम्त मसन्तं यात् यात् ८ मेव मेक ४ प्रत्यर्थस्य प्रत्याय्यस्य । २२ रुक्त रुकता १५ वह वह २३ केवलस्व केवलस्य २३. १५ चान्यथा धान्यथा __३ प्रतिपेधो प्रतिषेधो २४. १२ नङ्गता नङ्गताम् ४६. २ मुक्त मुक्तम् २५. २ पित्सु पित्सुः । ५१. १० अलि अलिंदे * " * . mr Page #18 -------------------------------------------------------------------------- ________________ पृष्ठम् पङ्क्तिः अशुद्धम् ११ उव्वाओ १२ सब्वस ", ५६. २६ पादेन ६१. १ प्रलिपित १४ सर्वथां ५२. 36 " 34 ७०. ६४. १८ कनकनाम् कनकानाम् १०१. २१ ६५. ६ वासो ६७. २० पापात् २४ मिच्छत ३ कचि 35 • 99 ७५. १५ स्यादव १६ सद " ७६. ,, णर्थादे ११ १५ सम्प ७ पूर्वमेत्य १४ वाच्य २३ भावेपि (१६) शुद्धम् | पृष्ठम् पङ्क्तिः अशुद्धम् उप्पा ८६० एक्कस ८६. "9 ८०. १६ मेवे ८३० ६ द्वि २२ कर्मण ८४. ८५. ९ कया तादे न ६०. प्रलपित | ६८० सर्वथा ५ कर्त्त १४ दायु ६ गम्य १६ वाच्यम् भावेऽपि न चास्य आदि हतै नान्तो न चादि र्हतैः शस्यैक वासौ १०३. पापातात् १०४. १४ स्कन्ध मे स्कन्धानामेव मिच्छत्तं क्वचि र्णार्थ दे शस्येक शुद्धम् कर्त्त दाभ्यु गम्यः १०६. १५ शीलि १०७. ६ वाम्य १९६० १० सङ्ख्या सम्म ११६. २६ व्रजेज्छ स्यादेव १२०. २० निवृत्या सद् १२४. ७ भवं पूर्वमेवेत्य १२८० १६ प्रवणे १२६. १७ विधात्र शीलिते वाऽन्य सङ्ख्या व्रजेच्छ निवृत्त्या भयं प्रवणै विधाता १३६. १४ ज्ञानादर ज्ञानानादर त्मैवे १४३, २५ भोक्तव्व भोक्तव्य बुद्धि १४४ २४ ज्ञानत्रणादि ज्ञानावरणादि कर्मणां १५२• १ पयुक्तं प्रत्युक्तं कतया १५७० ११ आत्मानमे आत्मनामे Page #19 -------------------------------------------------------------------------- ________________ 5 णमोत्थु र्ण समणस्स भगवओ महावीरस्स फ्र आगमोद्धारक- आचार्यश्रीआनन्द सागर सूरिनिर्मितदीपिकाविभूषितः तार्किकमूर्धन्य श्रीसिद्धसेन दिवाकरप्रणीतः न्यायावतार: । नत्वा नतसुरश्रणिं प्रमाणनयदेशकम् । सार्वजिनं यते न्याया - वतारं स्फुटितु धिया ॥ १ ॥ , प्रमाणतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते । प्रमाणं-निर्दिश्यमानस्वरूपं तस्य तत्वमसाधारणं स्वरूपं तस्य व्यवस्थापनं युक्त्या निर्णीय स्वरूपोपदर्शनं तस्मै, इदं सुदृढानुभवास्पदतयान्तर्यथाघस्थिततया स्थितं प्रमाणतत्त्वं, उपक्रम्यते- शास्त्ररूपेण बहिः प्रकाशयितुमारभ्यते इत्युपोद्घातः । प्रयोजनाभिधेयसम्बन्धप्रदर्शनपरः । मङ्गलं तु प्रमाणस्य ज्ञानात्मकत्वाज्ज्ञानस्य च 'जं अन्नाणी' त्यादिवाक्यात् निर्जरार्थकत्वात् प्रमाणशब्देनोपात्तमेव प्रतिबन्ध विघातस्यैव मङ्गलार्थत्वात् । यद्वा-प्रशब्द एव मङ्गलप्रकर्षार्थित्वेन तस्य भद्राद्यन्तर्गतत्वात् भद्रादीनां च 'ये च भद्रादिवाचका' इत्यनेन मङ्गलार्थ'त्वानुस्मरणात् । अथ प्रमाणस्य स्वरूपं भेदौ चाह प्रमाणं स्वपराभासि ज्ञानं बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्वयात् ॥१॥ Page #20 -------------------------------------------------------------------------- ________________ न्यायावतारः .00000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००60000003 प्रकर्षेण - संशयादिव्यवच्छेदेन मीयते-परिछिद्यतेऽर्थोऽनेनेति प्रमाणं इति लक्ष्यम् । ज्ञायते सामान्यविशेषोभयात्मकोऽध्यर्थो विशेषप्राधान्येनावबुध्यते येन तज्ज्ञानं इति लक्षणम् । विपर्ययादावति व्याप्तेराह-बाधविवर्जितं' तद्वत्यतद्वत्त्वबुद्धिर्बाधः। यद्वा बाधते-पदार्थ विलोडयति अतत्स्वरूपतया ज्ञापनेनेति बाधः । स च विपर्ययसंशयानध्यवसायभेदात्रिविधः । शुक्ताविदं चाकचिक्यादिमत्त्वात् रजतमिति विपरीतनिर्णयो विपर्ययः । स्थाणौ उर्ध्वतादिदर्शनादयं स्थाणुः पुरुषो वा इत्यनेककोटिकानवस्थितज्ञानं संशयः । अन्यत्रोपयोगाद् गच्छतस्तृणस्पर्शज्ञानमनध्यवसायः, तेन बाधेन विशेषेण वर्जितं. शून्यं यद् ज्ञानं तत् प्रमाणमिति योज्यं । अथ तत्प्रमाणतया निर्दिष्टं ज्ञान कीदृश स्यादिति विशिष्टि'स्वपराभासि' खं-आत्मा ज्ञानमेव, पर:-ज्ञानादन्योऽर्थो घटादिः, तयोरासमन्तात् सकलतद्वर्तिधर्मवत्त्वेन भासनशीलं निर्णयजननस्वभावं दीप इव इत्थम्भूतमेव ज्ञानं, अस्वाभासिनः पराभासित्वायोगात् कुम्भादिवत् । अन्येन तदाभासे तु तस्याप्यन्येनेत्यनवस्थैव । अत एवं प्रामाण्याप्रामाण्ये परत एवोपपद्यते । प्रमाणं संलक्ष्य तद्भदावाऽऽह'प्रत्यक्षं च परोक्षं च' 'अश् भोजने' इति वचनात् अनाति-सर्वानर्थान पालयति संसारस्यानादितया च भुनक्ति वेति अक्षो जीवः । यद्वा. अश्नुते-व्याप्नोति सकललोकं सर्वत्र जन्मादिमत्त्वेनेत्यक्षः जीव एक । अर्क-जीवं प्रति गतं इन्द्रियादिनिरपेक्षतयोत्पत्तेः प्रत्यक्षं साक्षादात्मनैवोद्भ तमवध्यादि । चशब्दः स्वगतानेकभेदसूचनार्थः । अथवाअति प्रति गतं प्रत्यक्ष । व्युत्पत्तिमात्रमेवेदं, प्रवृत्तिनिमित्तं तु स्पष्टत्वमेव । चशब्दस्स्वत्रसांव्यवहारिक - पारमार्थिकद्विविधस्यापि सप्रभेदस्यास्य ज्ञापनाय । यावद्र पिगोचरोऽवधिः, मनोमात्रगोचर मनःपर्यायं, सकलज्ञेयावभासि केवलं, इति पारमार्थिकप्रत्यक्षमव. ध्यादि । सांव्यवहारिकं तु साक्षात् इन्द्रियानिन्द्रियोद्भतं अवग्रहे. Page #21 -------------------------------------------------------------------------- ________________ न्यायावतारः ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० हापायधारणाक्रमवदेव। अपरं भेदं त्वाह-परोक्षं' पराणि-चेतनामयस्वाज्जीवस्य इन्द्रियमनांसि, तैरुक्षा-सम्बन्धो यस्मिंस्तत्परोक्षं । यद्वा-अताज्जीवात् परं आन्तरितं पुद्गलमयेनेन्द्रियादिना । अथवा-अक्ष्ण इन्द्रियात्परं असाक्षादिति परोक्षम् । इन्द्रियानिन्द्रियनिमित्तो मतिश्रुतात्मको बोधः । अन्त्ये त्वस्पष्टोऽवबोध एव । अत्र तु चशब्दः प्रत्यक्षेणास्य तुल्यकक्षतोद्भावनार्थः । भेदद्वैविध्य एव हेतुमाह'द्विधा मेयविनिश्चयात् मातु योग्यं मेयं-आत्मदेहादि, तस्य विनिश्चयोयाथातथ्येन निर्णयः, स द्विधैव प्रत्यक्षेतरभेदेनेति । प्रमाणस्य द्व एव विधे । पदार्थपरिच्छेदकं हि प्रमाणं । पदार्थपरिच्छेदश्च द्विधैव, नान्यथेति प्रमाणमपि द्विधैव । स्मरणप्रत्यभिज्ञानतर्वानुमानाऽऽगमा अत्रैवान्तर्भूताः । मतिश्रुतयोः 'आये परोक्ष मिति वचनात् परोक्षता, स्मरणादीनां च 'मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध-इत्यनर्थान्तर'मितिवचनात् मतित्वमिति सुस्थम् । पदार्थनिश्चयो द्विधैवेति प्रमाणमपि द्विधैव । उपमानार्थापत्त्यभावसम्भवैतिह्यप्रातिभादीन्यप्यत्रैव यथासम्भवमिति नाधिक्यं प्रमाणेयत्तायाः। यथाप्रतिज्ञातं प्रमाणलक्षणादौ निरूपिते आह चोदनाचञ्चुः प्रसिद्धानि प्रमाणानि, व्यवहारश्च तत्कृतः । प्रमाणलक्षणस्योक्ती, ज्ञायते न प्रयोजनम् ॥२॥ प्रमाणानि स्वपराभासीनि सप्रभेदानि ज्ञानानि, प्रसिद्धानिलोकव्यवहारपतितानि । सावधारणत्वाद्वाक्यस्य प्रसिद्धान्येव, न कञ्चिदपि तेषां साध्यत्वम् । तथा च प्रसिद्धार्थप्रणयनप्रवणत्वात् प्रस्तुतप्रकरणस्य नार्थवत्ता । नहि नाम बुभुक्षितोऽश्रीयात् पिपासितश्च जलं पिबेत्युपदेशः दीर्घशेमुषीकार्यम् । प्रसिद्धत्वं च प्रमाणानां अनुपदेशेनापि स्पर्शादिसंवेदनानां सद्भावात् । न च विपश्चिद्वर्त्तन्येबैषा, किन्तु यावल्लोक, इत्याह-व्यवहारश्च तत्कृतः' Page #22 -------------------------------------------------------------------------- ________________ न्यायावतारः 00000000000000000000000000000000000000000000000000000000000000000000000000000000000 दानादानादिलोंके प्रसिद्धिमुपगतो व्यवहारोऽपि । चोप्यर्थे, प्रमाणनिष्पादित एव । नहि ज्ञानमन्तरेण कोऽपि कस्यापि व्यवहारः स्यात्, कुम्भादीनामपि व्यवहर्तृत्वापत्तेः । यद्वा प्रसिद्धानि प्रमाणानीत्येतावन्मात्रमेव न, किन्तु चस्य समुच्चयार्थत्वाद् व्यवहारः प्रमाणपरिच्छिन्नो दानादिलोकव्यवहारोऽपि प्रत्यक्षादिप्रमाणकृत एवेति । ततश्च किमित्याह-प्रमाणस्य प्रत्यक्षादिभेदभिन्नस्य लक्षणमतिव्याप्त्य= प्राप्त्यसम्भवरहितोऽसाधारणो धर्मस्तस्योक्तौ-निरूपणे, प्रयोजनंसाध्यं, न नंव, ज्ञायते-उपलभ्यते । न च निष्प्रयोजने प्रेक्षावन्तः प्रवर्त्तेरन, तत्ताक्षतेः, कण्टकशाखामर्दनप्रवृत्ततथाविधपामरपुरुषवत् । इति नारम्भणीयमिदम् । तथा चोक्तं- ' धर्मार्थिभिः प्रमाणादेर्लक्षणं नतु युक्तिमत् " ( विचार्यमित्यनुवर्त्तते ) प्रयोजनाद्यभावेन । आदिशब्दाद्धर्मध्यानादिनिर्जराकार्यपरिग्रहः । अन्यच्च - लक्षणं किं विनिचित्योच्येत अन्यथा वा ? आद्ये, सिद्धत्वाल्लक्षणस्य किं प्रणयनम् ? | अन्त्ये, लक्षणस्यैव प्रमाणेनाविनिश्रितत्वात्तात्रदलक्षणत्वमिति तदुतिर्वक्तुर्थ्यान्यमेवाविष्कुर्याच्छोतुनैव कञ्चिदपि बोधमिति न वाच्यमेव लक्षणादि । तथा चात्र प्रयोगः न वाच्यं लक्षणादि, निष्प्रयोजनत्वात् पितृविवाहादिवत् । निष्प्रयोजनं लक्षणादिवाक्यं सिद्धत्वात् बुभुक्षितादि प्रति अशनाद्युपदेशवदिति । एवमाक्षिप्त आहाऽऽचार्यवर्य: " प्रसिद्धानां प्रमाणानां लक्षणोक्तौ प्रयोजनम् । तद्व्यामोहनिवृत्तिः स्याद्, व्यामूढमनसामिह ॥ ३ ॥ - लोकव्यवहारो यतः प्रमाणनिर्मितस्तत: प्रत्यक्षादीनि प्रमाणानि यद्यपि प्रसिद्धानि तथापि तेषां वक्ष्यमाणेन अनादिनिधनात्मिकेति वाक्येन लक्षणादीन्यपि च प्रसिद्धान्येव सन्ति तथापि प्रसिद्धानां प्रमाणानां लक्षणोक्तौ अस्ति प्रयोजनं । किं तदित्याह - इह-प्रमाण-त लक्षणादौ, व्यामूढमनसां निबिडज डिमाष्टब्धान्तःकरणानां तदुव्या Page #23 -------------------------------------------------------------------------- ________________ न्यायावतारः ५ 0000000000000000000000000000000000000000000000000000000000000000000000000000 30000000 मोहनिवृत्तिः प्रमाणविषयक ज्ञानकपणं कृतं स्यात् । यद्यपि नास्ति प्रमाणसामान्ये व्यामोहो लोकानां, तथापि तत्स्वरूपभेदा दावस्त्येवाऽसौ । तथाहि - 'अविसंवादि ज्ञानं प्रमाण' मिति सौगताः । अत्र संशयानध्यवसाययोर्विसंवादित्वाभावात् प्रामाण्यापत्तिः । अन्यच्च प्रमेयोपलम्भ एवं ज्ञानं प्रमाणं स्यात्तदर्वागतथात्वेन ततस्तस्मिन् प्रवृत्तिरेव न स्यात् । किञ्च प्रमाणस्य प्रामाण्यम विसंवादित्वमन्तरा, तच्च न प्रमाणमेव । क्षणक्षयित्ववासनायां तु को ज्ञानवान् कश्चाविसंवादित्वनिर्णेतेति चिन्त्यमिदम् । 'अर्थोपलब्धिहेतुः प्रमाणमिति नैयायिकादयः । अत्र हेतुर्य दीन्द्रियकार कसा कल्यादयस्तर्हि तेषामचेतनत्वान्न प्रमाणत्वम् । न चेन्द्रियाण्युपलब्घृणि, तेषां विगमेऽपि तदुपलब्धार्थानुस्मृतेः । 'अपूर्वार्थावगन्तृ प्रमाण' मिति मीमांसकाः । तेषां मते च स्मृतिस्तद्धेतुकं चानुमानादिकं न प्रमाणं स्यात् । एवं 'कल्पनापोढं अभ्रान्तं प्रत्यक्षं' इति बौद्धा: । 'इन्द्रियार्थसन्निकर्षोत्पन्नमव्यभिचारि व्यवसायात्मक निर्व्यपदेश्यं ज्ञानं प्रत्यक्षं' इत्यक्षपादानुयायिनः । 'क्षाणां सतां सम्प्रयोगे श्रात्मनो बुद्धिजन्म प्रत्यक्ष' मिति मीमांसकाः । एवमेवान्येष्वपि लक्षणेपूयम् । भेदेऽपि व्यामोहो, यथा'प्रत्यक्षानुमाने प्रमाणे' इति तच्चनीकाः, 'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ' इति गौतमीयाः, प्रत्यक्षानुमानशब्दाः प्रमाणानीति कणादा: कापिलाच, 'प्रत्यक्षानुमानोपमानशब्दार्थापत्यभावाः प्रमाणानीति जैमिनीयाः, श्रुतिरेव मानं नान्य' दिति वेदान्तिनः, 'प्रत्यक्षमेवे 'ति लोकायतिकाः, इत्यवितथमेवोक्त' यत्प्रमाणलक्षणाद्यतौ तद्व्यामोहनिवृत्तिरिति । अथ पूर्वोक्तं प्रमाणे लक्षयति --- अपरोक्षतयाऽर्थस्य, ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरज्ज्ञेयं परोक्षं ग्रहणेक्षया ॥ ४ ॥ - गम्यते इत्यर्थः - आत्म देहादिः, तस्य अपरोक्षतया - इन्द्रिया Page #24 -------------------------------------------------------------------------- ________________ न्यायावतारः ००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००600000000 निन्द्रियनिमित्तोद्भवभिन्नतया साक्षादात्मना स्पष्टतया वा ग्राहक-ज्ञापक यज्ज्ञानं ईदृशं ग्रहणेक्षया-ज्ञानापेक्षया ग्रहणप्रकारतो वा प्रत्यक्षं ज्ञेयमिति । आद्यपक्षेऽध्यादि, अपरस्मिंश्च सांव्यवहारिकप्रत्यक्षमवध्यादि च । परोक्षलक्षणमाह-इतरत्-प्रत्यक्षाद्भिनस्वरूपं इन्द्रियानिन्द्रियोत्पन्नेनास्पष्टेन वाऽर्थस्य ग्राहकं ग्रहणेक्षया परोक्षं ज्ञेयम् । आद्य मति. श्रुते, परस्मिन् म्मृत्यादि । अत्राऽऽबालगोपालाङ्गनाप्रसिद्ध परोक्षरूपे मतिश्रुते इति कृत्वा परोक्षभिन्नत्वेन प्रत्यक्ष लक्षितम् । अत एव वाचकमित्रैरपि प्रवचनार्थसङ्ग्रहं चक्राणैश्चक्राते एवं सूत्रे-'आद्ये परोक्षं प्रत्यक्षमन्यत्' ( मतिश्रुताभ्यामन्यत् अवधि-मनःपर्याय-केवल-लक्षणं ज्ञानत्रयं प्रत्यक्षमित्यर्थः)। यद्वाऽऽश्रयायिभाववारणायापरोक्षतयेति । नहि प्रत्यक्षलक्षणकरणाटते प्रत्यक्षत्वं सिद्ध स्यात्तथा तत्सिद्धिमन्तरा च लक्षणे प्रत्यक्षता विशिष्टा न शिष्टतास्पदम् । न च वाच्यं तथापि अन्योन्याश्रयस्तु दुरुधर एव । यतोऽत्र परोक्षभिन्नतया प्रत्यक्षं प्रत्यक्षेतरच्च परोक्षमिति लक्षणद्वयं लक्षितं, परोक्षशब्दस्यास्पष्टार्थत्वात् । स्पष्टास्पष्टत्वे तु प्रसिद्ध एवं लोके । न च तर्हि स्पष्टतयेत्येव वाच्यं, नार्थों 'परोक्षतये'त्यस्य । तथाहि-प्रतिपाद्यमाने सामान्यलोकेऽवध्यादेरननुभूयमानत्वेन तत्र स्पष्टास्पष्टत्वशङ्का न निवत्तेंतास्पष्टता वा तस्यावबुध्येतेति पक्षद्वये लक्षणव्याप्तिः सम्यक् स्यात् । न च प्रत्यक्षपरोक्षभिन्नं त्रितयं किञ्चिदपि प्रमाणमस्ति, यस्य लक्षणं विदध्याद्विचक्षणकोविदः । न च ‘पमाणे चउबिहे' इत्याद्यनुयोगद्वारादिसूत्रविरोधः । तत्र हि व्यवहारलक्षणनयवादेन परोक्षान्तर्भूतानामपीतरेषां पृथक्करणं, लोकानुरोधपरत्वात्तस्य । न चैवं स्मरणप्रत्यभिज्ञातर्काप्रामाण्यम् । तन्मतेन अनुमानाङ्गतया तत्प्रामाण्येन तेषामपि प्रामाण्याभ्युपगमात् । प्रत्यभिज्ञातो हि तर्कबलप्रतिष्ठितमन्यथानुपपन्नत्वं हेतोः सह साध्येन स्मा यति । ततश्च साध्यनिश्चयः । न चैवमत्राप्येवमेव कार्यम् । व्यवहारस्य हि लोकोपचारमात्रप्रियत्वात्तस्य Page #25 -------------------------------------------------------------------------- ________________ न्यायावतारः 000000000000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० तथाभ्युपगमः स्याद्यदाह-'नयवादान्तरेण प्रत्यक्षानुमानोपमानागमाश्चत्वारि प्रमाणानि' परं यथास्थितपक्षनिरूपणे तन्निरूपणहेतुभूत एकदेशो नोपयुक्त इति । भेदो हि परस्परवैलक्षण्येन स्यात् तच्च प्रत्यक्षपरोक्षयोरेष, नान्येषां । परोक्षभेदास्तु भवन्तस्तान कोऽपि कोपिताश्रयं कुर्यादिति । अत एव स्वतन्त्रं प्रमाणभेदयोग्यत्वाङ्गीकरणादप्रमाणान्येव वा तानीत्युक्त भा यकारेण । सुप्रतिष्ठितव्यवस्था हि 'तत्प्रमाणे' (मतिश्रुतावधिमनःपर्यायकेवललक्षणं ज्ञानपञ्चकं आये परोक्ष प्रत्यक्षमन्यदिति प्रत्यक्षपरोक्षे द्व एव प्रमाणे इत्यर्थः) इति सूत्रेण स्पष्टमेव ख्यापिता । न चैवं 'इंदियपञ्चक्खे' इत्यादि नन्दिसूत्रीयपाठेन स्पष्ठ एव विरोधः समधिरोहेत् । तत्र ह्यत्रत्यद्वितीयव्याख्यानबत् सांव्यवहारिकत्वेन स्पष्ठत्वमङ्गीकृत्यैव तथाव्याख्यातमन्यथा कथं तत्रैव पच्चक्खं तिविहं' इत्याद्यचीकृतन् देववाचकवर्याः । अत्र पश्चादुदिष्टमपि परोक्षं लोकोपयोगित्वेनादौ विवेचयति । तत्रापि संस्कारोदभूतं तदिति ज्ञानं स्मरणं, अनुभूतिस्मृत्युद्भवं सङ्कलनं प्रत्यभिज्ञा, अन्वयव्यतिरेकव्याप्तिस्तर्क इति लक्षणवतां स्मरणादीनां क्षुण्णतया प्रायस्तात्त्विकविप्रतिपत्तिविषयाभावात् तानुल्लङ्घय तदङ्गीभूतं अनुमानं लक्षयस्तत्प्रामाण्यं निरूपयँश्चाह -- साध्याविनाभुवो लिङ्गात् साध्यनिश्चायकं स्मृतम् । अनुमानं तदभ्रान्तं, प्रमाणत्वात् समक्षवत् ।। ५ ॥ साधयितुमिष्टं साध्यं - वयादि, अप्रतीतानिराकृताभीप्सितं, तेन विना न भवतीति विपि साध्याविनाभूः, धूमादितादृशात् लिङ्गात्-लिङ्गयति-गमयति, असिद्धमिति लिङ्ग तस्मात्, साध्यस्यपूर्वोक्तस्य, निश्चायक-निर्णयापादकं यज्ज्ञानं तदनुमानं स्मृतं । अनुमाता हि पूर्व लिङ्ग प्रत्यभिज्ञाय तस्य तबलापन्नं साध्याविनाभावं च संस्मृत्य साध्यसत्तामाकलयति इति लिङ्गजन्य एव साध्यनिश्चयः । Page #26 -------------------------------------------------------------------------- ________________ न्यायावतारः ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० अत एव च हेतौ पञ्चमी । स एव चानुमानम् । अत्र च लिङ्गात् साध्यनिश्चयोऽनुमानमित्येव प्रकृतम् । साध्याविनाभुव इति तु लिङ्गस्य स्वरूपोपदर्शनेन त्रिरूपतादिनिराकृतये । स्कुटयिष्यति च अन्यथानुपपन्नत्वमिति हेतुलक्षणविवरणावसरे एतत् । परामर्शजन्यत्वे त्वनुमानस्य चन्द्रवदाकाशं जलचन्द्रदर्शनात् , भविष्यत्युदयो मृगशीर्षाणां अत्र कृत्तिकोदयात् इत्याद्याकारानुमानप्रथा वितथा न स्यात् । लिङ्गज्ञानं करणं, व्याप्तिापारः । केचित्तु व्याप्तिधी: करण, परामशों व्यापारः । अत्र चार्वाकश्वर्चयाञ्चक्र-अन्यथाऽनुमानप्रथा व्यभिचारित्वात् । अव्यभिचारि हि प्रमाणं प्रमावतामभिप्रेतं प्रत्यक्षादेरिव । न चेदं तथा। तस्मादनुमानोद्भवन्मानं भ्रान्तमेव। तन्नेत्याह-तदभ्रान्तंपूर्व लक्षणादिना निर्दिष्टं अनुमानं न-नैव भ्रान्तिमत्-अयथार्थतावत्। अत्र हेतुमाह-प्रमाणत्वात्-वाधरहितज्ञानात्मकत्वात्तस्य । यथोद्योतकर आदित्यः उलूककुलोदितपूत्कारपरम्पराभिरपि तमस्ततिवितायी न भवति । एवमत्रापि स्वपराभासि बाधवर्जितज्ञानमयत्वेनानुमान - स्याभ्रान्तत्वं भवन्न नास्तिकमस्तिष्कनिर्गतन्यकारैरन्यथा भवति । यो यस्य नियतः सम्बद्धः स तं अदृष्मपि ज्ञापयत्येव, काऽत्र व्यथा। क्वचिद्भ्रान्तत्वदर्शनेन च यदि तत्सर्वथा प्रमाणपथोत्तीर्णं तदा मरुमरीचिकानिचयदर्शने जातं जलज्ञानमपि भ्रान्तं निभालितमिति यावत्प्रत्यक्षस्यापि प्रामाण्यानभ्युपगमः श्रेयान । अथ च शून्यवादिनं प्रति प्रतिपादयता प्रत्यक्षस्यापि प्रामाण्यं भवता तत्र हेतुर्वाच्य एव, स्वमनस्यपि प्रत्यक्षस्य भ्रान्तत्वाभ्रान्तत्वनिश्चयोऽप्रामाण्यप्रामाण्यहेतुनैव क्रियेत । किञ्चानपेक्ष्य स्मरणादीन् कोऽत्र प्रत्यक्षेऽपि प्रामाण्यनिर्णायकः । तेषां च मानत्वे सुतरामनुमानस्य मानता। यदि च न तेऽनुमानं प्रमाणतास्पदं, तर्हि प्रत्यक्षस्यापि देहि जलाञ्जलिं प्रामाण्यायेत्यभिप्रेत्याह-समक्षवत् । यथाहि-प्रत्यक्षस्याविसंवादित्वं तद्दर्शितार्थाविसंवादात्त्वयाऽभिधीयते, तथैव धूमादेवह्नयाद्यनुमानस्यापि तथात्वं विनिश्चित्य तदपि तथेति किं न निर्णीयते निर्णयनिरतेन ? Page #27 -------------------------------------------------------------------------- ________________ न्यायावतारः 00000000000000000cocooooooooooooooooooooooooooocococo000000000000000000000000000000 यत्राविसंवादित्वं तत्र प्रामाण्याम्युपगमे का ते त्रपा ? अन्यथा स्वजनकादिशङ्कया सराङ्कोत्पत्तिस्त्वमिति केषां न हास्यास्पदं इति विवेचयतु । एवं निर्लोठितो वादी उल्लुण्ठीभूय ब्रडतो जलमुष्टिरिव स्त्रनिस्ताराय प्रत्यक्षस्याप्यप्रामाण्यं कीर्त्तयेत् । यद्वा - मानशून्यशून्यवाद विवादपरः प्रमाणमात्रद्वेषित्वेन तस्य तथात्त्रम चक्षीत । अथवा निरन्तर श्रद्धातमस्तत्यत्रगूढहृदयः पशुविशसनशासनाशसी श्रतिमेव मानतया समुद्दिशन् जगद्याथातथ्यावगतिकारकमिति न तत्प्रामाण्यं मन्त्री ति तान्प्रत्याह न प्रत्यक्षमपि भ्रान्तं प्रमाणत्वविनिश्चयात् । भ्रान्तं प्रमाणमित्येतद्विरुद्धं वचनं यतः || ६॥ - प्रत्यक्षं - स्पष्टतान्वितमध्यादि इन्द्रियानिन्द्रियोद्भवं सांव्य वहारिकं वा समक्षं । अपिनाऽनुमानादिप्रमाणसङग्रहः । भ्रान्तं - अप्रमाणमिति न नच वाच्यमिति गम्यते । यद्वा- पूर्वश्लोकान्तर्गतं दृष्टान्तं शुशोध विषयाऽऽह - ' प्रत्यक्षमपि' साध्यसाधनव्याप्त्यास्पदं हिं दृष्टान्तं । तच्चात्र प्रत्यस् लोकायतिकैरपि तस्य प्रमाणतया स्वीकृतत्वात् तथापि तत्प्रामाण्यविप्रतिपत्तौ तस्य तन्निश्चिन्वन्नाह - 'प्रत्यक्षमपि भ्रान्तमिति न कुत ? इति चेदत्र हेतुमाह- 'प्रमाणत्वविनिश्चयात् ' ( प्रमाणत्वं ) प्रमाणस्य हि स्वरूपं बाधवर्जितज्ञानत्वं, तस्य विशेषेणसमस्तत्रादिसम्मततया विविधं स्पृष्टं रसितं घ्रातं दृष्टं श्रुतं मतं वा मयेति स्वानुभवेन निश्चयात्-सन्देहरहितत्वेनानुभवनात् । उच्यते च विज्ञवृन्दारकैर्नहि प्रत्यक्षेऽनुपपन्नं नाम । अनेन दृन्ती कृतस्य प्रत्यक्षस्य साधनविकलता । प्रमाणत्वलक्षणो हेतुर्यथा प्रत्यक्षे विद्यते यथा च तन्न भ्रान्तम् । एवं अनुमानमपि प्रमाणत्वेन हेतुनंव - नायथार्थं । भवति चात्रान्तर्व्याप्तिः भ्रान्ते प्रमाणत्वस्य सर्वथैवानुपपन्नत्वात् । अथ प्रत्यक्षे प्रमाणत्वं भवतु, परं भ्रान्तत्वंन - - Page #28 -------------------------------------------------------------------------- ________________ १० न्यायावतारः 000000000000000000000000000000000000000000000000000000000000000006666666009 तस्मान्निर्गतं इति साध्यविकलता दृष्टान्तस्याऽविक लैवेत्यत्राह 'भ्रान्त' मित्यादि । यद्वाऽभ्रान्तत्व प्रमाणत्वयोरन्तर्व्याप्ताद्भवन्ती मारेकां निरस्यन्नाह - 'भ्रान्त' मित्यादि । भ्रान्तं अयथार्थ, प्रमाणं - यथार्थ ज्ञानं बाधवर्जितं स्वपराभासि इत्येतत् एकस्यैव परस्परविघातकधर्मवत्त्वा भ्युपगमपरं वचनं वाक्यं यतः विरुद्वं, माता मे वन्ध्येत्यादिवद् विरुद्धताव्रातम् । न हि यद्भ्रान्तं तत्प्रमाणं यत्प्रमाणं तद्भ्रान्तं वा भवितुमर्हति । तद्वक्ता च नाप्नोत्याप्त पर्षद्युपवेशनार्हतां, अभ्युपगतापलापेन विरुद्धतानवत्रोधेन वा निग्रहस्थानगतत्वात्तस्य अत्रेद मैदम्पर्यमभ्रान्तत्वविरुद्धस्वभावं हि प्रमाणत्वम् । तच्च प्रत्यक्षे समवेयत् भ्रान्तत्वं निवर्तयेत् तस्मात् स्वव्यापकं चाभ्रान्तत्वं समानयेत् इति निश्चितेभ्रान्तत्वप्रमाणत्वयोर्व्याप्तिभावे सङ्कलितप्रमाणत्वान्न प्रत्यक्ष भ्रान्तं । तद्वदेव चानुमानमपि प्रमाणत्वाश्रय इति न भ्रान्तत्वास्पदम् । इति सुस्थितं अनुमानस्य प्रसङ्गात् प्रत्यक्षस्यापि प्रमाणत्वम् । अथ प्रमाणलक्षणशुद्धये ज्ञानमेव तत्त्वं नान्यदिति सिद्धान्तयतो बौद्धविशेषान्, एकमेव ब्रह्मद्वितीयं नास्तीत्यभिनिविष्टान् प्रत्यक्षप्रेक्ष्यमाणजगज्जालमालमाचक्षाणान् वेदान्तिनः शिक्षयन्नाह - " सकलप्रतिभासस्य, भ्रान्तत्वासिद्धितः स्फुटम् । प्रमाणत्वविनिश्वापि द्वयसिद्ध प्रसिद्ध्यति ||७| प्रमाणं स्वपराभासि बाधवर्जितं ज्ञानमिति निर्णीतं प्राक् । तादृशस्य सकलप्रतिभासस्य - समग्रज्ञानस्य, स्फुटं प्रकटं यथा स्यात्तथा निश्चितं ' भ्रान्तत्वासिद्धित:' प्रमाणत्वलक्षणव्यापकतयाऽभ्रान्तत्वलक्षणव्यापकवत्त्वनिश्चयेन भ्रान्तत्वव्याहृतेः प्रत्यक्षादिज्ञानस्याभ्रान्तत्वसिद्धिः । अभ्रान्तं च सकलमपि ज्ञानं स्वपरा मासस्वरूपमेव, तेनैव तस्य तत्त्वनिर्णयापादनात् । अत एवाह 'प्रमाणत्वविनिश्चायि' ज्ञाने प्रमाणत्वनिर्णायकं ह्यभ्रान्तत्वम् तच्च पदार्थ याथार्थ्यानुपा Page #29 -------------------------------------------------------------------------- ________________ न्यायावतारः .000000000000000000ccato000000000000000000000000०००००००००००००००००००००००००००००००००००००००० त्येव स्यादन्यथा भ्रान्तत्वापत्तेः । पदार्थयाथार्थ्यानुपातित्वं च द्वयसिद्धौ-ज्ञानज्ञेयलक्षणपदार्थयुग्मसम्भव एव प्रसिद्धयति-प्रकर्ष याथातध्येन अनाविलसिद्धिपदवीमध्यारोहति । नहि तमस्तोममनपाकुर्वन् दरीदृश्यमानमर्थजातं चासाक्षात्कुर्वन् दीपो दीपतां लभते । एवमत्रापि ज्ञेयम् । आत्मपुद्गलाद्यर्थजातं यदि न स्यात्तर्हि दृश्याभावाकथं दर्शनं ? । सति दर्शनाङ्गीकारेऽवश्यं दृश्याङ्गीकारः, करणस्य कर्माविनाभावित्वात्। 'द्रष्टाच प्रमाते' त्यादिना श्लोकेन निदिष्यति । तन्नात्र तच्चर्चा । परमार्थतस्तु दध्यानयनचांदनया तदाधारानयनचोदनावरकरणरूपे ज्ञानेऽङ्गीकृते ज्ञाता ज्ञेयं चावश्यतयाङ्गीकार्यम् । स्वतन्त्रः कर्ता, व्याप्यं कर्म, साधकतमं च करणमितिव्युत्पादितत्वाद्विपश्चितापश्चिमैः । अत्रेयं भावना - प्रमेयाव्यभिचारित्वं हि प्रमाणस्य प्रमाणत्वम् । तच्च न प्रमेयमन्तरा । तथाभवद्विज्ञानमप्रमाणमेवामन्यते मुनिभिः, भ्रमस्यैतल्लक्षणत्वात् । सङ्गीर्यते च ज्ञानस्य प्रमाणतोमाभ्यामन्यथा स्ववचसैव स्वमतानृतत्वाङ्गीकार - प्रसक्तेः । अप्रामाणिकस्य तथात्वादेव । न च ज्ञानं क ज्ञानं कर्म ज्ञानेन करणेन जानातीति क्रियादियोग्यतेति नाथोंऽन्यज्ञेयेनेति वाच्यम् ज्ञानस्यैव तावत्वपराभासित्वात् सत्येव परस्मिस्तस्य तथात्वं, इति द्वर्यासद्धयनान्तरीयकमेव प्रमाणत्वम् । यद्वा-पूर्वश्लोके क्रमेण साधनविकलता साध्यविकलताऽनुमानप्रामाण्यव्यवस्थापने प्रत्यक्षरूपस्य दृशान्तस्य पराकृता। अधुना तूभयविकलता तस्यातन्यते 'सकले'त्यादिना । व्याख्या चैवं कार्या- सकलप्रतिभासस्य-समस्तस्पष्टज्ञानस्य स्फुटं प्रतिप्राणि स्वसंवेदनसिद्धतया भ्रान्तत्वासिद्धितः - अयथार्थ - साननुभवात्, प्रमाणत्वविनिश्चायि-प्रमेयाभिचारित्वनिर्णयकारक अभ्रान्तत्वमिति गम्यते, तत् द्वयसिद्धौ-प्रत्यक्षप्रमाणरूपे दृष्टान्तेऽभ्रान्तत्व - प्रमाणत्वलक्षणसाध्यसाधनयोाप्तत्वेनोपपन्ने, प्रसि - द्धयति-युक्त्युपपन्नं भवति । प्रत्यक्षप्रमाणे प्रमाणमभ्रान्तत्वाविनाभूतमिति निर्धारितम् । प्रमाणत्वं चानुमानेऽपि, प्रमेयाव्यभिचारि Page #30 -------------------------------------------------------------------------- ________________ न्यायावतारः 00000000000000000000000000000000000000000000000000000000000000000000 १२ ज्ञानमयत्वात् निश्चितमित्यनुमानेऽप्यभ्रान्तत्वसिद्धिः । एवं परोक्षान्ततानां स्मृत्यादीनां यथायथं लक्षणादि विधाय तथाभूतस्यैव परलोकविधिसौधस्तम्भभूतश्रीशाब्दप्रमाणम्य लक्षणमाविश्चिकीर्षुराह तावल्लोकलोकोत्तरसामान्यं शाब्दलक्षणं दृष्टेष्टाऽव्याहताद्वाक्यात्परमार्थाभिधायिनः । तत्त्वग्राहितयोत्पन्नं, मानं शाब्दं प्रकीर्त्तितम् ||८|| दृष्टं चतुर्दर्शनादिना घटपटादि, इष्टं सुखादि, ताभ्यामव्याहतात् - अविरुद्धाद् एतादृशात् वाक्यात वर्णशब्दादिसमूहात्मकादर्थद्योत कात, उत्पन्नं ज्ञानमितिगम्यम् । शाब्दं मानं प्रकीर्त्तितमिति सम्बन्धः । पुनः कीदृशाद्वाक्यादित्याह-'परमार्थाभिधायिनः' परमार्थीयथास्थितत्वं तात्पर्यं वा तदभिधानशीलं परमार्थाभिधायि, तस्मात् । कथमुत्पद्यते ? इत्याह-यद्वा-षडपूपाः दश दाडिमानीत्याद्यसम्बन्धानामपि प्रामाण्यप्राप्तौ प्रोक्तवान्- 'तत्त्वप्राहितया' तस्य वाक्यस्य तत्त्वंस्वरूपं, यथावस्थितार्थत्वं, तद्ग्रहणशीलतया यदुत्पन्नं - वाक्यश्रवणतः प्रादुर्भूतमात्मनिं ज्ञानं तत् शाब्द-आगमाख्यं, मानं प्रमाणं प्रकीर्त्तितंप्रकर्षेण युक्तियुक्ततया गदितं प्रमाणलक्षणलक्षकैः । अत्र च नास्तिकमतानुयायिनां दृष्टाऽव्याहतत्वमस्तीतिीष्टेति । नहि जीवाद्यपलापश्चतनावत प्रतिप्राणिस्वसंवेदनसंसिद्धतया जीवस्येष्टः केषाञ्चिदपि । परलोकमोक्षादीष्टाऽव्याहतत्वेऽपि बौद्धाक्षपाद - कपिल - कणाद-वेदानुयायिनां प्रत्यक्षादिप्रमाणप्रथासिद्धस्याद्वादापलापलीनत्वाद् दृष्टेति । तारा बोटिकादिविनिकरस्य स्यादित्याह - 'परमार्थेत्यादि । नहि तेषां स्वात्मद्वेषिणां वचनानि पदार्थस्य यर्थार्थता पराणीति । सत्यपि वाक्यस्य दृष्टेष्टाव्याहतत्वे परमार्थाभिधायित्वे च न सर्वे श्रोतार: समभावप्रतिश्रोतारः सम्पद्यन्ते । यत आह Page #31 -------------------------------------------------------------------------- ________________ न्यावावतारः .000000000000००००००00000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००० 'एकरसमपि तद्वाक्यं वक्तुर्वदनाद्विनिःसृतं तच्च । नानारसतां गच्छति, पृथक पृथग भावमासाद्य' ॥१॥ अत एव च न्यगादि वाचकवर्यैः'न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् ।' इति आहे 'तत्त्वग्राहितयेति । एवं चार्जवादयुक्तेप्युक्ते यदनुरागिभिः शिष्यैः शिष्यतेऽन्यथाकारं निरन्तरभक्तेभ्योऽङ्गीकुर्वते च ते तथेति । तन्न शाब्दं मानं, तल्लक्षणोत्तीर्णत्वात्तस्य । लोके तु जनकादिस्तथाभूत एव । यतो नासो पुत्रादिभ्यो दृष्टेष्टव्याहतमपरमार्थाभिधायि वाक्यमभिधत्ते । पुत्रादीनां च तत्त्वग्राहितया या बोधोत्पत्तिः, सैव लौकिक शाब्दं मानमिति । यत्तु कचिद्वाक्यादिकमेव शाब्दतया जेगीयते, तत्कारणे कार्योपचारं विधायैव । अन्यथा कथ जडताम्वरूपस्य वाक्यस्य व्यागृणीयात् मानताम् । मानस्य ज्ञानरूपत्वादेव । भवति च यत्र यो दृष्टेष्टाऽव्याहतवाक्यः प्रामाणिकबोधोत्पादकःस एव, निपुणवैद्यादिवत् । न चानुमानेऽन्तर्भावनीयमिदं, व्याप्त्यादिभावकलनाभावात् । स्पष्टं तदुल्लेखात् । न चानुमानं तदभावे भवतीति । अन्यच्च - वक्त्रधीनप्रामाण्यमिदं, तत्तु हेत्वाभासशून्यताद्युत्थम् । किञ्च-प्रत्यक्षपूर्वकं तत् व्याप्तिहेतुकं च, इदं तु प्रकरणादिना विशिष्टबोधजनकमेव सङ्कतपूर्वकं च । “अनुमायाः स्थिता चैवं, उक्त प्रामाण्यता पृथक । एका व्याप्तिभवाऽन्या तु, सङ्क तोत्था यतःस्मृता।" अथ लोकोत्तरं विशिष्टत्वात्सविशेष लक्षयन्नाहप्राप्तोपज्ञमनुल्लध्य-मदृष्टेष्टविरोधकम् । तत्त्वोपदेशकृत् सार्व, शास्त्र कापथघट्टनम् ॥९॥ रागद्वेषमोहानामात्यन्तिकः क्षयः आप्तिस्तद्वानाप्तः । न च प्रति Page #32 -------------------------------------------------------------------------- ________________ न्यायावतारः .000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००ccccc.0000cceecccccce, प्राण्युपलब्धे रागादिमात्रायाः, न तद्विहीनः कोऽपीति । तत एव न दरीहश्यमाना आप्ताः प्राणिनः। कस्यचित कचित् कदाचित्तु रागाद्यभावः स्वसंवेदनससिद्ध इति नापलप्यः । यस्य तु सर्वत्र सर्वदा च तदभावः, स आप्तः । रागद्वेषमोहानामंशतः क्षयोऽनुभवसिद्धगुणो-- त्पत्त्यनुमानप्रमित इति तत्क्षयः सर्वथापि स्यात् । तद्वाँश्च सः । न च ज्ञानादीनामंशत आवरणोपलब्धेः पूर्वोक्तवत् सर्वथावरणमपि जाघट्येत । तेषां नाभिप्रदेशानामंशतोऽपि कदाचिदप्यावृतेरभावात् ज्ञानादीनां । अन्येषां तु तेषां केषाञ्चिज्जीवानां तथाभावोऽध्यभ्युपेयतएव तारतम्यता रागादेरिति सर्वथाप्यभावस्तस्य किं नोरीकार्यः कृतिभिः । आप्तेनोपज्ञं - आदौ निरूपितं तीर्थस्थापनावसरे, पश्चात्त छद्मस्थोऽपि गणभृदादिर्निरूपयेत्। भवति चातोपज्ञतयैवागमस्य प्रामाण्यं, अन्यस्यानाभोगस्यापि सम्भवात् । 'नहि नामाऽनाभोग: छद्मस्थस्येह कचिद्भवतीतिवचनात् । अन्यच्च धर्माधर्मतःतुतन्निर्जरणात्मतदध्यवसाय परलोकाद्यतीन्द्रियपदार्थदर्शनपटिष्ठ एव धर्मादीनां स्वरूपप्ररूपणायां प्रमाणतामापद्येत । तथाविधरागादिनिरा देवेति । उच्यते च-'जिणपन्नत्तं तत्तं' । यत्तु 'विना गुरुभ्यो गुणनीरधिभ्य' इति । तत्तेषां प्राधान्यख्यापनाय । अन्यथा तेषां स्वातन्त्र्येऽन्धपरम्परान्यायः समापतन् केन वार्येत ?। आप्तोपज्ञत्वादेवाह-'अनुल्लयं' ग्रन्थार्थनिपुणैरपि वादिभिः प्रतिभावद्भिः कुयुक्तिशतेनापि नाभिभवनीयम्। न चाविसंवादिप्रमाणप्रतिपन्नोऽर्थो निहनूयतेऽनात्मनिह्नवेन। द्रव्यपर्यायोभयात्मकत्वं वस्तुनः नित्यता द्रव्यस्येतरता पर्यवस्येत्यादि च नानुभूयतेऽरक्तद्विष्टैः किं ? इति सुष्ठुक्त अनुल्लद्ध्यं' अनेनैवाप्तोपज्ञत्वसिद्धेः । तथापि कथमितिचेदाह अदृष्टेष्ठविरोधक' दृष्टाःइन्द्रियानिन्द्रियाभ्यामवगता घटरूपाकारादयः, इष्टाश्वानुमानाऽऽगमान्यथानुपपत्तिभिरवश्यन्तथाङ्गीकृताः, तैरविरोधकं-विरोधानाघ्रातम् । नहि यथावस्थितार्थपरिज्ञानस्तत्स्वरूपमन्यथाऽन्यथाऽऽचक्षीत, येन Page #33 -------------------------------------------------------------------------- ________________ न्यायावतारः १५ 330000330000000000000००००००००० तद्वचः पूर्वापरविरोधव्याहतिं भजेत् । भवति चैकान्ताभ्युपगमपराणां शकुन्तपोतन्यायेन पूर्वापरविरोधाङ्गीकरणं स्याद्वादाङ्गीकारात्। तथाहिसर्वथाऽनित्यत्ववादी बौद्धः सन्तानं, साङ्ख्यः प्रकृतेस्त्रिगुणात्मकतां, योगश्चित्ररूपस्यैकानेकरूपतां वेदान्ती चात्मनो बद्धाबद्ध वदन् प्रावृट्प्रवासीय स्खलन् पदे पदेऽनन्यगत्या स्वीकुर्वते अनेकान्तं, प्रान्तेऽन्यथाभूतार्थस्वीकारात् । न चेयं व्यवस्था निरस्तनिखिलदोषनिकरातनिरूपिते श्रीमौनीन्द्र प्रवचने । न चैकस्यैवार्थस्य परस्परविरुद्धसदसदात्मकतामभ्युपगच्छन् कथमिव भवान् न विरोधात्रातोद्गाता विरोधकव्याख्यातेति । निरपेक्षविरुद्धधर्मस्यैकत्रासङ्गतेः । सापेक्षस्य तु सर्वैरपि वाङमयवेदिभिरविंगानेनैकत्राङ्गीकृतिः कृतैवास्ति । अन्यथा स्वरस्यैकस्यैव ह्रस्वदीर्घादिविधानं, पीयमानं मधु मदयतीत्यत्र कतु कर्मलक्षणकारकद्वयसंयोगानन्यता मधुनः । देवदत्तस्य पितृपुत्रापेक्षया क्रमेण पुत्रपितृत्वव्यपदेशः कथमिव घटामियत्ति तेषामनुभवापलापिनां पापात्मनां । पुनर्विशिनष्टितत्त्वोपदेशकृत् । तत्त्वे - जीवाजीवौ तयोरेव परमार्थसत्त्वात् शेषस्य तयोरेबान्तर्भावात्, हेयोपादेयादिस्पष्टतात्रबोधाय शेवाणामाश्रवादीनां तत्त्वत्वेनोपन्यासः । अत एव 'सम्वमिणं दुप्पडोयारं' इत्यागमः सङ्गच्छते । तयोरुपदेशो ऽनुभवानुमा नहे, तुयुक्तिकारणोदाहर णनयभङ गैः स्वरूपप्रज्ञापनम् । नात्र मौनीन्द्र प्रवचने वचनगौरवतामात्रादादरणीयं वस्तु, दृष्टेष्टाविरुद्धत्वस्यैव तल्लक्षणत्वात्तत्कारकं यथार्थाख्यात्रिति यावत् । न तु द्रव्येभ्यो गुणकर्मणां भिन्नत्वं सङ्कल्पितसमवायेन च तैस्तयोः सम्बन्धं, त्रिभ्योपि सामान्यस्याऽ तथाविधां तथाविधतां असम्बद्ध सम्बद्धतां, अभावस्यातिरिक्ततां, तमश्छायान्धकाराणामभावतां, सुवर्णस्य तैजसतां, चक्षुषः प्राप्यकारितां शब्दस्याकाशगुणतां, जीवमात्रस्य विभुतां, मनसोऽगुतां जगत ईश्वरकतां, सच्चिदानन्दहीनां मुक्तिं, आकाशादीनां एकान्तनित्यतां, द्वयणुकादेरेकान्तानित्यतां, शब्दसंयोगवियोगादृष्टवे गानां - Page #34 -------------------------------------------------------------------------- ________________ न्यायावतार ००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००coccc. गुणतां, शाब्दस्यानुमानतां, तर्कस्यामानतां, जलतेजोवायूनां गन्धगन्धरसगन्धरसस्पर्शहीनतां, तोस्त्रिलक्षणतां च वदन वैशेषिक इय छलजातिनिग्रहस्थानानां तात्त्विकी तत्त्वतां, शक्यान्तर्भावानां प्रमाणादीनां पदार्थतां, वितण्डाहेत्वाभासानां कर्त्तव्यतां च निरूपयन् नैयायिक इव सर्वज्ञत्वादिविशिष्टदेवताऽभावं, वेदस्य नित्यतां, पशुविशसनमययज्ञजन्यां स्वर्गितां च जल्पन जैमिनीयः इव प्रत्यक्षप्रमाणप्रमितस्य जगतो मिथ्यात्वं, प्रत्येकत्वाभावं जीवस्य बद्धाबद्धतां, च बुद्धेः स्वपरावबोधराहित्यं च वर्णयन् वेदान्तीव च परस्परविरुद्धार्थदेशनेन तुरङ्गशृङ्गोपपादननिपुणतां कलयति । कथं नैवमित्याह - 'सार्व' सर्वेभ्यो द्रव्यगुणपर्यायेभ्यो यथावस्थितस्थितिस्थापनस्थेम्ना तत्स्वरूपानपहृतेः हितं, सर्वेषां वा प्राणिनां पारमार्थिकसुखमयमोक्षसाधनसम्यश्रद्धानादिदेशकत्वेन दयाप्ररूपणदत्ताभयदानेन वा हितं सायं । एतादृशस्य वाङमयस्य महिमानमाचक्षाणः शुद्धताभाह-शास्त्र' मिति । शासनं हितस्य प्राप्तये योगयोग्यवर्त्मव्यक्तिः, त्राणं चाऽहितनिवृत्तिलक्षणसंवरसमाख्यानात् योगक्षेमकृदितियावत् निरुक्त्या शास्त्रमिति । यद्वा-शिष्यते मिथ्यात्व. मोहग्रहग्रस्तोऽज्ञानपट्टलुप्तलोचनः । प्रमाइप्रकरप्रहीणात्मरमणतागुणश्च शिष्योऽनेन हितवचनेनेति शास्त्र । विशेषणद्वारैतत्प्राशस्त्यं प्रशासदाह'कापथघट्टन' सदसदाद्यविशेषवर्णनविज्ञविहितैकान्तकान्तोऽकान्त एवं कापथः । अनुभूयमानमपि स्वद्रव्यक्षेत्रकालभावैः सत्त्वमसत्त्वं चेतरैरपलपन्तः कथं न तत्प्रणीतः कापथ: ? । अयथार्थादेशस्य तथात्वादेव । तस्य घट्टनं-विनाशनं हेतुयुक्तिवृन्दवर्णितयथार्थस्वरूपतया । नहि नभसि भास्वति भासमाने भातु भवत्यलं तमालततिश्यामला तमस्ततिः । न चैवं वक्त रागद्वषप्रसङ्गः । नवा कण्टकसर्पकीटवर्जे समे पथि प्रस्थितः विषमे वा कण्टकादीन् परिहरन् पान्थः पटुपरिकराणां पटूनां आपनीपद्यते परुषवचनपन्थितां । अहिंसासुनृतादि Page #35 -------------------------------------------------------------------------- ________________ न्यायावतारः .0000000:००००००.:.ccc....८०००००००००००००००००000000000000000000000000000000000000000000 देशक अनुभूयमानयाथार्थ्यम्वरूपाभिधायि च वाक्यं 'न मांसभक्षणे दोष इत्यादेः 'क्षणिकाः सर्वसंस्कारा' इत्यादेश्व असद्भूतप्ररूपण - प्रवणस्य स्वरूपमाविर्भाव्य न्यक्कारं कुर्यादेवेति । अथैवं नितरां निजानुभवरूपं प्रत्यक्षानुमानादि प्रमाणं निरूप्य परार्थप्रधानः परार्थं तदाह लक्षयन् स्वनिश्चयवदन्येषां, निश्चयोत्पादनं बुधैः । परार्थ मानमाख्यातं, वाक्यं तदुपचारतः ॥१०॥ स्वः-प्रमाता प्रत्यक्षादिभिरविसंवादिभिरर्थनिश्चायकः, स्वान्यनिर्भासमयत्वात्तस्य ! ज्ञानादनन्यो हि सः । तस्य निश्चयः-निर्णयः, ईहापोहादिना निर्भासितोऽपायावधारणरूपः प्रतिबोधः, नत्तुल्यः । 'अन्येषां प्रमात्रतिरिक्तषु, षष्ठीसप्तम्योरथ प्रत्यभेदात् । यद्वा शेषे षष्ठीयम् । तेनाऽन्यसम्बन्धि इत्यवधेयम्। निश्चयस्यानारोपितावबोधरूपस्य उत्पादनं प्रादुर्भावनं यत्तदिति शेषः । 'बुधैः' बोधन्ति-प्रमाणेस्वरूपसङ्ख्याविषयफलान्यवगच्छन्ति याथातथ्येनेति बुधाः तैः, वक्त्रधीनं हि वाचां प्रामाण्यमित्येवं कल्लेखः । 'परार्थ' अवयवे समुदायोपचारात् मध्यमपदलोपाहा परः-परप्रतिबोधोऽर्थों यस्य तत् । यद्वा परस्मै इति परार्थ, स्वयं निर्धारितत्वात् परेषां बोधायैवायं यत्नः । न च स्वयमबुद्धमर्थ बोधयत्यन्यं कश्चिद्विपश्चिदपि । मानप्रमाणं, आख्यातं-प्रवीणपरिषदि प्रामाण्यतया प्ररूपितम्। ननु निर्णीतज्ञानतारूपस्यमानस्यात्मनिष्ठत्वात्तदुत्पादने नपरे प्रभविष्णवोऽन्यथाऽनारतानन्तावबोधात्मनः केवलस्याप्युत्पत्तौ प्रयतेरन् परे कारुणिकाः इति नेयं वाचोयुक्तियुक्तियुक्ता । सत्यं, प्रयत्न आत्मस्थ एवावबुद्धये प्रत्यलस्तथापि तं तज्जन्यमयोपशमं च विदधत्येवान्ये, सार्वदिकसार्वत्रिकसद्बोधोद्भवेऽपि तज्जनकप्रयत्नस्य कारणतयाऽन्यौजसः Page #36 -------------------------------------------------------------------------- ________________ १८ . न्यायावतारः 000000000000०००००००००००००००००....०००००००००००००००००००००००००००००..........20000.......... स्वीकृतत्वात् । उपदेशावबोधसंस्कारकारित्वादेव हि देवगुरूधर्मनिमित्तानामाश्रयणात् तथापि प्रयत्नः स न मानमिति चेदस्तु कारणे कार्योपचारात्तस्य मानतेत्येतदाह-वाक्य'मित्यादि । उच्यते इति वाक्यं-आख्यातान्तं, उपलक्षणमेतत् संज्ञादीनां । 'तत्' मानं, उपचारतः-आरोपेन । नहि परार्थमानत्वं वाक्यस्य, किन्तु तस्य कारणमिति तदपि परार्थ मानम् । उपलभ्यते हि उपलब्धिमद्भिः कारणस्यापि कार्यत्वव्यपदेश उपचाराद्यथा घृतमायुनड्वलोदकं च पादरोगः । प्रत्यक्षपदार्थप्रतिपादकवाक्यस्य परार्थमानत्वाभावे सर्वस्यापि वाक्यस्यागमत्वेन प्रतिपन्नप्रतिपादितपरिदृश्यमानार्थबोधस्याकारणकत्वम् । न चान्यथासिद्धत्वं तस्य, तद्बोधेनैव तस्यान्वयव्यतिरेकप्रतिपत्तेः । परस्य तद्बोधे चावश्यक्तृप्तत्वाभावाच्चेति वाच्यम् । परस्य तथा बोधे तस्यावश्यक्लृप्तत्वात् । बोधस्य तु द्वारतैव, वाक्यजन्यत्वे सति परार्थमानजनकत्वात् । एवं चोपलभ्य कश्चित्कञ्चिदर्थमध्यक्षादिना परप्रबोधाय वितन्वन् वाक्यव्रजं परस्य तद्बोधं जनयतीति सुष्ठूक्तं वाक्यं' समारोपादेव परार्थ मानम् । भथ परार्थप्रमाणश्य भेदौ मानकारणतां चाहप्रत्यक्षणानुमानेन, प्रसिद्धार्थप्रकाशनात् । परस्य तदुपायत्वात्, परार्थत्वं द्वयोरपि ॥११॥ प्रत्यक्षेण-पूर्वोक्तरूपेण, प्रसिद्धः-प्रकर्षण स्पष्टतालक्षणेन सिद्धोऽभिनिष्पन्नो निःसंदेहावबोधविषयतां प्रापितो योऽर्थः जिनप्रतिमादिः, तस्य प्रकाशन-परस्मै निरूपणं, तथैव अनुमानेन-प्रानिरूपितयथार्थस्वरूपेण च । चो गम्यो, द्योतकत्वात्तस्य । प्रसिद्धो-निर्दूषणहेतुतर्कादिना निर्णीतो योऽर्थ आत्मादिः, तस्य प्रकाशनात् परार्थत्वं-परव्युसादननिमित्तकत्वं द्वयोरपि-प्रत्यक्षानुमानयोरपि । अपिना न केवलं Page #37 -------------------------------------------------------------------------- ________________ न्यायावतारः 100000000000000000000000000000000000000000000००००००००००००००००००००००००००००००००००००००००००० प्रत्यक्षस्य नाप्यनुमानस्य केवला परार्थता । ऊरीक्रियते हि परैः केवलस्यानुमानस्य तथाविधता नत्वध्यक्षस्य । ननु दरीदृश्यते हि प्रतिज्ञादिप्रयोगोऽनुमाने परार्थ, न तथा समक्षे किञ्चिदिति । न, तत्रापि तथा वधे अगुल्यादिना निर्दिश्यमानतोपलम्भाद् यथावगतेपि साध्ये परव्युत्पत्तये प्रतिज्ञादेः प्रयुज्यमानस्य परार्थता, तथैवाध्यक्षेण निश्चितेप्यर्थेऽङ्गुल्यादि निर्दिश्य प्रतिपादयितुरध्यताबसितमर्थ कथमिव न परार्थता ?। तर्हि केवलादिप्रत्यक्षेण प्रतिपद्यार्थान् व्याकुर्वन् केवल्यादिवचनानि श्रुतरूपाणि कथं स्युस्तेषां परार्थप्रत्यक्षतापत्तेः । यो येनोपलभ्य प्रकाशते तस्य तथा परार्थतानियमापातात् । सत्यं, नेयं विभीषिकाऽत्र । यत आह 'परस्य' व्युत्पाद्यस्य तदुपायत्वान्-प्रत्यक्षानुमानाऽन्यतरावगमजननकारणत्वात्। न च केवल्यादिवचांसि अतीन्द्रियज्ञानायेति न तेषां परार्थप्रत्यक्षता, आगमतैव किन्तु । एवं च सांव्यवहारिकप्रत्यक्षेऽनुमितौ च परार्थता, नातीन्द्रियेऽध्यते । स्मरणादेस्तु प्रत्यक्षोद्भवत्वेन तेनैव गतार्थता, मास्तु वा तस्य सा, स्वानुभवसापेक्षत्वादेव तस्य ।। परार्थप्रत्यक्षमेव निरूपयति साक्षातप्रत्यक्षप्रतिपन्नार्थ-प्रतिपादि च यद्वचः । प्रत्यक्षप्रतिभासस्य, निमित्तत्वात्तदुच्यते ॥१२॥ प्रत्यक्षं इन्द्रियानिन्द्रियोद्भवं साक्षात्ज्ञानं, तेन प्रतिपन्नोऽवेतोऽर्थो रूपरसादिस्तस्य प्रतिपादि-निरूपकं यत्-पश्य पुरतः स्फुरन्मणिरलाभरणभासिनी श्रीजिनप्रतिमा, आस्वादयाम्लोऽयं रस इत्यादिरूपं वचः-वाक्यं, प्रत्यक्षप्रतिभासस्य परात्मनः साक्षादवबुद्धेः निमित्तवाद्हेतुत्वात्तत्परार्थ प्रत्यक्षमित्युच्यते-प्रतिपाद्यते बुधैः । नह्यन्तरेण वाक्यं प्रतिपाद्यते परः। आगमस्य च न प्रत्यक्षहेतुता, शब्दार्थप्रतीति Page #38 -------------------------------------------------------------------------- ________________ न्यायावतारः .00000000000000000000000000०००००००००००००००००००००००००००००००००000.00000000000000000000000 जनकत्वादेव सस्य प्रतीतो हृषीकव्यापारस्य प्रतिपादितपदार्थस्य चोपलम्भात् हेत्वादिनिरूपणेनान्यादिसाध्यज्ञानभावात् परार्थानुमानवदृश्यमानार्थनिरूपकवाक्यस्य परार्थप्रत्यक्षताततैव । सम्बोधनपूर्वक दृश्यमानार्थदर्शनोक्त वाक्य तथेति । अथानुमानस्य परार्थतां प्रतिपिप दयिषुढे तुमूलता तस्य समाकलय्याह साध्याविनामुवो हेतोर्वचो यत्प्रतिपादकम् । परार्थमनुमानं तत, पक्षादिवचनात्मकम् ॥१३।। हेतोः प्रतिपादकं वाक्यं परार्थमनुमानमिति सम्बन्धः । साध्यंअप्रतीतमनिराकृतमभीप्सितं, तेनाविनाभूः - कारणकार्यादिभावेन प्रतिबद्धो, हेतुः-हिनोति-गमयति अप्रतीतं साध्यमिति व्युत्पत्तः । तादृशस्य हेतोः प्रतिपादक-निरूपणप्रवणं यत् धूमोऽत्र तेन वह्निमानयमित्यादिरूपं वाक्य, तत् वाक्यमेव निरुक्तनिरुक्त ‘परार्थ' परस्यैव साध्यार्थज्ञानजनकत्वादनुमान-लिङ्गज्ञानसम्बन्धस्मरणादनु जायमानं मान-प्रमाण परार्थानुमानमिति तत्त्वम् । कीदृशं तदित्याह-पक्षादिवचनात्मक' पच्यते-व्यक्तीक्रियतेऽथों यस्मिन्निति पक्षः-सन्दिग्ध - साध्यवान, आदिशब्दात् हेतुदृष्टान्तादिग्रहः । तस्य वचनं-निवेदनं तदेवात्मा-स्वरूपं यस्य तत् पक्षादिवचनात्मकम् । परं प्रतिपादयता ह्यवश्यतया पक्षहेतुयुगलं निगाद्यं वागाद्यतत्त्वतन्त्रिणा । न च हेतुमात्रेणेप्सितार्थसिद्धिः, सद्ध तोरपि तादृशपक्षबलेन दुष्टत्वभावात् । सत्यामपि व्याप्तौ वह्निधूमयोर्ह दे दुष्टत्वस्याविवाद सिद्धत्वात् । धूमदृष्टान्तरतु प्रतिपाद्यप्रेक्षामपेक्षतेऽवबोधे, तदन्तरा न तदावश्यकम्, इतरथान्यथा, स्फुटयिष्यति चाग्रेऽवाप्तयथार्थाभिधानो दिवाकरः श्रुताकरः कविरेतत्, तस्य कथञ्चिनिरर्थकत्वाख्यानेन । अन्ये तु साध्याभ्युपगतिः पक्षः, साध्यनिर्देशमृते हेतोाप्ती सन्देहात्। वहन्य Page #39 -------------------------------------------------------------------------- ________________ न्यायावतारः ___ २१ .000000000000000000003300030000000000०००००००००००००30.100000000000000000०००००००००००००००००० पेक्षयालोकस्य सद्धेतुत्वेपि धूमापेक्षयाऽसद्ध तुत्वात् । साध्यवनिर्णयस्तु हेतुदर्शननिर्णयजनितः तथा साध्यहेतुयुग्मोगिरणमेव परार्थे सार्थकम् । उक्त पक्षादिवचनात्मकं परार्थानुमान, परं कः पक्षः ? इति सम्भावयन प्रश्नं पक्षं तत्प्रयोगस्यावश्यककर्त्तव्यतां चाऽऽह साध्याभ्युपगमः पक्षः, प्रत्यक्षाद्यनिराकृतः । तत्प्रयोगोऽत्र कर्तव्यो, हतोगोचरदीपकः ॥१४॥ साध्यं- व्यक्तीकृताकार, अभ्युपगमः- अभ्युपगम्यतेऽस्मिन्निति अभ्युपगमः, साध्यस्याभ्युपगमः साध्याभ्युपगमः, साध्याधिकरणमिति यावत् । यद्वा-साध्यस्याभ्युपगमो यस्मिन् स साध्याभ्युपगमः । ज्यधिकरणबहुव्रीहेरपि स्वीकृतत्वात्। द्वितीयपक्षे तु साध्यस्याभ्युपगमोनिर्देशः पक्ष इति । स च प्रत्यक्षादिनाऽनिराकृतोऽविरुद्धः,आदिशब्दालिङ्गलोकस्वषचनपरिग्रहः । प्रकटयिष्यति च प्रकरणकारोऽय एतद्दषणजालं निरूपयन् । अत्राहुः केचिद्ध तोः स्वरूपमाधिष्कुर्वता प्रादुष्कृतमेष साध्यमिति न तत्प्रयोगेनाऽर्थ इति । तन्ने त्याह'तत्प्रयोगो' तस्य निर्दिष्टरवरूपस्य पक्षस्य प्रतिपादनम् । अत्र परार्थानुमाने कर्त्तव्यः-कर्त्तव्यमेव । 'सर्व वाक्यं सावधारणमिति न्यायादनुक्तोपि प्रतीयते इति प्रामाणिकपटुवचनाचात्रै वकाराध्याहार भावश्यकः । अथ पक्षप्रयोगे फलमाह-हेतोर्यथोक्तलक्षणस्य, गोचरदीपक:- विषयप्रकाशकः, व्याप्तिप्रदर्शक इतियावत् । सत्येव वह्निलक्षणसाध्यनिर्देशे भवति श्रोतुर्ज्ञानं-धूमो वह्निव्याप्तः धूमसद्भावश्चात्र वह्निसद्भावाविनाभूत इति । साध्यनिर्देशाभावे चैकस्मादपि हेतोरनेकसाध्यसिद्धेः किमत्र प्रयोक्त्राभिप्रेतं साध्यमिति न निश्चिनुयात्। निश्चयनिहितनिविडप्रयत्नोपि निश्चता । तदवश्यंतया साध्या Page #40 -------------------------------------------------------------------------- ________________ २२ न्यायावतारः 00000000000000000000000000000000000000000000000000000000 .:.0000000000००००00000000000. भ्युपगमः पक्षापरपर्यायः प्रयोक्तव्यः । ये तु न पक्षप्रयोगमभिमन्वत शाक्यादयस्ताँश्छिक्षयन्नाह साध्यासिद्धिं - अन्यथा वाद्यभिप्रेतहेतोर्गोचरमोहितः । प्रत्यर्थस्य भवेद्धतुविरुद्धारेकितो यथा ॥१५॥ अन्यथा साध्याभ्युपगमाभावे, वादिनः स्वपक्षस्थापन परपक्ष - प्रत्याचक्षणचणस्याभिप्रेतः-स्वाभिप्रेतसाध्यसाधनप्रत्यलत्वात्सम्मतः, हेतुः-साध्याविनाभावित्वेन साध्यगमक: प्रत्यक्षादिगम्यः, तस्य गोचरो-विषयः साध्यादिस्तत्र मोहितः-साध्यनिर्देशाभावेन साध्यज्ञानाभाववान् प्रतिवादी परपक्षोत्थापनस्थिरास्थः, प्रत्यर्थस्यासाध्यस्य हेतुर्गमको भवेत् । यथोपप्रदर्शने । विरुद्धारेकितो-साध्याभावसाधकत्वसंदिग्धतावान् हेतुः । भावार्थः-स्थापयता पक्षं वादिना विना पक्षप्रयोग साध्याभ्युपगमापराभिधं यो हेतुरुक्तः केवलः स सन्दिग्धविरुद्धव्यावृत्तिकवदसाध्यस्य साध्येतरस्यापि वा साधकः समापद्यतेत्यवश्यं वक्तव्यः पक्षप्रयोगः । भवत्येव बृहद्भानु सिषाधयिषयापि व्याकृतो धूमाख्यो हेतुः साध्यनिर्देशमृते वर्गमकोपि वह्नयभावं जलादिकं वापेक्ष्य विरुद्ध इति । न चान्तरा पक्षप्रयोगं व्याप्तिप्रदर्शनं स्यात्ततश्च परार्थानुमानप्रथा दुरापास्तप्रसरैव साध्यमनभ्युपगच्छतः । नो को हेतुाप्तः साध्येनैकेनैव, आलोकेन वह्निशैत्याभावाद्यनेक - साध्यप्रतिपत्तेः । मृगशीषोंदयेन पूर्वचरोत्तरचराद्यनेकप्रतिपत्तेश्चेति । न प्रतीयात् सभ्यः सभाभूषणोपि वादिवाञ्छितं साध्यं निश्चितमन्तरेण साध्यनिर्देशं प्रत्यवतिष्ठते च प्रत्यर्थी प्रत्यर्थापेक्षया विरुद्धतादिकमुद्भावयन्निति स्यात्सर्व सुस्थं सिषाधयिषितसाध्यमुल्लिखतो विबुधलेखस्याख्यातम्। एतदेव दृष्टान्तेन दृढयितुमाइ Page #41 -------------------------------------------------------------------------- ________________ न्यायावतारः ००००००००० 3000000000000000000००००००००००००००००००००००००००००००० धानुष्कगुण संप्रेक्षिजनस्य परिविध्यतः । धानुष्कस्य विना लक्ष्य निर्देशेन गुणेतरौ ॥ १६ ॥ २३ धनुषा चरन्तीति धानुष्कः, तस्य गुणो यथालक्ष्यवेधकत्वादि, तं सम्यग् - यथार्थतया, प्रेक्षणशीलो-निरूपणप्रवणो, यो जनः तस्य । 'गुणेतरौ' यथा लक्ष्यं विद्धमिति गुणोऽन्यथा त्वन्यथेत्युभयमपि धानुष्कस्य अवभासते मनसि इति शेषः । कुत एवमित्याह-लक्ष्यनिर्देशेन -- कनीनिकादिवेधनीयकथनेन विना परिविध्यतो- लक्ष्यं वेधयन्नपि न स्वस्य गुणमेवाविर्भावयति, किंतु गुणदोषोभयमेवेत्युक्तमेव प्राक । यद्वा- प्रेक्षकजनस्याप्रतो लक्ष्यनिर्देशेन विना परिविध्यतो धानुष्कस्य गुणेतरौ स्यातां, निर्देशे तु गुण एव । एवं च प्रकृतेपि पक्षप्रयोगे तदभावे चोक्तवद्भावना कार्या दृष्टान्तमनुरुध्य गुणेतरयोरिति कार्य एवाभ्युपगमः साध्यस्य । उपवर्ण्य पक्ष प्रयोगस्थावश्यकतां परार्थानुमानेऽवश्यं कर्त्तव्यता हेतुप्रयोगस्यापीति तद्भदावाह ording हेतोस्तथोपपत्त्या स्यात्, प्रयोगो चान्यथापि वा । द्विविधोऽन्यतरेणापि साध्यसिद्धिर्भवेदिति ||१७|| तो:- पूर्वमुपदर्शितलक्षणस्य ' तथोपपत्त्या' सत्येव साध्ये उपलध्या, वाशब्दः पूर्वचरोत्तरवर- सहचर-स्वभाव-कार्य-कारणादिभेदप्रतिपत्त्यर्थं स्यात् प्रयोगः- परव्युत्पादनाय प्रतिपादनम् । अन्यथापि साःयाभावेऽनुपलब्ध्यापत्तेरित्येवं व्यतिरेकमुखेन । अपिशब्दो द्वयोरपि तुल्यकक्षतापरिग्रहाय । यथैवाऽम्वयमुखेन साध्यं सिद्धिपदवीं प्रेजति तथैवं व्यतिरेकमुखेनापि हेतुप्रयोगेन । वाशब्दोऽत्रापि पूर्ववद् भेदोपग्रहाय । तत्त्वतो द्विधैव तत्प्रयोगोऽवान्तरभेदास्तु प्रत्येकमुपलब्धे 1 Page #42 -------------------------------------------------------------------------- ________________ २३ न्यायावतार 0000000000000000000000000000000000OOOCOO0000OOOOOOOOOO0000000 2.000000 .0cco CC.COCO01 रनुपलब्धे श्वेत्येवाह-द्विविध' इति । द्वे एव-तथोपपत्त्यन्यथानुपपत्याख्ये एव, विधे-प्रकारौ, अन्येषां तयोरेवान्तर्भावात् यस्य स द्विविधः। ननु किं सर्वत्रापि द्विविध एव प्रयोगो हेतोरुतान्यथापि क्वचिदित्याह'अन्यतरेणापि' तथोपपत्त्याख्येनान्यथानुपपत्त्याख्येन वा प्रयोगेन 'साध्यसिद्धिः' साध्यस्य 'प्रसाधितस्वरूपस्य सिद्धिव्युत्पादनं भवेत ।' अवधारणफलत्वाद्वाक्यस्य स्यादेव । नोभयथा हेतुप्रयोगापेक्षा, सत्यां साध्यसिद्धावन्यहेतुप्रयोगे निग्रहस्थानाईत्वापत्तेः । इतिशब्दो व्युत्पन्नापेक्षया परार्थानुमाने पक्षहेत्वोरेव प्रयोग आवश्यकस्तावन्मात्रेणैवेप्सितसिद्धः । दृष्टान्तादेस्तु स्वमनीषिकयैवोल्लिख्यमानत्वात् । इतरस्य तु स्यादेव व्युत्पत्तौ दृष्टान्तापेक्षा। न चैतावताऽऽवश्यकता दृष्टान्तस्य सर्वेषु परार्थानुमानेषु । यतो वक्ष्यत्यन्ताप्त्यैवेत्यादिना दृष्टान्तदर्शनस्य साध्यसिद्धरनङगता । अथ परमकारुणिको भगवान् दिवाकरो मेघवत् सर्वानुकम्पापरतया बालबोधाय दृष्टान्तप्रयोगस्यावश्यकत्वात्तत्य च साधर्म्यतरभेदभिन्नत्वात् साधर्म्यदृष्टान्तं तावत् सुबोधत्वाद्वयातिनिबन्धनतया च मुख्यमवधारयन्नाह साध्यसाधनयोर्व्याप्ति-यंत्र निश्चीयतेतराम् । साधम्र्येण स दृष्टान्तः, सम्बन्धस्मरणान्मतः॥१८॥ साध्यंनिर्णीतस्वरूपं वह्नयादि, साधनमपि प्रागुक्तलक्षणं धूमादि।साध्यते साध्यमनेनेति व्युत्पत्तेः । तयोा तर विनामावस्तकेंणोहापराभिधानेन, सत्येव वह्नयादौ धूमाधुपलम्भोऽसति चानुपलम्भ इति सहचारित्वोपलम्भेपि धूमस्य वह्निजन्यतां यथावनिर्णीयाविनाभावो वह्निना धूमस्येति यो निर्णयः संपनीपद्यते, स एव च व्याप्तिरित्यभिधीयते। सा यत्र महानसादी निश्चीयतेतराम् असिद्धा Page #43 -------------------------------------------------------------------------- ________________ न्यायावतारः २५ .0000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० दिदूषणकदम्बकाकलकिततयाऽभ्रान्तज्ञानेनाबाधं ज्ञायते । प्रथम तावद्वयाप्ति प्रतिपित्सुमहानसादौ वह्निधूमयोरभावमुपलभते । पश्चात्क्रमाद्वह्नि धूमं वहन्यभावं धूमाभावं चोपलभ्य निर्णयति, यदुत यत्र यत्र धूमोपलम्भस्तत्र तत्र धूमस्य वह्विजन्यत्वादवश्यंतया वह्नयुपलम्भ इति स व्याप्तिप्रतिपत्त्याधारः साधर्म्यण-साध्यसाधनोभयवत्त्वलक्षणधर्मवत्त्वेन. दृष्टान्तः मतो विद्वद्भिः। कुतः ? इत्याह-सम्बन्धस्मरणात्साधनदशनेन साधनसाध्यवन्महानसादेः स्मरणम् । ततश्च तयोरविनाभावलक्षणः सम्बन्धो व्याप्त्यपराह्नः स्मृतिपथमायातीति साधर्म्यताऽस्य । ततश्चास्यापि महानसादिवद्धमादिलक्षणसाधनवत्त्वेन वह्नयादिलक्षणसाध्यवत्ताऽवश्यम्, इति निर्णयोऽनुमानम् । . आविर्भाव्य साधर्म्यदृष्टान्तस्य स्वरूपमाह वैधर्म्यदृष्टान्तस्य तत् साध्ये निवर्तमाने तु, साधनस्याप्यसम्भवः । स्थाप्यते यत्र दृष्टान्ते, वैधम्र्येणेति स स्मृतः ॥१९॥ साध्ये-वयादिलक्षणे निवर्तमाने दृष्टान्तीक्रियमाण आधारेऽवर्तमाने, तुशब्दः साधर्म्यदृष्टान्तापेक्षया विरुद्धतासूचनया विशेषणार्थः । तत्र हि यत्र साधनं तत्र साध्यमित्येवं व्याप्तिग्रहो अत्र त्वन्यथैव । साधनस्य धूमादिलक्षणहेतोः, अपिः साधनस्य यावत्साध्याधिकरणवृत्तिताज्ञापनाय । असम्भवोऽ वद्यमानता यत्र हदादिलक्षणे दृष्टान्तेव्यतिरेकव्याप्तिग्रहणधार स्थाप्यते-ऊहापोहादिना निर्णीयते,सपूर्वोक्तो बह्निधूमव्याप्त्यपेक्षया हृदादिलक्षण व, वैधम्र्येण साध्याभावेन साधनाभावो नियमित इति वैधर्म्यता प्रकृतानुमाने । स्मृतः पूर्वपुरुषै ायनिष्कर्षनिरर्गलप्रतिभैः । इतिना दृष्टान्तस्वरूपाख्यानसमाप्त: सूचाकृता। - ' दृष्टान्त विध्यं प्रदर्य मन्दमतिव्युत्पत्तये, नहि दृधान्तमात्रेण Page #44 -------------------------------------------------------------------------- ________________ २६ न्यायावतारः B000000000000000000000000000000000000०००००००००००००००००.20300330d0000333613301236331331. साध्यसिद्धिः, पार्थिवस्य लोहलेख्यत्वदर्शनेन लोहलेख्यत्वस्य वज्रेडप्यापत्तः। किन्तु साध्यसाधनयोरविनाभावनिर्णयेन कथञ्चिदपि स्यादिति तस्य सद्भावेऽसद्भावेपि व्यर्थतेत्याहोदाहरणस्य - अन्तर्व्याप्त्यैव साध्यस्य, सिद्धयहिरुदाहतिः । व्यर्थेव तदसद्भावेऽप्येवं न्यायविदो विदुः ॥२०॥ अन्तर्व्याप्त्या- कार्यकारणाद्यन्यतमभावेन साधनस्य साध्याविनाभूत्वनिर्णयलक्षणया तात्त्विकव्याप्त्या, एबकारो दृष्टान्तोपनयादि. व्यवच्छेदपरः, उक्तलक्षणव्याप्तिमात्रेणेत्यर्थः । साध्यस्य-प्रपञ्चितप्राकखरूपस्य वह्नयादिलक्षणस्य, सिद्धेः-निर्णयात् । भवत्येव च धूमस्य वह्निना सहाविनाभावनिर्णये धूमोपलम्भमात्रेणैव वह्रिलक्षणसाध्यसिद्धिव्युत्पन्नस्येति । बहिरुदाहृतिर्महातसादिलक्षणसाध्यसाधनसाहचर्यादिमात्रप्रदर्शकोदाहरणं व्यर्था, विनाभूतस्यापि श्यामत्वादिना मैत्रातनयत्वादेर्दर्शनात् बहिरुदाहरणस्य व्यर्थता । एवकारः साध्यसिध्यङ्गताव्यवच्छेदाय । अन्तर्याप्त्यैव साध्यस्य सिद्धत्वात् । न चानुपसंहारित्वं, तस्य दूषणत्वेनानभ्युपगमात् । अन्यथा सर्व कस्यापि ज्ञेयं वाच्यत्वात् इत्याद्यनुमानभणितिर्व्यवच्छिद्येत।नच पक्षैकदेश एवोदाहरणतया स्वीक्रियत एवैतादृश उदाहरणे दृष्टतयाङ्गीकारेनुमानस्यासत्यमपि साधयेत् न कः । अन्तर्व्याप्तिसद्भावे तन्मात्रेण साध्यव्युत्पत्तेदृष्टान्तस्य वैयर्थं व्याव]तरथापि तस्य तथात्वमाह-'तदसद्भावे' साध्यसिद्धेरभवनेऽन्ताप्त्येत्यत्रापि ज्ञेयम् । अपिरुभयथापि बहिरुदाहृतेर्वैयर्यप्रदर्शनपरः । सिद्धऽसिद्ध का साध्येऽकिश्चित्करत्वात्तस्याः । न चैतत्स्वमनीषिकाविजम्भितम्, येन शिष्टत्वातिक्रान्तिः स्यादित्याह एवं-पूर्वोक्तप्रकारेण बहिरुदाहृतेर्व्यर्थता न्यायविदोऽनुमानतत्स्वरूपविषयकारणज्ञानविचारवन्तो विदुरा - ख्यातवन्तः । युक्तिस्तु दर्शितैव प्राक् । Page #45 -------------------------------------------------------------------------- ________________ २७ न्यायावतारः Decorecocerocooooooococoooooooooooo000000000000000000000000000000cooooooooooooo00000000 तदेवं परार्थानुमानं निरूप्याथ तद्दोषान्निरूपयन्नादौ तावत्पक्षाभासं प्रदर्शयति प्रतिपाद्यस्य यः सिद्धः, पक्षाभासोऽक्ष लिङ्गतः । लोकस्ववचनाभ्यां तु, बाधितोऽनेकधा मतः ॥ २१ ॥ प्रतिपाद्यस्य प्रतिपादयितुं प्रक्रान्तस्य साध्याभ्युपगमस्य, यः वक्ष्यमाणदोषाणामन्यतमेन केनापि दुष्टोऽक्षबाधादिना सिद्धोऽनाहार्यनिश्चितबोधेन निर्णीतः, पक्षाभासः । सोऽनेकधाऽक्षाद्यने कबाधकसंभवेन मतः पूर्वप्रवीणैः । तदेवाह - 'अक्षलिङ्गतः हृषीकाण्यक्षाणि । यद्वा मनः श्रोतांसि च । लिङ्ग च साध्यान्वयव्यतिरेकानुविधायि ताभ्यां तृतीयाद्विवचने तससंभवाद्विभक्तिकत्वात्तसः । बाधितो - त्रिरुद्धतयाधिगतः पक्षाभासो ज्ञेयः । तद्यथा आह कश्चित् अनुष्णोऽग्निद्रव्यत्वात् जलवत् । अत्र हि द्रव्यत्वेन साध्यमानमग्नावनुष्णत्वं प्रत्यक्षवाधितम् । न च बह्निमन्तरेणान्यदस्ति उष्णतावद्द्रव्यं येन हेतोरनेकान्तिकता पत्तिः कर्त्त पार्यते । न चाध्यक्षविरोधेऽन्यः बाधोऽप्यवेक्ष्यतेऽपीति । चाक्षुषप्रत्यक्ष बाधितः साध्याभ्युपगम इत्यतत्राधितत्वम् । एवं शेषेन्द्रियमनोभिरपि विरुद्धता - शब्दो न श्रावणः, गन्धो न घ्राणविषयो, रसो न रसनाविषयः, स्पर्शो न स्पर्शनविषयः, सुखादि न मनोविषयमित्यादिष्वनुमानेषु स्वधियोह्या । एवं कश्चिच्चेदाऽऽहनात्मगुणो ज्ञानं न वा सर्वज्ञः सम्भवति, न च पर्वतो वह्निमान् इत्यादिलिङ्गबाधितानुमानततिः अन्वयव्यतिरेक- तारतम्यवत्त्वधूमवत्त्वलक्षणे तुभिस्तद्विरुद्धार्थसिद्धिसम्भवात् । तथैव 'लोकस्ववचनाभ्यां ' लोको व्यवहार्यौ जनो, न तु यः कोऽपि तस्यार्थावगम-तत्प्रामाण्याप्रामाण्यविचारविकलत्वात् । तेन बाधितस्तद्भ्युपगम विरुद्धस्तद्विरुद्वाभ्युपगमे हि स्पष्टो व्यवहारोच्छेदः । न चातिशयितो दोषोऽस्मात् परः । यथाह कश्चित् न प्रमाणप्रमेयव्यवहारो, न वा किश्चिदचेतनं वस्तु, नित्य > > Page #46 -------------------------------------------------------------------------- ________________ न्यायावतारः ००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००:3606000000000000 मनित्यंवा सर्वथा समस्तं वस्तुवृन्दमित्याद्यनुमानपरम्परा ज्ञेया । अत्रं हि प्रवृत्त्यादि-भोजनादि-प्रत्यर्पर्णादिव्यवहारानुपपत्तिरिति लोकविरद्धता । अत्र यद्यप्यस्त्येव प्रत्यक्षानुमानादिविरुद्धता, परं लोकविरोधस्य प्राबल्यज्ञापनाय पृथगुपन्यासोऽन्यथा तु सप्रमाणे लोकाभ्युपगमे प्रमाणबाधात । इतरथा तु न किञ्चिदिति नार्थः कोप्यनेन सिद्धयतीति । स्ववचनेनेति । तत्र स्वस्य-प्रमाणप्रयोजकस्य वादिप्रतिवाद्यन्यतरस्य, वचन-लपनलपितम् , अङ्गीकृतं साध्यमिति यावत्। तेन बाधितः । तत्रापि सप्रमाणाभ्युपगमे पौरस्त्ये पाश्चात्यस्यान्यथावचनस्य स्पष्टैव विरुद्धता। पौरस्त्येऽप्रमाणाभ्युपगमे तु प्रतिपादकस्य बुद्धिशून्यता पश्चात्ततोऽन्यथा प्रतिपादने इति पार्थक्येनोपन्यासः । तत्त्वतस्तु स्ववचनप्रतिबद्धो न चलिष्यति, चलने वितण्डापातात् निग्रहस्थानाईतापत्तेर्वा, तस्य निरुत्तरत्वापादनात् । अचलने तु पूर्वापरविरुद्धवादित्वेन निग्रहार्हत्वमिति पार्थक्यस्यार्थवत्तेति । यथाऽऽह कश्चन-प्रसिद्ध प्रमाणं न चैतत्प्रमेयावसायि प्रोवाचेति । अत्र च प्रमीयतेऽनेन प्रमीयमानतास्पद वस्तु तत्प्रमाणमिति प्रमाणशब्देनैवाङ्गीकृतं वादिना प्रमाणस्य प्रमेयपरिच्छेदकत्वमन्यथा च पश्वाल्लपितं तत्र च पूर्ववदोषापात आपद्यते । तुश्वार्थे । स च चतुर्णामपि बाधकानां समुच्चयाय पूर्वाभ्यां वानयोःसमुच्चयाय । अन्ये त्वाऽऽगमबाधितसूचनायेत्याहुः-यथा जैनैः कार्या पाशुपतादिसेवेत्यादि । अत्रादेवे देवत्वबुद्धयादिना प्रत्यक्षेणैव मिथ्यात्वापातान्निषिद्धत्वाच्चास्यागमे तद्विरुद्धता स्पष्टेति । एवं प्रत्यक्ष लिङ्गलोकस्ववचनैर्बाधितः साध्याभ्युपगमः पक्षाभास इत्युच्यते । न च प्रत्यक्षादीनामेकविधतेयत्ता वेत्याह तद्बाधितानामनेकधात्वम्- 'अनेकधा' एकेन प्रकारेणेत्येकधा, न तथाऽनेकधा । प्रत्यक्षादीनामनेकधास्वात्तैबोधितस्य साध्याभ्युपगमस्य पक्षाभासापरपर्यायस्याप्यनेकधात्वं न दुरुपपादम् । न चेदं स्वकल्पनाकल्पितमित्याह-'मतः' इति । मतोऽ. Page #47 -------------------------------------------------------------------------- ________________ न्यायवितारः 8888888@sabˆooo....................................000000000000000000........000000 २९ भिमतोऽन्नादिबाघहेतुस्वरूपादिवोद्धृभिर्निर्णीतज्ञानवद्भिः पूर्वाचार्यैः । अन्यैश्च बाधित इति हेतुदूषणमुक्तम् । न च तद्युक्तं, हेतोः स्वरूपेण बाधाऽभावात् । व्याप्तिबाधने तु स्यादपि । न च सापि बाध्यतेऽत्र मैं वा तन्मुखेन दोषापादनमभिप्रेतं, किन्तु पक्ष प्रयोगविरोधेनेति थार्थताऽस्य पक्षाभासत्वादिनेति । एवं चानुमानाङ्गस्य पक्षस्याभासं दर्शयित्वाऽधुना पक्षहेतुवचनात्मकत्वात् परार्थानुमानस्य तच्छेषभूतस्य हेतोराभासानाSSख्यन् प्रथमं 'साध्याविनाyat लिङ्गादितिवाक्येन सूचितं लक्षणं हेतोराह पूर्वाद्ध नोत्तराद्धेन तदाभासाँश्च - अन्यथानुपपन्नत्वं, हेतोर्लक्षण मीरितम् । तदप्रतीतिसन्देह - चिपय सिंस्तदाभता ||२२|| तत्रान्यथा - साध्याभावे, उपपन्नं युक्त्या घटमानं, प्रामाण्याडविरोधीत्यर्थः । नोपपन्नमनुपपन्नं युक्त्त्याऽघटमानं तस्य भावोऽनुपपन्नत्वं अन्यथानुपपन्नत्वम् । व्यतिरेकव्याप्तिप्रदर्शनम् च लक्षणतया साहचर्यमात्रादीनां हेतुता नेति ज्ञापनायानुपपन्नत्वपर्यन्तानुधावनं प्रोज्जय साध्याभावे साधनाभाव इति सामान्यं यत् कृतं नियमदर्शनाय, एवमेव तथोपपत्तावप्यभ्यूह्मम् । अदर्शयिष्यदन्यथा तत्रापि साध्यसत्त्व सस्त्रमिति । तदन्यथानुपपन्नत्यम् किमित्याह – 'देतो'क्षण' मिति । हिनोति गमयति, परोक्ष मपि वह्नयादिकमप्रतीतमनि कृतमभीप्सितं चेति हेतुधूमादिः प्रत्यक्षादिना गम्यमान: । 'हिंदू गतिवृद्धयो' रित्यस्मात् 'कृसि कम्यभिगमितनिमनिजन्यसिमसिसच्यवि भाषागाग्लाम्लाहनिहायाहिकशिपुभ्यस्तुन्नि' त्यौणादिके 'तुनि' हेतु शब्दनिष्पत्तिः तस्य लक्षणं-लक्ष्यते - इतरव्यावृत्त्या निश्चीयते मकृतमनेनेति लक्षणमसाधारणं स्वरूपं वह्ने रिवोष्णत्वादि । लक्षणं Page #48 -------------------------------------------------------------------------- ________________ न्यायावतारः ००००००cco०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० coc..000ccc. च हेतोरन्यथानुपपन्नत्वम् । परैस्तु त्रिरूपत्वं पञ्चरूपत्वं शौद्धोदन्याक्षपादादिभिरभिमतं, तच्च न युक्तम् । त्रिरूपत्वं तावत् सपक्षसत्त्वविपक्षासत्त्वपक्षधर्मरूपम् । रूपाणि पक्षधर्मत्वं सपक्षे विद्यमानता । विपक्षे नास्तिता हेतो. रेवं त्रीणि विभाव्यता ॥१॥ मिति वचनात् । पञ्चरूपत्वं चासिद्धविरुद्धा-ऽनै कान्तिक - सत्प्रतिपक्ष - बाधरहितलक्षणमुभयमपि स श्यामो भैत्रातनयत्वादितरतत्पुत्रवदित्यत्रासदनुमाने सत्त्वाद्दुष्टमेव । त्रिरूपतायां तावत् इतरतत्पुत्ररूपे सपने सत्त्वं, दाक्ष्यादितनये विपक्षेऽसत्त्वं, तस्मिँश्च पक्षीकृते सत्त्वं च हेतोर्न केनाप्यन्यथाकत पार्यते । पञ्चरूपतायामपि अनर्थकपक्षहेतुविशेषणलक्षणाश्रयस्वरूपासिद्धिपक्षवृत्तित्वाऽभावलक्षणपक्षाऽसिद्धयभावान्न तावदसिद्धिः। न च सपक्ष-विपक्षवृत्तित्वाभावात् सपक्षवृत्तित्वादृष्टान्तयुक्तत्वाचानेकान्तिकता, साध्याभावासाधकत्वान्नापि विरुद्धता. न चास्यत्र साध्याभावसाधकं हेत्वन्तरं येन सत्प्रतिपक्षता स्यात्, न च सम्भवति बाधगन्धोपीति सुष्ठुक्त-तत्रासदनुमाने सत्त्वादेतल्लक्षणस्य दुष्टत्वमिति । ननु नास्ति विपक्ष हेतुः, परं नियमतो नेति नेति चेदायातमेवान्यथानुपपन्नत्वम् । तथा चैकमेव तदस्तु, किं तत्त्रयेणेति । शकेत च शङ्काकुलो यच्छयामत्वे साध्ये शाकपाजत्वं ह्यपाधिः । साम्यव्यापकत्वे सति साधनाव्यापकत्वं हि तस्य लक्षणम् । यथा पर्वतो धूमवान् बहोरित्यत्रार्द्वन्धनसंयोग उपाधिर्विद्यते चाट्टैन्धनसंयोगव्यापकता धूमे, न चास्ति वहिलक्षणे साधने-अयोगोलकादौ साधनसत्त्वेऽपि तदभावादेवमत्रापि । ननु क्वाव्यापकता साधनेनेतरस्य तत्पुत्रस्यान्यरूपस्याभावादितिचेन्नायं नियमो-यच्छ्यामत्वं तत्पुत्रत्वेनेति तेनाच्यापकतेति चेदायातमेवान्यथानुपपन्नत्वं, किं पञ्चरूपत्वेनेति तदुक्तम् । 'नान्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम् । Page #49 -------------------------------------------------------------------------- ________________ न्यायावतारः ३१ 1320030300506060030200300000000000000000000000000000000000000000000000000000000000000000 अन्यथानुपपन्नत्वं, यत्र तत्र त्रयेण कि ॥१।। मिति । वैशेषिकाय च पञ्चरूपेण किं भवेदिति । अन्यच्च कथमुभावष्येतौ भविता शकदोदयः कृतिकोदयादित्यत्र पक्षधर्मतां समानयेतां । तत् सूक्त -अन्यथानुपपन्नत्वमेव हेतोलक्षणम्। न चैतच्छिष्टाननुसारि, तथात्वे ह्यशिष्टस्वप्रसङ्गात् । 'शिष्टाः शिष्टत्वमायान्ति, शिष्टमार्गानुवर्त्तनादिति वचनादिति । शिष्टानुसारित्वज्ञापनायाह-'ईरित' लक्षणवेदिभिः कथितम् । धातोरनेकार्थत्वाद् गतिकम्पनार्थस्यापीरेः कथनार्थतोदुपसर्गपूर्वस्य तु भवत्येव कथनार्थतेत्येवं निरूप्य लक्षणं हेतोस्तदाभासानिरुरूपयिषुराह-तदप्रतीती' त्यादि । तस्य लक्षणतयाभिमतस्यान्यथानुपपन्नत्वाप्रतीतिरनिर्णयः तथाविधप्रमाणानुपलम्भात् । यथा सर्वज्ञत्ववक्तत्वयोर्यथा वा शब्दत्वपरिणामित्वयोरित्यादि । एवं तस्यैवान्यथानुपपन्नत्वस्य सन्देहोऽनवस्थितानेककोटिकज्ञानम् । तेन नित्यत्वप्रमेयत्वयोरिव । तथैव विपर्यासः साध्याभाव एवोपपन्नत्वं, तेन वह्निमत्त्वजलवत्त्वयोरिव । समासश्चात्रैवं-अप्रतीतिश्च सन्देहश्च विपयांसश्चा. प्रतीतिसंदेहविपर्यासास्तस्यान्यथानुपपन्नस्याप्रतीतिसंदेहविपर्यासास्तदप्रतीतिसन्देहविपर्यासास्तैः । अत्र तच्छन्देन लक्षणपरामर्शः। किमित्याह-'तदाभते'ति । तच्छब्देनात्र हेतुलक्षणलक्ष्यपरामर्शस्तथा च तद्वद् हेतुवदाभान्तीति तदाभा-हेतुतया ज्ञैरभिप्रेता अपि न हेतुकार्यसाधका इति । तेषां भावस्तदाभता, हेत्वाभासतेत्यर्थश्छन्दो. नुरोधेनैवं व्यपदेशः प्रसिद्धतरशब्दोल्लङ्घनेन । न च तेनाशिष्टता, सत्प्रतिपक्षबाधयोः पक्षदूषकत्वेन नात्रोपन्यासः । न चेमौ व्याप्ति प्रतिबध्नीतः, किन्तु पक्षप्रयोगमेव । तथा च कथङ्कारमनयोः स्याद्धत्वाभासता। तद्युक्तियुक्तमुक्त त्रिभिरप्रतीत्यादिर्हेत्वाभासत्वमिति । एवं समासतः समुदायेन हेत्वाभासत्वं निरूप्य तदभिधानानि पृथग लक्षणानि च निरूपयन्नाह Page #50 -------------------------------------------------------------------------- ________________ न्यायावतारः 00000000000000००००००००००००००००००००००००००००००००००००००cco०००००००००००००००००००००००0000000000 असिद्धस्त्वप्रतीतो यो, योऽन्यथैवोपपद्यते । विरुद्धो योऽन्यथाऽप्यत्र, युक्तोऽनैकान्तिकः स तु ।२३। अत्रानुमानप्रस्तावे हेत्वाभासप्रकरणे यः कोऽपिअप्रतीतः प्रत्यैषीति प्रतीतो, न तथा प्रतीतः केनापि प्रमाणेन न यस्यान्यथानुपपन्नत्वं निर्णीतम् । यद्वा-प्रत्ययनं प्रतीतिः, स्त्रियां क्तिविधानात् । सा विद्यतेऽस्य प्रतीतोऽभ्रादित्वादप्रत्ययः । न तथाऽप्रतीतः । अर्थस्तु प्राग्वदेव । अत्र यत्तदोर्नित्याभिसम्बन्धात्स इत्यध्याहार्यम् । असिद्धोऽसिद्धतया यः शिष्टैरभिमतो हेत्वाभासभेदः सोऽयमेव । तोरवधारणार्थत्वात् । तत्फलं तु न पक्षाऽसिद्धयादिकः, तस्य हेतुत्वेऽबाधात् । तथा यः कोऽपि अन्यथैव-साध्याभावे एव, अवधारणेन साध्यसहचारिणो व्यवच्छेदमाह । तस्यानेकान्तिकदोषदुष्टत्वात् । किमित्याह-उपपद्यते-प्रमाणेन घटमानो भवति । अत्रापि पूर्ववत्स इत्यध्याहार्यम् । स विरुद्धो विरुद्धाभिधानो हेत्वाभासः । तथैव यो हेतुरन्यथापि-साध्याभावेऽपि, अपिना साध्यवतीत्यस्यापि ग्रहणम् । अन्यथा विरुद्धत्वापातात् । तथा च साध्यवति तदभाववति च युक्तःप्रमाणेनोपपन्नो भवति-वर्तते इत्यर्थः । स प्रकृतलक्षणयुक्तः । तुरवधारणे । स चेममेवावधारयति । तथा च स एव, न तु सकलसपक्षविपक्षव्यावृत्तलक्षणासाधारणादृष्टान्तलक्षणानुपसंहारिलक्षणौ , तयोर्हेत्वाभासत्वाभावात् । अन्यथानुपपन्नत्वस्य निर्णयेऽनिर्णये च पूर्वेषामन्यतमेनावश्यं दुष्टत्वात्, सामान्य पक्षीकृत्य विशेषस्य दृष्टान्तत्वेनोपादानस्योभयमतसिद्धत्वाच । न च दृष्टान्तं व्युत्पन्नान व्युत्पाद्यानङ्गीकृत्य प्रतिपत्तरङ्गमपि व्याप्त्यग्रहणे तु स्पष्ट एवाऽसिद्ध इति हेत्वाभासस्तत्राङ्गतेति नार्थस्ताभ्यामिति समञ्जसमुक्त'-यत्साध्यतदभावववृत्तिरेवानेकान्तिकः। अत्र 'अमद्रमहमे'त्यादिर्गत्यर्थको दण्डकधातुस्तस्मात् ‘दम्यमितमी'त्यादिनौणादिके तेऽन्तो-धर्मः । एकोऽन्तोधर्मो यस्य स एकान्तः-साध्यान्यथानुपपन्नो, न तथाऽने कान्तः स Page #51 -------------------------------------------------------------------------- ________________ न्यायावतारः .००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००.200000. एवानेकान्तिकः स्वार्थि केकणि । इतिशब्दनिष्पत्तिरूया ॥२३॥ एवमनुमानाङ्गे हेतौ दूषणान्यभिधाय साम्प्रतं मन्दमतीन व्युत्पादयितु प्रयुक्तयोष्टान्तयोः विध्यं यत्साधर्म्य-वैधर्म्यभेदेनाग्नातं पूर्व, तत्र तावत साधर्म्य दृष्टान्तस्य अनायासबोध्यस्य दूषणानि, दृष्ट्वान्ताऽऽभासो यैर्भवति तानाह साधयेणाऽत्र दृष्टान्ते दोषा न्यायविदीरिताः । अपलक्षणहेतूत्थाः, साध्यादिविकलादयः ॥२४॥ तत्र समानो धर्मो यस्य स सधर्मा, 'द्विपदाद्धर्मादन्' [७३।१४१] इत्यनि, सधर्मणो भावः साधर्म्य-पक्षीकृत इव साध्यसाधनोभयवत्त्वं सपक्ष इति यावत्, तेन । करणे 'यद्भदै'रिति वा तृतीया। अत्रानुमानोपयोगिदृष्टान्तदूषणनिरूपणे । यद्वाऽत्र-प्रतिपाद्यतया मनोधृते प्रत्यक्षे, कत्याह--‘दृष्टान्ते' । अन्तो-निश्चयः साध्यान्यथानुपपन्नत्वलक्षणः, स दृशो--निर्णीतो यस्मिन्निति दृष्टान्तः-साधनस्य साध्येनान्वयव्यतिरेकप्रतिपत्तिस्थानम् । अत्र साधर्म्यणाधिकार इति, अन्वयप्रतिपत्तेः स्थानं ग्राह्य, तस्यैव साधर्म्यदृष्टान्तत्वात्। 'दोषाः' दूषयन्ति प्रतिपिपादयिषितमर्थं हेतु वेति दोषा-दृष्टान्ताभासत्वप्रयोजकाः । न चैते कल्पिताः स्वधिया, येन वितथताशङ्कास्पदं भवेयुः । किन्तु पूर्वप्राज्ञपुरुषेरिता इत्याह-'न्यायविदीरिता' इति । तत्र प्रमाणप्रमेयनयतबाधकफलप्रमातृव्यवस्थादेनिश्चितोऽवबोधो न्यायः, नितरामीयतेऽवच्छिद्यतेऽर्थोऽनेनेति भावाकोरिति [५३।१८] घना रूपनिष्पत्तेरर्थयथार्थत्वनिर्णयसाधनानि च पूर्वोक्तान्येवेति तत्समुदायस्यैवेयं सञ्ज्ञा, या चान्वीक्षिकीत्युच्यते, तं विदन्ते-विदन्ति विचारयन्ति जानन्ति वेति किपि न्यायविदः, तैरीरिताः प्रतिपादिताः । साधर्मदृष्टान्ते दोषोद्भवकारणव्याचिख्यासयाह-‘अफ्लक्षणहेतूत्था' इति । Page #52 -------------------------------------------------------------------------- ________________ न्यायावतारः 900000000000000833030000000000000000000000000000000019 ३४ अपगतं लक्षणं पूर्वोक्तं यस्मात् सोऽपलक्षणोऽसिद्धत्वादिदोषदुष्टः, सचासौ हेतुश्चापलक्षणहेतुः । उत्थानमुत्या 'भिदामङिति अङ । अपलक्षणहेतोरुत्थोद्भवो येषां तेऽपलक्षणहेतुत्थाः । नहि साध्यसाधके सद्ध तौ भवन्ति साधर्म्य दृष्टान्तदूषणानि । यद्वाऽपलक्षणस्य- दुव्यातेर्हेतुरपलक्षणहेतु:, स उत्थीयतेऽनयेत्युत्थोद्भवकारणं विद्यते येषां तेपलक्षणहेतुत्थाः । न हि सम्यगवधारितायां व्याप्तौ भवन्ति दृष्टान्ते दूषणानि, साध्यसाधनोभयास्पदस्य दृष्टान्ततयोपादानात्वात् । न सम्यग्व्याप्तिनिर्णयवतो मोमुह्यते मतिः कदाचनापि, साधर्म्य - दृष्टान्तप्रयोगे व्याप्तिनिर्णयकाल एवं साधर्म्य वैधर्म्यन्तानां क्रोडी करणान् । अन्यथा न प्रतिपन्ना स्यात् सम्यक्तया व्याप्तिरंव, तदन्तरेणाऽन्यथानुपपत्तितथोपपत्त्योरन्यतरस्यापि निर्णयाभावात् । दुष्टदृष्टान्तोपादानाच्च निर्णीयते निर्णयविदा यत्-नानेन व्याप्तिवबुद्धा सम्यक्तयेति सुष्ठुक्तमपलक्षण हेतूत्थाः । अथ के ते दृष्टान्ताऽऽभासा: ? इत्याह- 'साध्यादिविकलादय' इति । सिषाधयिषितं साध्यं साध्यते प्रतिपित्सुभिरिति भावे 'ऋवर्णव्यञ्जनान्तात' [५२|१|१७] इति घ्यण् प्रत्ययः । पूर्वोक्तलक्षणं तदादिर्येषां ते साध्यादयः, आदिशब्देन साधनतदुभयान्वयग्रहणं, तैर्विकलो-रहितः, स श्रादियेषां ते विकलादयः, आदिशब्देन सन्देहाभावादिग्रहः । इदमत्र तत्त्वं साधर्म्येण दृष्टान्ताऽऽभासा व्याप्त्यनवधारणमूला भवन्ति । ते च नवधा साध्यविकलः साधनविकल उभयविकलः सन्दिग्धसाध्यधर्मा सन्दिग्धसाधनधर्मा सन्दिग्धोभयधर्माऽनन्वयोऽप्रदर्शितान्त्रयो विपरीतास्त्रयश्च ेति । साध्यधर्मविकलो यथाऽपौरुषेयः शब्दोऽमूर्त्तत्वात् दुःखवदित्यत्र शब्दे (दुःखे) नापौरुषेयतेति साध्यविकलता। एवं परमाणौ नाव्यमूर्त्तत्वमिति तस्मिन् दृष्टान्तीकृते साधनविकलता । घटे त्वपौरुषेयत्वा मूर्त्तत्वयोरेकमपि नेत्युभयविकलता | रागादिमानयं वक्तृत्वान्मैत्रवदित्यत्र मैत्रे रागादिमत्त्वलक्षणसाध्यस्य सन्देह इति सन्दिग्धसाध्यधर्मा । Page #53 -------------------------------------------------------------------------- ________________ न्यायावतारः ..००००००००००००००००००००००००००००००००ccccc000000000०००००००००००००००००००००००००००००००००००००००० रागादिमत्त्वेन मरणधर्मवे साध्ये साधनस्य रागादिमत्त्वस्य मैत्रे संदेहात् संदिग्धसाधनधर्मता । नायं सर्वज्ञो रागादिमत्त्वात् मुनिविशेषदित्यत्र मुनिविशेषे सर्वज्ञत्वरागादिमत्त्वरूपसाध्यसाधनयोरुभयोरपि सन्देह इत्युभयसन्दिग्धधर्मा । इष्टपुरुषे दृष्टान्तीकृते व्याप्त्यभावादनन्वयः । व्याप्त्यप्रदर्शनेऽप्रदर्शितान्वयः । विपर्यासेन व्याप्तिदर्शने यथोपरि यो योऽसर्वज्ञः स स रागादिमानिति विपरीतान्वयः । अत्र दृष्टान्तस्यानुमानाङ्गत्वाभावेऽपि तत्त्वतः विपरीतदृष्टान्तेन नानेन व्याप्तिः मुष्ठ गृहीतेति बोधोत्पत्तेः, परेषां च मिथ्याबोधोत्पादान्मन्दानां श्रोतृणां स्पष्टैव दुष्टता । अनन्वयाऽप्रदर्शितान्वययोस्तु व्याप्तिमन्तरेण दृष्टान्तप्रयोगस्यानर्थक्यादेव दुष्टतेति ॥२४॥ एवं अन्वयव्याप्त्यास्पदीभूतसाधर्म्यदृष्टान्तदोषानभिधाय व्यतिरेकव्याप्त्यास्पदीभूतवैधर्म्यदृष्टान्तदोषान विभणिषुराह भट्टारकः वैधयेणाऽत्र दृष्टान्ते, दोषा न्यायविदीरिताः । साध्यसाधनयुग्माना-मनिवृत्तेश्च संशयात् ॥२५।। तत्र विरुद्धो धर्मो येषां ते विधर्माणः। पूर्ववदन्प्रत्ययः। विरुद्धताच साव्यनिवृत्त्या साधननिवर्त्तनं, यतोऽत्र पक्षीकृते हि पर्वतादौ वह्नयादेःसाध्यस्य धूमादेः साधनस्य च सत्ता साधनीया ।ह दादौ च नोभयं वरिव]व कुतस्तरामन्वयः ? इति, तस्य भावोवै धय, तेन,। शेषं पूर्ववत् । दृष्टान्ते दोषा न्यायविदीरिता इति । के ते ? कथं वा भवन्ति ? ज्ञेया वेत्याह-'साध्ये'त्यादि । साध्यं-साधयितुमभिप्रेतं वह्नयादि, साधन-साध्यतेऽनेन साध्यमिति 'रम्यादिभ्यः' [५। ३ । १२६ ] इत्यने ।। यद्वा साधयति-ज्ञापयति साध्यं यत्तत्साधनं 'नन्द्यादिभ्यः' ।५।१ । ५२] इत्यनो 'नन्दि-वाशि-मदि-दूषि-साधि Page #54 -------------------------------------------------------------------------- ________________ ३६ न्यायावतारः B0000000000Daaaaa000000000000000000000000000000000000०००.००300000000000066000003..dd0440 वर्धिशोभि-रोचेणे-रितिपाठात् कर्त्तर्यनः । नामैवेदमिति । साधनधूमादि । युग्मं च प्रकरणात् साध्यसाधनयोरेव । तथा च साध्यसाधनो. भयरूपं युग्मम्, पश्चात् साध्यं च साधनं च युग्मं चेतिद्वन्द्वस्तेषां, अनिवृत्तेः-निवर्त्तनं निवृत्तिावर्त्तनमित्यर्थः, तस्या अभावात् वैधर्म्यदृष्टान्ते दोषा इत्यनुसन्धेयम्।वैधर्म्यदृष्टान्ते न साध्येन न च साधनेन नापि च तदुभयेन भाव्यम्। आये, साध्यव्यतिरेकाभावेन साधनाभाववत्त्वेऽपि अन्यथानुपपन्नत्वानवगाहनात् । द्वितीये, हेतोरनेकान्तिकताऽऽपत्तिः, साध्याभावेपि हेतुसद्भावात्। अन्त्ये तु वैधयंत्रमेव न,तस्य साध्यसाधनोभयाऽऽस्पदत्वेन साधर्म्यदृष्टान्तताहत्वात् । न केवलमनिवृत्तेरेव साध्यसाधनयुग्मानां वैधर्म्यदृष्टान्ताभासत्वं, किन्त्वन्यथापि । कथं ? चेदाहतत् संशयात् प्रागुक्तानां साध्यसाधनयुग्मानां संशयात । तत्र त्रिष्वप्यन्यथानुपपत्तिनिर्णयाभावात् । चोप्यर्थे । स च समुचये। तथा च संशयादपि, न केवलमनिवृत्तेः केवलाया इत्यर्थः । यद्वा-चकारोऽनुक्तानामव्यतिरेकादीनां सूचनाय । तथा च नवथैव वैधhणापि दृष्टान्ताऽऽभासाःतद्यथा-असिद्धसाध्यव्यतिरेक: असिद्धसाधनव्यतिरेकः असिद्धोभयन्यतिरेकः सन्दिग्धसाध्यव्यतिरेकः सन्दिग्धसाधनव्यतिरेकः सन्दिग्धोभयव्यतिरेकोऽव्यतिरेकोऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश्चेति । तत्र भ्रान्तमनुमानं प्रमाणत्वात , यनवं तन्नै यथा स्वप्नज्ञानमित्यत्र स्वप्रज्ञानाद् भ्रान्तत्वलक्षणसाध्यस्य निवृत्ति त्यसिद्धः साध्यस्य व्यतिरेकः । निर्विकल्पकं प्रत्यक्षं प्रमाणत्वात, यत् सविकल्पकं न तत् प्रमाणं लैङ्गिकमिवेत्यत्र च लैङगिकात् प्रमाणत्वलक्षणसाधनस्याऽनिवृत्तिः । नित्यानित्यः शब्दः सत्त्वात्, यो न नित्यानित्यः स न सन् , यथा स्तम्भोऽत्र स्तंम्भान्न नित्यानित्यत्वं व्यावृत्त न च सत्त्वं, तथा चोभयव्यतिरेकः । असर्वज्ञः कपिलोऽक्षणिकैकान्तवादित्वात् ,यस्तु सर्वज्ञः स नाक्षणिकैकान्तवादी, यथा तथागतोऽत्र तथागतादसर्वज्ञत्वनिवृत्त : संशय इति सन्दिग्धसाध्य Page #55 -------------------------------------------------------------------------- ________________ न्यायावतारः 1000000000000000000000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००० व्यतिरेकः । अनादेयवचनोऽयं रागादिमत्त्वात, यस्त्वादेयवचनः स न रागादिमान् यथा सुगतोऽत्र सुगताद्रागादिमत्त्वनिवृत्त : संशयात्स. न्दिग्धसाधनव्यतिरेकः । न आप्तः कपिलः करुणाधामनि करुणया निजकललानर्पणात, यस्तु आप्तः स तुन तथा यथालोकजित् । अत्र लोकजितोऽनाप्ततायाः करुणया कललानर्पणायाश्च निवृत्तौ संशयान सन्दिग्धोभयव्यतिरेकः । न वीतरागोऽयं वक्तत्वात्, यो नैवं सनैवं यथा स्तम्भ इत्यव्यतिरेकः । अनित्यः शब्दः कृतकत्वात् यथाऽऽकाशमित्यप्रदर्शितव्यतिरेको । यतो नाऽत्र व्यतिरेकः प्रदर्शितः । तथा तत्रैव यत् कृतकं तदनित्यमिति विपरीतव्यतिरंक इयं साधर्म्यदृष्टान्तोपयोगिनी व्याप्तिरितिकृत्वा । अव्यतिरेके हि ग्रावावयवे जडत्वान्नान्यथानुपपन्नत्वनिर्णयः । अप्रदर्शितव्यतिरेकस्तु साधर्म्यदृष्टान्तभ्रान्तिकृत् । विपरीतव्यतिरेकश्च स्पष्ट एवान्वयव्याप्तितया साधर्म्यदृष्टान्तोपयोगीति प्रयोक्तुरज्ञानमेव ज्ञापयेदिति । अत्रानन्वयाप्रद. शितान्वयौ साधर्म्यदृष्टान्तेऽव्यतिरेकाऽप्रदर्शितव्यतिरेको च वैधर्म्यदृष्टान्ते न दूषणतयाऽभिमतौ कश्चित्, दृष्टान्तस्यावश्यकत्वाभावात् । एवं पक्षहेतुदृष्टान्तदोपानभिधाय साम्प्रतं वादस्थलोपयोगिनौ दूषणतदाभासौ निरूपयन्नाह वाद्यक्त साधने प्रोक्त-दोषाणामुदभावनम् । दूषणं निरवद्य तु, दूषणाऽऽभासनामकम् ॥२६।। वादिनोक्ते वायु क्त, को धादी ? कथं वा वाद ? इति। तत्रार्थे विशेषमधिजिगांसुभिरेतैरेव पूज्यपादैः कृतं वादोपनिषद्वादिसर्वस्वाभिधानम् द्वात्रिंशिकाद्वितयमवलोकनीयम् । ग्रन्थान्तरं ह्यते इतिकृत्वा नावतारिते। अत्र स्याञ्च तदवतारे प्रस्तुतप्रकरणार्थस्य गौणतमता, तयोरतिभूयिष्ठतरार्थमर्भितत्वादिति । सक्षेपतस्तु Page #56 -------------------------------------------------------------------------- ________________ न्यायावतारः ०००००००००००००००००००००००००००८८००००००००००००००00000000०००००००००००ccccccOOOOOOOOOOOocce ३८ तावत् स्थानाऽशून्यार्थमुच्यते किञ्चिन् विरुद्धयोर्धर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततद्न्यधर्मव्यवस्थापनार्थं साधनदूषणवचनं वादः । वादिप्रतिवादि-सभ्य सभापतयश्चत्वारि अङ्गानि । प्रमाणत: स्वपक्षस्थापनप्रतिपक्ष प्रतिक्षेपौ वादिप्रतिवादिनोः कर्म । प्रतिभाक्षान्तिमाध्यरध्यैरुभयाभिमताः सभ्याः । अग्रवादनिर्देशतत्त्वप्रकाशनकथाफलकथनान्येषां कर्माणि । प्रज्ञाऽऽज्ञैश्वर्यमाध्यस्थ्ययुक्तः सभापतिः । कलहव्यपोहजयादि निर्देशादिकं चास्य कर्म । अत्र वादीति निर्देशेन तावज्जैनैरुद्धतीभूयोच्छुङ्खलव द्वादायावतरणीयं न, बादरणाङ्गणेऽवतीर्णे चास्मिन् यथायोगं यतितव्यमेवावश्यं विज्ञाय गुरुलाघवं द्रव्याद्यपेक्षया धर्मवादादाविति ज्ञापयति । धर्मवादादिलक्षणं चेद । शुष्कवादो विवादश्च धर्मवादस्तथा परः । इत्येष त्रिविधो वादः, कीर्तितः परमर्षिभिः ॥ १ ॥ अत्यन्तमानिना सार्द्ध करचित्तेन च दृढम् । धर्मद्विष्टेन मृढेन, शुष्कवादस्तपस्विनः ॥ २ ॥ 椰 लब्धिख्यात्यर्थिना तु स्याद् दुःस्थितेनाऽमहात्मना । छलजातिप्रधानो यः, स विवाद इति स्मृतः ॥ ३ ॥ परलोकप्रधानेन, मध्यस्थेन तु धीमता । स्वशास्त्रज्ञाततत्त्वेन, धर्मवाद उदाहृतः ॥ ४ ॥ पूर्वैरभियुक्ततरैरुक्तमेव । फलं चाप्येतेषां वादानां स्पष्टतर - मुक्तमेव नात्र प्रस्तूयते । किन्तु न तत्प्रस्तावमर्हति। वाद्य के क्वेत्याह'साधने' इति । साध्यते - प्रतिपाद्यते स्वाभिमतोऽनेनेति 'रम्यादिभ्यः' [ ५ । ३ । १२६] करणेने साधनं पक्ष हेतुदृष्टान्तादि, तस्मिन् वादिना स्वाभिमतधर्मव्यवस्थापनायेत्तर धर्मव्यवच्छेदाय वा प्रयुक्त पक्षादौ । यद्वा-अकारप्रश्लेषादसाधनेऽध्यक्ष लिङ्ग लोकस्ववचन Page #57 -------------------------------------------------------------------------- ________________ न्यायावतारः 0330000000000000000000000000000000000000000000000000000००००००००००००००००००००००००००००००० बाधितपक्षासिद्धविरुद्धानेकान्तिकदोषबाधितहेतुसाध्यविकलाद्यसिद्ध - साध्यव्यतिरेकादिबाधितदृष्टान्तत्वेन कुत्सितेऽनुमाने, नत्रः कुत्सार्थत्वात् । तत्र किमित्याह-प्रोक्तदोषाणामुदभावन' मिति । तत्र प्रकर्षण यथार्थतयोक्ता ये पक्षाभासाद्या विपरीतव्यतिरेकावसानास्तेषामुद्ऊर्ध्वम्, नह्यसमापिते पक्षेवादिनां प्रोक्त प्राञ्जलं प्राजलस्य प्रतिवादिन इति ज्ञापनाय । नायमुपसर्गस्तस्य धातुनैव योगे तथासङ्घत्वात्। अभावनमप्रकाशनं यत्तत दूषणं दोष एव प्रतिवादिन इतिशेषः । अयं हि न्यायोपनिषद्व दिनां नियमो, यदुत-वादिनोक्त साधनं चेद्द ष्टम, न च प्रतिवादिना तद्विभावितं-ज्ञातमपि, तदा प्रतिवादी निग्रहस्थानापन्न इत्यु ष्यावसाद्यते कथा यतो नानेन चेद्वादिपक्ष - दूषणमध्यवबुद्धमवबुद्धं बान सम्यक्तया प्रतिपादित कथङ्कारं विधातासौ तत्खण्डनं स्वाभिमतसमर्थनं वेति । तदुक्तमाक्षपादीये निग्रहस्थानप्राप्तस्यानिग्रह' इति पर्यनुयोज्योपेक्षणाभिधानमिदं निग्रहस्थानमापद्यते प्रतिवादी नानुयोजयति चेद्वादिनं दुष्टसाधनं प्रयुञ्जानम् । न चाऽऽरेक्यं नेदं दुष्टसाधनं निग्रहस्थानमिति । यतोऽवाचि निग्रहस्थानमन्त्यं हेत्वाभासाश्च यथोक्ता इति । न च केवलानां हेत्वाभासानां दोषतयाऽऽख्यानं, किन्त्वन्येषामपि प्रत्यक्षविरुद्धसाध्यादीनां सम्भवे भवन्त्येव पर्यन्ते प्रतिज्ञाविरोधहानि-सन्न्यासतदन्तरादीनि निग्रहस्थानानीति सुष्ठुक्त-वाद्युक्तेऽसाधने साधने वा विद्यमानानां दोषाणामनाविष्करणं प्रतिवादिनो दूषणमेव । एवं दृषणस्यानुद्भावने दोषमुदीर्यान्यथापि दोषसम्भवमाह-निरवद्य त्वि'त्यादिना । तत्र नोद्यते-न वा वदितुमर्हमित्यवद्यं 'वोपसर्याऽवद्यपण्यमुपेयतु मती गह्य विक्रेये [५ । १ । ३२] इति ध्यणि वृद्धयभावे रूपनिष्पत्तिः । निर्गतमवद्याद्-गानिर्दूषणत्वानिरवद्य तस्मिन्निति । साधन इति गम्यमत्रापि । तुः साधनविशिष्ठतादर्शनपूर्वकं दूषणस्य दूषणाऽऽभासत्वसूचनाय, विशेषणार्थत्वात् तस्य । तथा च बाधादि Page #58 -------------------------------------------------------------------------- ________________ न्यायावतारः .0000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००00.000000. रहिते साधने पक्षादौ दूषणं-बाधादिसद्भावोगिरणं यत्प्रतिवादिना क्रियते तत् किमित्याह-'दूषणाऽऽभासनामक' इति । तत्र दूष्यतेऽनेन पक्षादिर्वादीवेति दूषणम् । 'रम्यादिभ्यो०' अने बाधादिस्तत्प्रकाशनं वा तद्वदाभासते इति दूषणाऽऽभासः । 'कर्मणोऽण' इत्यणि । स नामाभिधानं यस्यासदोषप्रकाशनस्य तद्द षणाऽऽभासनामकम् । शेषाद्वा [७३ ।१७५ ] इतिकच् । अत्रेदमवधेयं, यथाहि-वाद्युक्त कुत्सिते साधने विद्यमानानां दोषाणामनुद्भावने प्रतिवादिनो मातृशासिततां गमयति । प्राप्नोति चासौ तेनैव पूर्वोक्तवद् निग्रहस्थानं,एवमेव वादिना निरवद्य साधने प्रतिपादिते यदलीकमु ष्यते दूषणं,तदपि प्रतिवादिनो वादानहतां ज्ञापयित्वा तं निग्रहस्थानीकरोत्येव । यतोऽसौ सम्भाव्यतेऽनुमानस्वरूपावगमायापि नालं, किमुत तस्य निराकरणायेति । यद्वावृत्तिकारकोऽयंजडशेखरः केनचिदध्यापितस्य, कथमन्यथैवंविधे समीचि साधने दूषणोद्घोषणं स्वस्यैव निग्रहस्थानापादुकमाभाषेतेति । तदुक्त गौतमीये-'अनिग्रहस्थाने निग्रहस्थानाभियोग' इति निरनुयोज्यानुयोग इति । सम्यगुदितं दिवाकरपादैर्यदुत-निरवद्ये तु दूषणाऽऽभासनामकमेव तद्दषणमिति । कचित्प्रत्यन्तरे द्वितीयः पाद एवं दरीदृश्यते'यत दोषाणामुद्विभावन'मिति । अत्र च यदि केनापि पण्डितमन्ये. नोदभावनमित्यस्यागतिकत्वमाकलय्येदं लिपीकृतम् भवेदितिसंभाव्यते तदापपाठ एवायं । यदि चादेशान्तरमिदं स्यात्तदा तु व्याख्यैवं कार्या-पक्षादिदूषणानि प्रतिपादितान्यथ च तानि वादस्थले योजयस्तस्य सत्येतरतया विभागमाह-'बादी'त्यादि । तत्र वाद्यक्त ऽसाधने प्रोक्तदोषाणां बाधादीनामुद्विभावनं उत्-प्राबल्येन यथा बाधादिसम्पन्नं तथैव सम्यगनूद्य विभावनं-प्रकटीकरणमुद्घोषणमिति यावत्। तदेव वाद्यपेक्षया पक्षादिदूषकत्वाद्द षणं दोष इति कथ्यते । परं प्रतिवादी चेत्प्रतिपत्तिशून्यो निर वद्य साधने याद् बाधादिकं दोषजालमसन्त नेतावता बादिपक्षः पराभूतो भवेकिन्तु तत्प्रतिवाद्य - Page #59 -------------------------------------------------------------------------- ________________ न्यायावतारः ४१ ००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० दीरितं वच एव दूषणाऽऽभासतया दूवणमिति ज्ञायते वादरणांगणगणकैः । अन्यथापि भावनीयमेतन्नात्राग्रह आगमानुसारिणामिति । एवं च प्रत्यक्षपरोक्षप्रमाणं सप्रपञ्चं पक्षादिस्वरूपं च सबाधं निरूप्य प्रमाणस्य फलम् निरूपयितुकामाः सूरिपादाः फलमाश्रित्य केवलस्याऽऽलोकितलोकालोकस्य भिन्नरूपत्वात्तत्स्वरूपमेवादो प्ररूपयन्त आहुः सकलावरणमुक्तात्म, केवलं यत्प्रकाशते । प्रत्यक्षं सकलार्थात्म सततप्रतिभासनम् ॥२७॥ तत्र सकलानि-समस्तानि, आवरणानि-आब्रियन्ते ज्ञानान्येभिरित्यावरणानि ज्ञानावरण-दर्शनावरण-मोहान्तरायाणि, घातित्वादेषाम् । यद्वा-ज्ञानस्याधिकृतत्वाज्ञानावरणीयान्येव, तैमुक्तो-रहितः, आत्मा-स्वरूपं यस्य तत् सकलावरणमुक्तात्म। अत्र चावधेयमिदंयत् केवलावरणेनावृतस्य जीवसूर्यस्य या प्रभा तच्छामस्थिकं ज्ञानम् । यतो न तत् कदापि निरावरणमुपलभ्यते, पूर्वोक्तयुक्तः । अथ तत्रापि मतिज्ञानावरणादि कटादिवदावृणोत्येव ज्ञानमात्राम् । न च वाच्यं यन्नावृतं केवलालोकावरणेन तत् कथमिवावरीतुं शक्नुयान्मतिज्ञानावरणादि छाद्मस्थिकम् ज्ञानमिति । प्रबलतमपयोधरपटलेना. प्यप्रतिहतस्य तेजोभरस्य कटादिनावरणस्योपलब्धेः । तत्रापि तिष्ठत्येवानावृतं प्रदेशाष्टकं जीवस्वाभाव्याद् अन्यथा न स्याच्चेतनानामापि। न चैवं कर्मानुभवोऽपि । न च तदनुभवाभावे स्यात् कर्मविशरारुता। तथा चोपलभ्यमानायाःशुद्धेरप्यनुपलम्भ इत्यवश्यमनावृतापि काचिन्मात्रा स्वीकार्या सुधीभिः । अथ कटादीनां छिद्रेण यथाऽऽगच्छति तेज आवृतस्यापि पयोमुक्पटलप्रचयेनार्कस्य, तथा मतिज्ञानावरणादीनां क्षयेण य इन्द्रियाऽनिन्द्रियायुद्भवो बोधः स ततत्क्षयोप Page #60 -------------------------------------------------------------------------- ________________ व्यायावतारः 000000000000000000............................00000000000000000000000000000000000000000000000000000000 ४२ रामोत्थत्वेन तत्तन्नाम्ना व्यपदेशमाप्नोति । यथा मतिज्ञानं श्रुतज्ञानमित्यादि । श्रत एव च मतिज्ञानादयः क्षायोपशमिका भावा भण्यन्ते । छानस्थिकं च पठ्यते तच्चतुष्टयमपि ज्ञानानाम् । यतो न तद्नावृतम्। परं यदा केवलज्ञानं सकलार्थस्वरूपज्ञापनसमर्थं प्रादुर्भवति तदावश्यं मत्याद्यात्ररणानां केवलावरणस्य च क्षयः । न चेदं केवलावरणमंशतोऽपगच्छति, किन्तु सत्यां देशादिसामग्-यां सर्वथा तत्क्षयो भवतीति । अत एव नैतत्क्षायोपशमिकं, किन्तु क्षायिकमेव समूलकाषंकषितत्वात् मतिश्रुतावधिमन:पर्ययावरणानां केवलावरणस्य च । भवति च केवलज्ञानावरणीया दिक्षयस्य समकालमेव केवलदर्शनावरणीयान्तरायादेः क्षयोऽपि श्रमूलचूलम् । दर्शनमोह - कषायनोकषायमोहृत्क्षयस्त्वर्वागेव । 'केवलियनाणलंभो नन्नत्थ खए कसायाणं 'ति वचनात् । तथा च अशेषज्ञानावरणादिक्षयप्रभावाऽवाप्ताऽशेष पदार्थसार्थ साक्षात्कार केवला लोकशालिनां न किञ्चिदप्यन्तरायादि लेशतोऽपि भवतीति युक्तमुक्त विशेषणं यत् सकलावरणमुक्तात्मे 'ति । ईदृशं किमित्याहकेवलमिति । अत्र पदैकदेशे पदसमुदायोपचारात् केवलमितिपदेनकेवलज्ञानम् ग्राह्यम् । तत्र केवलमेकं मत्यादिनिरपेक्षम्। यथाहि मदिपूर्व श्रुतमितिवचनाच्छ तज्ञानस्य मतिसापेक्षता, अवधौ च मैवेयकाद्यमरैः स्वालयस्थैः पृष्टपुरुषोत्तमप्रष्ठो यानि मनोद्रव्याणि परिणमयति तान्यवेक्ष्यानुमानादभिधेयमवबुध्यतां सुरवराणां मत्यपेक्षा, मनः पर्यायेऽपि च तद्वतामपरचिन्तित बाह्यार्थज्ञानेऽनुमानापेक्षा, नैव तथाऽत्रेत्यस्य यथार्थैव मत्यादिनिरपेक्षता । केवलं वा शुद्धम् । यथाहिमत्यादिज्ञानानि सावरणस्यापि जीवस्य प्रादुर्भवन्ति, नवेद तथेति क्षायिकमेवेदम् । तानि च क्षायोपशमिकान्येवेति । केवलं सकलम् | यथाहि मतिश्र ते आदेशेन सर्वद्रव्याऽसर्वपर्यायविषये, अवधिज्ञानं रूपिविषयं, मनःपर्यायं तु मनोमात्रविषयमिति तानि 'परिमितविष Page #61 -------------------------------------------------------------------------- ________________ न्यायावतारः ४३ .००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० याणि, न सकलार्थगोचराणि । इदं तु भूतभवद्भविष्यद्रप्यरूपिसकलार्थविषयमिति । अथवा-यथा मत्यादीनि न प्रथमतः सम्पूर्णान्युत्पद्यन्ते, किन्तु यथा कथञ्चिदुत्पद्य पश्चाद्वृद्धिमत्राप्नुवन्ति । नैवमिदं, किन्तु ततप्रथमतयेवोत्पन्नमात्रं सकलानर्थान् साक्षाकरोति । ततः सकलमेवेदम् । असाधारणं वा केवलम् । यथाहि-मतिज्ञानादीनि यदा यदा तदुपयुक्त आत्मा भवति, तदा तदा स्वविषयान् प्रकाशयन्ति । केवलं तु आरभ्य उत्पत्तेःसर्वकालं स्वविषयाणां साक्षात्कारं कारयत्येवानुसमयं तद्वत इत्यसाधारणता । यद्वा-अनन्तं केवलं। यतःसान्तान्येव मतिश्रुतावधिमनःपर्यायाणि, केषाञ्चित्प्रतिपातसम्भवात् स्वतः, केषाचित् केवलोपलम्भे विगमात् । केवलं तु न कदाचित्प्रतिपतति । न च वाच्यं सिद्धत्वावाप्तावन्यदेव ज्ञानं, आत्मस्वभावरूपस्यैव केवलत्वात्तदेव च प्रथमत आविभूतमिति न तस्य सान्तत्वम् । यद्वा-अनन्तपदार्थविषयत्वादनन्तम् । अनन्तमिति हि सङ्ख्या तेन नावगमविरोधः, ज्ञानमपि चेदं तथाभूतमेव तेनानन्तत्वेन न ज्ञानाविषयत्वमपि तस्य। यद्यप्यवध्यादिष्वप्यस्त्येवानन्तपदार्थविषयता. तथापि सा रूपि - मर्यादयाऽनन्तसङ्ख्याके पुद्गलवज्जीवाकाशे अपि स्त एव । न चैते अवलोकयत्यवध्यादिमान अरूपित्वादेतयोस्तदिदमेवानन्तसङख्यावद्यावत्पदार्थगोचरम् । केवलं च तज्ज्ञानम् च केवलज्ञानतत् 'यदिति । यत्किमपि सदसरसामान्यविशेष-नित्यानित्यवाच्यादिरूपमर्थजातं प्रकाशते-उपलभते । यद्यप्यात्मैवोपलब्धा, ज्ञानं तु साधनमुपलम्भस्य, तथाप्यभिन्नत्वात् कथञ्चिद् गुणगुणिनोरेवं व्यपदेशः । यद्वाऽस्त्येव ज्ञानस्याप्युपलम्भकता। न भवेदन्यथा स्वान्यावभासकताऽस्येति। तत् कीदृशमित्याह-'प्रत्यक्ष मिति । अक्षो हि जीवः पूर्वव्युत्पादितरीत्या, तं प्रति गतं प्रत्यक्षमितिविग्रहाज्जीवमात्रापेक्षं, नान्यज्ञानवदिन्द्रियानिन्द्रियादिव्यपेक्षाऽत्रोपयोगापेक्षापि चेति । वत किंविधं प्रत्यक्षं ? यतः प्रागधारिते द्वे प्रत्यक्षे पारमार्थिक Page #62 -------------------------------------------------------------------------- ________________ ४४ 00000000 6000000000000000000000000000000000000000000000000000 00000000000000000000000 न्यायावतारः प्रत्यक्षभेदभूते सकलं विकलं चेति चेत् । सकलमिदमित्यभिप्रेत्याह'सकलार्थात्म सततप्रतिभासन' मिति । सकला - अशेषाः, न कोपि पदार्थ एवंविधोऽस्ति अभूत् भविष्यति वा यो न प्रतिभातः सकलप्रत्यक्षरूपे केवले । तदुक्तं - 'तं नत्थि जं न पासइ भूयं भव्यं भविस्सं च'त्ति । ताशा येऽर्था अन्ते-गम्यन्ते 'ऋ गतावित्यस्मात् 'क्रमिप्रगीत्तिभ्यस्थ' इति थेऽर्था: - धर्माधर्माकाशपुद्गलजीवास्तेषामात्मा-स्वभावो गुणपर्यायादि, नास्ति व्यतिरिच्य गुणपर्यायानन्यो द्रव्यस्वभावः, तयो - रन्योन्यमेव रूपतया मीलितत्वात् । यदाह 'दव्वं पज्जव विजुअं, दव्वविजुआ य पज्जत्रा नत्थि'त्ति श्री पूज्य - वचनात् । अन्यत्रापि - 'द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः । क कदा केनचिद्दष्टा द्रष्ट्रा मानेन केनचित् ॥ १॥ अत एवोक्तं पूज्यपादैः- उप्पायठिइभंगाई हंदि दविणलक्खणमेयं । यद्वा अर्थाश् चात्मानश्च स्वभात्रा अर्थात्मानः, सकलाचतेर्थात्मानश्च सकलार्थात्मानोऽत्र द्रव्यशब्देन गुणक्रियाश्रयग्रहणम्, आत्मशब्देन च तत्स्वभावभूतानां पर्यायादीनां ग्रहणम् । द्वन्द्वादौ द्वन्द्वान्ते 'च श्रयमाणं पदं प्रत्येकमभिसम्बध्यते' इति उभयत्र सकलपदान्वयाच्च सर्वद्रव्यसर्वपर्यायसमावेशः । न च गुणानामग्रहणान्न्यूनत्वम् । गुणा अपि पर्याया एव । यतः पर्यायशब्देन परिणामग्रहणात् । परिणामश्च 'तद्भावः परिणाम' इतिलक्षणः । भवति च गुणानामपि द्रव्ये भावता । अत एव च द्रव्यार्थिक पर्यायार्थिकेतिनयद्वयमेत्र, न तु गुणार्थिक इति तृतीयोऽपि । ननु यदि न गुणाः पर्यायेभ्यः पृथक्किमिति 'गुणपर्यायवदित्यत्र पृथग्गुणग्रहणमिति चेत् ? सत्यम्, तत्र हि गोबलीवईन्यायेन गुणानां प्राधान्यख्यापनार्थं पार्थक्यम् । प्राधान्यं च तेषां ज्ञानदर्शनादिवत् सहभावित्वेन क्रमभाविभ्यो देवत्वनरत्यादिपर्यायेभ्यः Page #63 -------------------------------------------------------------------------- ________________ न्यायावतारः B00000000000000000000000000०००००००००००००००००००००००००००0000000000000000000००००००००००००००० स्पष्टमेवेति । न च वाच्यं यावत्पर्यायसाक्षात्कारः कथमिव सम्पद्यते ? अतीतानागतानां विनष्टानुत्पन्नत्वेन ग्रहणासम्भवात्तदग्रहणे च कर्थ स्याद् द्रव्यसाक्षात्कारोऽपि सर्वथा । यत: 'एगदपियंमि जे अत्थपज्जषा वयणपज्जवा वावि । तीयाणागयभूआ तावतिअंत हवइ दव्वं ति वचनात् । सर्वपर्यायरूपत्वाद् द्रव्यस्येति । ज्योतिषशास्त्रेण यथाऽस्पष्ट विज्ञायतेऽनुद्भतमपि चन्द्रोपरागादि प्रश्नादेशेनातीतमपि विचारादि, तथा केवल वेधसोभयोरपि साक्षात्कागत् अतीतस्यातीतत्वेनानागतस्यानागतत्वेनावगमाच न वितथता । भवति चैवमेव केवलज्ञानस्यापि सद्वाच्यनिबन्धमीभूतोत्पाद-व्यय-ध्रौव्ययुक्ततापि, वर्तमानपर्यायाणामतीतत्वभावात् प्रतिसमयमनागतानां च वर्त्तमानताभावात् ज्ञानस्य च ज्ञेयानन्यत्वात्तत्तद्रपेणोत्पादविनाशौ केवलेन रूपेण ध्रौव्यं चेति । नह्यस्ति तकिमपि द्रव्यं चराचरेऽपि लोके यन्नानेन पदार्थत्रयेण व्याप्तम् । ___ न च नास्त्येव सकलार्थविषयकं ज्ञानम् । यतो हि यत्प्रमाणपञ्चकातिक्रान्तं वाच्यं तदभावप्रमाणगोचरमेव । न चात्रास्ति प्रमाणेनो. पलब्धिः । प्रमाणाधीना च पदार्थव्यवस्थितिः । उपलभ्येत चेत् प्रमाणेन तत्सद्भावः, केन ? प्रत्यक्षेणेतरेण वा ? । न तावत्प्रत्यक्षेण, तस्येन्द्रियगोचररूपादिविषयत्वादेन्द्रियकस्य मानसस्य च केवलस्य स्वात्मगुणादि साक्षात्कारनियमात् । अन्यच्च तेनाध्यक्षमेव गृह्यते । न चेदमध्यक्ष, भवन्मतेनैव साम्प्रतं तदभावादिति । न च तद्भावकालेऽप्यवगम्येत तत्तज्ज्ञेयज्ञानशून्यैः गान्धिकवद्रत्नपरीक्षकता । तद्वत्त्वं च विवादास्प. दमेव । न चानुमानादिना तदितरेणाप्यवगम्यते । यतोऽनुमानं तावत् प्रत्यक्षपूर्वकं, लिङ्गलिङ्गिसम्बन्धग्रहणस्मरणपूर्वकत्वात्तस्य । न चावरणस्य देशतो हान्या सर्वहानेस्तारतम्यात्सर्वेपलम्भस्य च सिद्धिः, तथा सति चैतन्यस्यांशत आवरणोपलब्धेर्भवेदेव सर्वथावरणात् भवतामप्य Page #64 -------------------------------------------------------------------------- ________________ न्यायावतारः ००००००००००००००00000000000000000000०००००००००००००००००००००००००००००००००००००००००0000000000000 निष्टतमस्य चेतनाभावस्याप्यापत्ति वस्योत्पतनादौतारतम्ये च सत्यपि न परमः प्रकर्षो यावज्जीवमभ्यस्यतामप्युपलब्धस्तथा वाच्यतापि न सर्वज्ञत्वसाधिका, किन्तु पदार्थप्रचयपरिचयेन कल्पितैव सेति । नहि प्रत्यक्षा सर्वविषयवाच्यतापि स्वीक्रियते । किमिति चेदनुमानेन न चास्ति व्याप्तिस्तादशी यदनुमानकल्पितमपि कस्यचित् प्रत्यक्ष भवत्येव । न च ज्योतिषचिकित्सादिशास्त्रप्रणयनं तत्समर्थकं, मतभेदेन तस्य भेदोपलम्भात् । सर्वज्ञमतमपि भवेत्तथैव विरोधमधिरोहत् । न चागमेन साध्येत तत्सद्भावो, येन परस्परविरुद्धवाच्यव्याख्याका हि आगमाः, कथमिव यथातथं वस्तु प्रतिपादयेत् सर्वज्ञताख्यम् । अन्यच्चागमोऽपि सर्वज्ञतालङ्कृतोक्तत्वेन प्रमाणीक्रियेताऽन्यथा वा ? । आद्येऽन्योन्याश्रयः । सर्वज्ञतासिद्धावागमप्रामाण्यसिद्धस्तत्सिद्धौ च सर्वज्ञतासिद्धोरिति । अन्यप्रतिपादितस्य प्रामाण्ये तु न तदवितथम् । न चातज्ज्ञायकस्तत्प्ररूपक आप्तो भवेत्, न चानाप्तप्ररूपित विद्वद्भिराश्रीयते प्रमाणतया । उपमानं तु कथमिव भवेत् उपमानोपमेययोद्धयोः प्रत्यक्षेणैव तत्प्रामाण्याभ्युपगमात् । न चात्रोपमानभूत उपमेयभूतो वा वेविद्यते वा प्रत्यक्षं, येनोपमेयं सर्वज्ञतास्पदत्वेन गृह णीय यूयम् । अर्थापतिस्त्वर्थानुपपत्तिकल्पिता भवेत्, न चात्रास्ति कोऽपि तथावि. धोऽर्थो, यो न सर्वज्ञतामन्तरेण सम्भवी भवेत् । जीवधर्मपदार्थबोधस्वागमा दरूपादपौरुषेयादेवेति प्रमाणपञ्चकातिक्रान्तत्वादभावप्र - माणविषयमेवेदं सर्वज्ञत्वमितिवाच्यम् । यतो यत्तावदुक्तं प्रमाणपञ्चकातिक्रान्तत्वादभावविषयमिदमिति । तदेवासिद्धम् । यतो या प्रत्यक्षस्याप्रवृत्तिरेव तावद्भवद्भिरक्त , सा किं भवदीयप्रत्यक्षस्य केवलस्व किं वा यावत्प्रत्यक्षस्य ? । आये, न सोऽस्ति नियमो, यदुत-भवद्भिः सर्व प्रत्यक्षमीक्षणीयं प्रत्यक्षणीय, द्वीपान्तरादेः परमाण्वादेश्च प्रत्यक्ष मेवानीक्षणात् । अन्त्ये, भवानेव सर्वज्ञतास्पदं, अतीन्द्रियाणामनिन्द्रियाणामशेषाणां प्रत्यक्षाणामवगमात्। Page #65 -------------------------------------------------------------------------- ________________ न्यायावतारः 29 100000000000000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० नन्वेषं न किञ्चिदपि भवेदभावप्रमाण गोचरं चेन्मा भवतु तथाभूता. ऽसत्यवादनिबन्धनं, का नो हानिः । स्वज्ञानमपेक्ष्य वाभवतु । न च तेन परवस्तुप्रतिपेधो भवति । योग्यस्यानीक्षणे योग्यस्थले सत्यांयोग्यतायां हि स्यात्प्रतिषेधः । न चैवं भवतामिति प्रतिपादितमेव । न च नास्ति इन्द्रियानिन्द्रियप्रत्यक्षमन्तरेणान्यत्प्रत्यक्षमिति शम्यं वक्तुम् भवता, तत्प्रतिषेधकप्रमाणाभावात् । अतद्वानपि चावबुध्यत्येव तद्वन्तं, संशयाविर्भावनिराकरणादिनाऽचतुर्वेद्यपि जानात्येव चतुर्वे. दिनम् । गान्धिकोऽपि वेत्त्येव रत्नपरीक्षकान् येन केनचित् पृष्टः सन् साधयत्यसौ स्पष्ट याह्यमुकस्य रत्नपरीक्षकस्य पार्श्वे इति । न च संशयनिराकरणादिना नावबुध्यते सर्वज्ञतावत्त्वं, तस्यानिन्द्रियविषयतयातीन्द्रियवेदनवेद्यत्वात् । अन्यच्च रूपिपदार्थप्रकाशनपटुभिरप्यसो ज्ञायत एव तथाविधमनोवत्तादर्शनात् कर्मपरमाणुवर्गणायाः प्रतिबन्धिकाया अनुपलम्भाश्च । ऐन्द्रियकेनाप्यध्यक्षेणावगम्यत एव तत्सत्ता, प्रोक्तातीन्द्रियार्थसंवाददर्शनात् । वेत्त्येव च तद्वानेन्द्रियकमपि । अत एष 'आवीकम्मति पठ्यते । एवं श्रुतेनापि कथमिव न तत्सत्ता ज्ञायेत तत्काले । यतस्तत्रापि पदपङ्क्त्यादेः प्रकल्पितावबुद्धग्रथितावबोधितार्थस्य विप्रकृष्टस्य च संवादस्थलस्य सत्त्वमप्रतिपन्नं न । ततस्तदा परेणाप्याप्तवचनविश्वासरूपादागमादुपमानादिनाच वेत्त शक्यत एवेति न तदानीमनवबुद्धयत्ता सर्वज्ञत्वस्य । इदानीं तु ये तथाविधज्ञानवन्तस्तेषां प्रत्यक्षीकरणे कः प्रतिस्खलनपटुतामाप्नोति । अस्मदादीनां तु तथाविधज्ञानाऽभावात्तदप्रत्यक्षे न तदभावोऽन्यथा परमाणुप्रभृतीनां स्यादेवाभावः । स्यादेव च भवदीयात्मनोऽप्रत्यक्षत्वाद्भवतामेव जडत्वापादयित्री चैतन्यशून्यता । तथा चेकिं जडेन सह वार्ताप्रसङ्गेन।अनुमीयते चेदात्मेति । समानमेवैतद्भवदुक्तसर्वज्ञत्वानुमानेन तस्यापि कदाचिन्न यत् प्रत्यक्षं येन सम्बन्धग्रहणं स्यादित्यलं प्रसङ्गानुप्रसंङोनेति । Page #66 -------------------------------------------------------------------------- ________________ ००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० ४८.....००००००००० न्यायावतारः 'यच्चोक्त नानुमानं तद्ग्राहक तद्धि प्रत्यक्षपूर्वक'मित्यादि । तद्युक्तमुक्तमयुक्तं तूक्तम् । यत् कदा भवानभूद् ग्रहगृहीतो, यदपरं यथा तथा लपमानमवेक्ष्य वक्ष्यति-यदयं प्रथिल इति । जातस्तथाचेदलं वादेन। आप्तादवधारणे तु तल्लिङ्गस्य न तथ्यता, अहिलतायां स्वकृतभानानुपलम्भात् गृहीतत्वाभानाच' स्वस्थतायां तु कुतस्त्यं तद्भान स्यात् । अन्यैश्च महिलता नैवानुभूता । तत्रापि तथाप्रसङ्गात् । न च नेदमनुमानं व्यभिचारि वेति स्वीकार्य एव तथाविधः प्रज्ञापको, यः स्वयमग्रहिलो विवेदिवान् महिलतां तच्चिह्नानि च, येनाख्यातमाश्रित्य भवतानुमीयते इयं । अन्यच्च-अनुमाने लिङ्गज्ञानभ्य नियमो, न तत्प्रत्यक्षस्य । अन्यथाऽदृष्टसिंहस्य न स्यात्सिंहशब्दजन्या भीतिरेवं सर्पदंशादिश्वप्यनुसन्धेयं । लिङ्गज्ञानं चात्रास्त्येव सर्वज्ञतासाधने । यतः तदाचरणात्तदाचारात्तदाकृतेश्च ज्ञातस्यैवंभूतस्य परहितरतस्य परिहृतस्वजनादेर्देहनिर्ममस्य वाक्यं नाज्ञानपूर्वकम् । यो हि यत्र विषये हितरतादिविशेषणो न सोविदित्वा निरूपयति पदार्थज्ञानं चातीन्द्रियमेव । अनेवंविधेनातीन्द्रियार्थानां वेदनाभावात् । निरूपिताश्च जीवादयोधर्मादयोमोक्षादयश्च । यच्चोक्त मावरणहान्ये'त्यादि । तदप्ययुक्तम् । यतो जीवस्य प्रदेशाष्टकं तावत् सदैवानावृतं तिष्ठति। न च तत्र देशतोप्यभूदावरणं, येन तस्याखिलावृत्या जडतापत्तिः स्यात् । तस्य ह्यकर्मत्वात् कर्मसङ्ग एव न सिद्धप्रदेशवत् । एतदेव च शाश्वतं जीवत्वं, अन्येषप्रदेशानां तु सर्वथा ज्ञानमात्रावृतिर्भवत्येव केषाञ्चित्सूक्ष्मैकेन्द्रियाऽपर्याप्तप्रथमसमयभाविनामिति न भापयितव्यं भीतिमद्भिः । तथा चावरणहानेर्देशत उपलम्भात् सर्वथा हानेरवश्यं कार्योंगीकारः । त्यक्तबाल्येन आवरणहान्यभावे च भवेद्भवतां सदैव बालत्वम् । यत्र सर्वथा तस्य हानिस्तत्रैव सर्वज्ञता । एवं रागादीनां दोषाणामपि काचित्क-कादाचित्का हानिः स्वयमनुभूतैवान्यथागम्यगाम्येव भवान्भवेत्तथात्वे अलं वार्त्तया। न चेत् सा यत्र सर्वथा तत्र सर्वज्ञतैव, प्रतिबन्धकाभावस्य कार्यजनकत्वात्। अभव्यादिषु देशहानौ सत्यामपि पुनरुपचयान सर्वथा Page #67 -------------------------------------------------------------------------- ________________ न्यायावतारः .0000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० हानिः । यत्र च देशादियोग्यतासद्भावाद् भवति सा, तत्र तत् केन निरुध्येतोद्भवत् । तत्सत्यमुक्त-दोषावरणयोर्हानिनिःशेषाऽत्यतिशायनात्' इत्यादि । 'तारतम्ये' इत्याद्यपि यदुक्त, तदपि न साधूनां वक्त मप्यहम्, किमुत प्रतिपादयितुम् । यत उत्पतनादौ यद्यस्थास्यत् पूर्वोत्पतितं ज्ञानवद् अभविष्यच्च ज्ञानवदक्रमवृद्धिकमभविष्यदेव परमः प्रकर्षः। न चैतव्यम्। तत्कथमिव भवेद्भवदुदितम् । यद्वाऽस्तूत्पतनादायपि परमः प्रकर्षः । यतो यथा यथा हि लाघवं कायस्य तथाऽभ्यासपाटवं च तथा तथोतातप्रकर्षः । लाघवप्रकर्षवन्तश्च यतः परमाणुद्वयणुकाद्याः । अतोऽनुयान्ति चाधोलोकान्तादपि ते ऊर्ध्व लोकान्तम् यावत् । लाघवमभ्यासपाटवं चाऽऽपाद्यमानमपि नैति परमप्रकर्षम् । यतोऽस्मदादीनां शरीरजाड्याविनाभावित्वान्जीवनस्य । सर्वथा धातुक्षये मरणापत्तेरिति विभावनीयं भावुकैः । अन्यच्च -यथा परिमाणं तारतम्येनोपलब्धमिति तद्विश्रान्तिश्च तथा ज्ञानस्यापि तारतम्योपलम्भादवश्यं स्वीकार्या परमाणावाकाशे चापकृष्टस्योत्कृष्टस्य परिमाणविश्रामस्येव सूक्ष्मैकेन्द्रियापर्याप्ते केवलिनि चापकृष्टोत्कृष्टा च विश्रान्तिरिति । नन्वन्यथानुपपन्नत्वं हि हेतोर्लक्षणमभिमतं तत्रभवतां शास्त्रकृताम्। न चेदमत्रावरणहानि-तारतम्यहेत्वोः सर्वथा हानिविश्रान्तियुगलेनेति चेत् । सम्यगपृच्छ:, परमविचारितं रमणीयम् । यतो देशतो हान्युपलब्धौ तारतम्योपलब्धौ च निश्चीयते तावदिदं यदुत - नैतदवस्थितपरिमाणं द्वयं, किन्तु प्रयत्नाद्यानुकूल्येन वृद्धिमत् । प्रकर्षे च तयोर्भवत्येव प्रकर्षप्राप्तिरप्येतस्येति युक्तान्यथानुपपन्नता। अन्यच्च-ज्ञानमात्रमपि नह्यात्मव्यतिरिक्तम् , तथात्वे जडचेतनयोर्विभागाभावात् । सति जीवस्वभावत्वे नेयत्ताकारि किश्चिन्न चेत् प्रतिबन्धकम्, क्षये च कर्मणः प्रतिबन्धकस्योत्पद्यतैव तदनन्तमिति स्थादेव ज्ञानानन्त्यम् । न चैवमुत्पतनम् शरीरस्य स्वभावो, येन ज्ञानवत्प्रकर्षभावमाप्नुयात् । वाच्यतापि स्वीकार्यैव सर्वत्र । यतो जीवादयः Page #68 -------------------------------------------------------------------------- ________________ न्यायावतारः 100000000000000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००0000000000 पदार्थाः सर्वैरेव समाभिधानाः स्वीकृतास्ततो ज्ञानवत्प्रवर्त्तितास्ते । यदि तज्ज्ञानम्, तदा तस्यारूपित्वात् समस्तारूपिपदार्थज्ञानमपि भवन विरुध्यते। अरूपिपदार्थज्ञाने इन्द्रियादिवदियत्ताकारणाभावात् । सर्वेषामरूपिणां ज्ञाने चावश्य तद्वाचका ये ये शब्दास्ते तेऽपि तैाता एव भवन्ति । तद्ये ये वाच्यास्ते ते प्रत्यक्षाः कस्यचिदिति सुष्ठु प्रति. पादितम् । अन्यच्च-जीवादीनामनुमानमेयत्वं स्वीक्रियते भवद्भिश्चेतनादिना तद्धर्मेण । स च कस्यचिद् भूतपूर्वश्चेत्प्रत्यक्षः, अनुमानं भवे. तस्य तद्धर्मत्वेन प्रनोदनादन्यथा कल्पित: स्यात् सम्बन्ध इति न सम्यसिद्धिस्तेषामिति यथार्थमेवोच्यते-यदनुमेयाः कस्यचित्प्रत्यक्षाः, यस्य च ते प्रत्यक्षविषयाः सर्वे स एव सर्वज्ञतास्पदम् । ज्योतिषचिकित्सादिप्रतिपादकाअपि तज्ज्ञानवन्त एव । यच्च भिन्नमतत्वं तत स्वकल्पनाकल्पितमिति न तत्प्रणेतृणां मालिन्याधायकम्। सर्वज्ञप्रतिपादितं ह्यवितथमेव । आगमोऽपि सर्व एव न सर्वज्ञतालयोदीरितो, यतो भिन्नवाच्यतया दोषमारुहेत् । किन्तु य एवं हितोपदेशममुक्षुसत्साधुपरिग्रहपूर्वापराविरोधाद्यपरिमितगुणालयतयाऽशेषाभिवन्द्यगुणाक. रप्रतिपादितः, स एवेति यत्किञ्चिज्ज्ञप्रणीतेनागमेन हिंसादिकलुषनृशसदुर्बुद्धिपरिगृहीतेन न तस्य दुष्टतेति । न च पूर्व साधितत्वात् सर्वज्ञस्यान्योन्याश्रयोऽपि सिद्धान्तात सर्वज्ञत्वाङ्गीकृतौ । उपमानमपि अप्रत्यक्षीकृतस्यापि सुराऽमृतसिंहादेः सम्भवत्येवाप्तवाक्यादिनोपमानता। सत्यां च तस्यामध्यवसीयत एव सुरादेः सत्ता । तद्वदेवात्रापि तथाप्रकार ज्ञानिनमुद्वीक्ष्य सर्वज्ञेनोपमानं दीयमानं दृष्ट्वा को न कक्षीकुर्यात् सर्वज्ञतावत सद्भावम् ? । अर्थापत्त्यापि सिद्धयत्येव तन्महानुभावतास्पदम्, यतो न तदन्तरेणात्मादिपदार्थज्ञानं तत्प्ररूपणं च सम्भवति । यच्चाऽत्रोक्त मपौरुषेयादागमादात्मादिबोध' इति । तनिचितजडिमावष्टब्धान्तःकरणविलसितमेव । यतो न तावदपौरुषेयो वचनलेशोऽपि सम्भवति, आसतामागमा विस्तृतवचनरूपाः । उच्यते Page #69 -------------------------------------------------------------------------- ________________ न्यायावतारः .000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० इति हि वचनमुच्यते विज्ञैः । यदि च नैव वक्ता, कुतस्तेषां सम्भवः । विश्वासश्चाप्ताधीनो वचनेषु । न चेद्वक्ता को विश्वासलेशोऽपि तत्र तत्त्वेक्षिणाम् । अन्यच्च-यद्यपौरुषेयता वेदस्य कथमेवोद्भव एषाम्। नोद्भूता नित्याश्चेत्, अहो ! विचारचातुरीचतुराणां ताल्वोष्ठादि व्यङ्ग्यशब्दसमूहमयानामागमानां नित्यत्वाभिमतिः । ननु कल्पादौ कथमायातो ?, न कल्पस्तदादिर्वा, चिरंजीव स्वकपोलकल्पितत्वं स्वीकृतं भवद्भिरेव स्मृतिपुराणानां । परं 'सूर्याचन्द्रमसौ धाते' - त्यादीनां ऋगवेदादीनां 'अनेन जीवनात्मना असदेवेदमग्र आसीत् ब्रह्म वेदमग्र आसीदि'त्यादिश्रुतीनां प्रामाण्यायापि दत्तवान् जलाअलिर्देवानां प्रियः । स्वीक्रियते कल्लादिरागमश्चैषामागमानामृष्यादिभ्यश्च त्तदापि वरम् । ननु तैरतीतयुगीन ज्ञातं न वा । ज्ञातं चेत, स एव सर्वज्ञताभाववादं विमृशन्तु विमर्शशालिनः । यथा चात्र तैः शब्दतः कण्ठतः उक्तः,एवमपि सर्वदोद्भवस्तस्य कण्ठतः शब्दतो भवन् केनापलप्येतापलापभीरुभिः । श्रूयन्ते मन्त्रशाखादीनां प्रत्येक प्रत्येक ऋषयोऽपि कर्तार इति नापौरुषेयता । यदि च प्रयोजनं भवतां भवेदेवं क एतावतीनां हिंसानां स्वीकर्ता मूलपुरुषः स्यादिति वरैवापौरुषेयता, तदा तत्परित्याग एवोचितः, नत्वेनमलीकवादकल्पनाजालम् । न च वेदेष्वस्ति किश्चिदपि भावुकमात्मश्रेयःकारकं धर्मस्वरूपादि, केबलमजादिवधोपस्कररूपत्वादेव तेषाम्, अनाचारनिदानं च वेदेभ्योऽपरं किञ्चिजगत्यपि न । यत्र महिषीवाजिनोः समागमः स्वतंत्रमुज्झित्वा कुलीनतामपि वर्ण्यते, पापठ्यते च सीधुपानादिविधिश्चेत्यलं पापकथया। अभावविषयतापि सर्वज्ञस्य कथमिव भवेत् । यतः पूर्व सविस्तरं दर्शितैव सर्वज्ञता-सम्पत्तिसद्भतिरिति यथार्थमुक्त-सकलार्थात्म [नाम् ।। तेषां किमित्याह 'सततप्रतिभासन मिति । सततमविच्छेदेन, न शेषज्ञानानामिवाऽस्योपयोगसापेक्षता ।छादारिखकजाजबामद पुत्रोपयोगतोऽन्तमुहूर्त स्थितिः - - Page #70 -------------------------------------------------------------------------- ________________ न्यायावतारः ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० न चैवमस्य, प्रतिसमयं सकलात्मग्रहणात् । ननु च द्वितीयसमये _ 'नाणंमि दंसणंमि अ, एतो एगयरंमि उवउत्ता। सबस्स केवलिस्स वि जुगवं दो णत्थि उवओग॥त्तिपारमर्षवचनात् केवलदर्शनोपयोगेन कथमिव सततताऽस्येति चेत् । कः किमाह-यतोन तावदभि. मतमभियुक्तानामेतद्यदुत- केवलज्ञानदर्शनयोः समयभेदेनोपयोगभेदः। तथात्वे तु केलिनामपि समयान्तरेणासर्वज्ञत्वासर्वदर्शित्वाssपत्तेः । यदाहुः पूज्यपादाः सप्रपञ्च संतंमि केवले दसणमि नाणस्स संभगे नत्थि । केवलनाणंमि अदंसणस्स तम्हा सणिहणाइं ॥१॥ दसणनाणावरणक्खए समामि कस्स पुन्वयरं । होज्ज समं उव्वाओ हंदि दुवे नत्थि उवओगा ॥२॥ जइ सव्वं सायारं जाणइ सव्वसमएण सव्वष्णू । जुज्जइ सयावि एवं अहवा सव्यं न जाणाइ ॥३॥ परिसुद्धं सागारं अविअत्तं दसणं अणागारं । न य खीणावरणिज्जे जुज्जइ सविअत्तमविअत्तं ॥ ४ ॥ अविठ्ठ' अन्नायं च केवली एव भासइ सयावि । एगसमएण हंदि वयणवियप्पो न संभवइ ।।५।। अन्नायं पासन्तो अहिट्टच अरहा वियाणंतो। किं जाणइ किं पासइ कह सवण्णुत्ति वा होइ ॥६॥ इत्यादि 'नाणंमि' इत्यादेः 'पभूणं इमं च णं रयणप्पभं' इत्यादिव्याख्याप्रज्ञप्तिवाच्यस्य समाधानं सूत्रितमेव । Page #71 -------------------------------------------------------------------------- ________________ न्यायावतारः 000000000000000000000000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००० परवत्तव्वयपक्खा अविसिट्ठा तेसु तेसु सुत्तेसु। अत्थगईय उतेसिं विभंजणं जाणओ कुणइ।। अत एव चव्याख्यान्ति सूरिपादानुसारिण:'सभिण्णं पासंतो' तथा 'संभिण्णनाणदंसणधरा' इत्यादौ संभिन्नं-मीलितं सामान्यविशेषोभयरूपं पश्यन् मीलितज्ञानदर्शनधारका इत्यादि । अन्ये तु जीवस्वाभाव्यादेवोपयोगपार्थक्यात् समयान्तरितत्वेऽपि मतिज्ञानादेरुपयोगतः सान्तरत्वेऽपि षट्षष्टिः सागरोपमाणां यथा स्थितिस्तथाऽत्रापि साधनन्तत्वमपि न विरोधमधिरोहति । तत्र क्षयोपशमघदत्र क्षयावस्थानादिति व्याख्यान्त्युपयोगापेक्षया सान्तरत्वेपि तदावरणक्षापेक्षया साद्यनन्ततेति युक्ता सततताऽस्येति। सततं किमित्याह'प्रतिभासन मिति । प्रतीति विशिष्टं, विशिष्टता च याथार्येन, भासनमवगमः प्रतिभासनम्, प्रतिपूर्वकस्यैव वा भासेरवगमार्थता । अत्रेदम् सतत्त्वं-सकलावरणमुक्तात्म केवलम् यत्प्रकाशते तत्प्रत्यक्षमेव भवति । तदपि सकलार्थात्म सततप्रतिभासनात् सकलं, नत्ववध्यादिवद्विकलमित्वरं वेति । अन्ये तु व्याख्यान्ति-यद्यस्माद्धे तोः केवलं सकलावरणमुक्तात्म, तम्मात् प्रत्यक्षं, सकलार्थात्म सततप्रतिभासनं यथा स्यात्तथा प्रकाशते इति । अपरे तुव्याचख्युर्यत्पूर्व 'अपरोक्षतये'त्यादि परोक्षोपयोगितयोक्तं, न लक्षणाभिप्रायेण । यद्वा-उत्तमपि लक्षणाभिप्रायेण सांव्यवहारिकप्रत्यक्षापेक्षयैव तल्लक्षणं, न तु पारमार्थिकापेक्षयेति । साम्प्रतं व्यावहारिक-प्रत्यक्षानुमानादिपरोक्ष - व्याख्यानन्तरं पारमार्थिकं प्रत्यक्ष लक्षयन्तः सकललक्षणे कृते विकलं बुद्धिगम्यं भविष्यत्यभिप्रेत्याहुर्यत्केवलं सकलावरणमुक्तात्म प्रकाशते तत सकलात्मसतत प्रतिभासनं प्रत्यक्षं सकल प्रत्यक्षमित्यर्थः। तथाच यदसकलावरणमुक्तात्म प्रकाशते, तद्विकलात्मप्रतिभाएनम् विकलं प्रत्यक्षमिति । विग्रहश्चात्र सकलैरावरणैर्मुक्त आत्मा जीवो यस्मिन्निति समारचनीय इति । गूढतमश्च धामभिप्रायः । २७ ॥ एवं सप्रपञ्चप्रमाणं निरूप्य यद्वा फलापेक्षया सकलस्य पृथ Page #72 -------------------------------------------------------------------------- ________________ न्यायावतारः ०००००००००००००00000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० क्लत्वात्तन्निरूप्य फलव्याख्यानायोदाहृतवन्तः प्रमाणस्य फलं साक्षा-दज्ञानविनिवर्त्तनम् । केवलस्य सुखोपेक्षे, शेषस्याऽऽदानहानधीः ॥२८॥ तत्र प्रमाणस्य-प्राङ्निरूपितस्वरूपस्य, फल-काय जन्यम् वा, साक्षात-आनन्तर्येण, अज्ञानस्याबोधस्य संशयादेः कुत्सितज्ञानस्य वा विनिवर्तनम्-विशेषेण निवृत्तिः । प्राक् च पदार्थमात्रविषयकमभूज्ज्ञानं संशयादौ, अधुना तु धर्मविषयकोऽपि निर्णयो जात इति निवृत्तमज्ञानेन तद्विषयकेण । सर्व हि ज्ञानं स्वविषयत उद्भवत् प्रथममेव तावन्नाशयति स्वाश्रयस्य तद्विषयकमज्ञानम् । छायातपयोरिव विरोधात् ज्ञानाज्ञानयोः । तत एव चैतम्यानन्तरं फलमेतदामनन्ति मनीषिणः । न च वाच्यं कथमिवाज्ञानस्य नाशमृतेऽवाप्नुयाज्ज्ञानमुदयम् । नहि दृश्यतेन्धतमसे सूर्योदयः पश्वाञ्च तस्य तेन नाश इति । यतः प्रथमं नश्यदज्ञानं कुतो नश्येत् ? स्वयमेव चेत्,अहेतुकतापत्तिः।न चास्ति हेतुरन्यस्तस्य विना ज्ञानं विनाशे । अत एव च जातेऽपि ज्ञानेऽनभ्यासदशायां संशयादय उत्पद्यते । यदि च पूर्वमेवानङक्ष्यदज्ञान का वार्ता संशयादेः। उच्यतेऽपि च विद्वद्भिर्जाते ज्ञाने निर्णीते मे संशयो नष्टः, अवसेयम चेदमतोऽपि यद्यथा यथाज्ञानोद्भवस्तथा तथा संशयादेरल्पता अनुभूयते आबालगोपालेन । ननु चाज्ञानमिति ज्ञानाभावोsभावश्च नर्ते भावमवाप्नोति नाशम् । संशयादिका अप्यंशतो ज्ञानशून्या एव । ननु ज्ञानमित्यात्मधर्मोऽज्ञानं चौदयिको भावः, क्षयोपशमादिना तदावरणनाशे च ज्ञानोत्पादोऽज्ञाननाशश्च । तथा चावरणनाशजन्यो ज्ञानोत्पादोऽज्ञाननाशश्चेति नानयोहे तुहेतुमद्भावो युक्तः । नहि कारणभूतावरणनाशे जाते क्षणमप्यवतिष्ठतेऽज्ञानं यन्नाश्येत तदनन्तरोत्पन्नेन ज्ञानेन । न तु लब्धे केवले क्षणं छामस्थिकं ज्ञानमज्ञानं वेति चेत् सत्यं, एतद्धि अनन्यथासिद्धपूर्ववृत्तित्वरूपकारणज्ञानाधी Page #73 -------------------------------------------------------------------------- ________________ न्यायावतारः .00000000000000000000000००००००००००००००००००००००००००००००००००0000000000000000000000०००००००० नोत्पत्तिकं, परं प्रदीपप्रकाशयोः प्रभापत्युदयान्धतमसनाशयोरिव समकालमप्यस्त्येव द्वयोः कारणकार्यभावः । न चानवाप्ते नाशमन्धङ्करणान्धकारततिरवाप्नोति द्वादशात्मन्युदयम् । तथाऽत्रापि ज्ञानावरणनाशजन्यत्वेऽपि द्वयोर्नह्यज्ञानतमो नश्यति ज्ञानदिवाकरोदयमृते । नचैवं केवलकेवलद्विकलामे छाद्मस्थिकज्ञानस्याज्ञानस्यापि क्षणम - षस्थानसम्भव इति । आवरणनाशे वा सद्य उत्पद्यते ज्ञानमात्मधर्मस्वात्तस्य, उत्पन्ने च तस्मिन्नश्यतीतरत् तत्कालं तेनेति ज्ञानोत्पादाज्ञाननाशयोन कारणकार्यभावविरोधः । द्वादशगुणस्थानान्त्यसमये च ज्ञानदर्शनावरणे क्षपयित्वाऽवाप्नोति त्रयोदशगुणालयादावेव केवलद्विकं नश्यति च तत्समकालं प्रचण्डचण्डभानूदयसमकालं तमस्ततिवदज्ञानतमोवृन्दमिति कि चर्वितचर्वणेनेति । अनेन य आहुःप्रमितिकरणं प्रमाणमिति सूत्रेण प्रमाणस्य ज्ञानरूपां प्रमिति फलतया, ते निरस्ताः। त-मते हि प्रमाणस्याज्ञानरूपत्वापत्तेरज्ञानरूपात् प्रमाणाच कथङ्कारमापद्यत चाज्ञाननिवृत्तिः । चर्चितं च प्रागप्येतत्प्र . माणलक्षणावसरेऽपि । अज्ञाननिवृत्तिश्चावाप्तकेवलस्य शाश्वतिक्येव । क्षायोपशमिकज्ञानवतामपि यावस्थिति साऽन्त्येव । न च वाच्यं साऽज्ञाननिवृत्तिः किं प्रागभावरूपा ध्वंसाऽन्योन्यात्यन्ताभावान्यतम - रूपा वा ? यत आद्यरूपत्वे, प्रतिक्षणं निवृत्तिवत्तत्प्राक् क्षणे आपद्येत एवं सति तत्सत्ता, स्याच्च तन्नाशानन्तरं ज्ञानोत्पादः । ध्वंसरूपत्वे तु तस्या उत्तरपरिणामो वाच्यः, घटध्वंसस्य कपालयुग्मवत् । न वाऽऽद्यक्षणावशिष्टं ज्ञानं फलवत्तत्राज्ञानाभावात्तनिवृत्त्यभावात् । न च ज्ञानाभावरूपाज्ञानस्य युक्तो ध्वंसः । अन्योन्याभावत्वं चेत् नाभावरूपा सा, अत्यन्ताऽभावत्वे न पुनरुपपत्तिः फलत्वस्य, ज्ञानाभावाभावरूपत्वाज्ज्ञानस्येति । यतोऽज्ञानं तावन्न ज्ञानाभावरूपम्, किन्तु ज्ञानावरणोदयोत्पन्न आत्मपरिणामोऽशुभः, तथा चाज्ञाननिवृत्ति - रित्यस्याज्ञानध्वंस इत्येवार्थ उत्तरपरिणामश्च य एव ज्ञानान्वितः शुद्धः Page #74 -------------------------------------------------------------------------- ________________ न्यायावतारः ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० आत्मपरिणामः । घटोऽभवन्मृत्तिकायां तद्वति च कपालयुगलं यथा तथैवात्र ज्ञानाज्ञानयोरात्मपरिणामे समावेशात् । यथा यावत्कपाल घटध्वंसवत्ता प्रतीयते, एवमत्रापि यावज्ज्ञानमज्ञाननिवृत्तिः प्रतीयते, न कोपि दोषावकाशः। शेषास्त्वनभ्युपगमेनैव निरस्ताः । एवं साक्षात्फलमभिधाय प्रमाणस्य सामान्येनाधुना विभागेन पारम्पर्येण फलमाहुः- केवलस्ये'. त्यादि । केवलस्य प्राङनिर्णीतस्वरूपस्य. फलमित्यत्रापि सम्बन्धनीयम् अनुवृत्त्या दीपोद्योतन्यायेन वा । यतो दीपः प्रज्वालित उद्योतते आलयमखिलमनावृतम्, तथाऽत्रापि पूर्वमुक्त फलपदमत्र समग्रश्न के यथोपयोगमायात्युपयोगमिति । किमित्याह-'सुखोपेक्षे' इति । केवलेन वेदसोपलभ्यार्थानात्मस्वरूपत्वात्तस्यात्मरमणोऽवाप्नोत्येव स्वाभाविक सुखम् । अत एव च सिद्धानामपि न सुखसद्भावे संशयकणिका, तेषामप्येतज्ज्ञानरूपत्वात् ज्ञानानन्त्येनैवानन्तसुखसम्पत्तेनिर्विवादत्वात् । दृश्यते चाध्यक्षमवाप्तबोधः सामान्यतोऽप्यपूर्वमाह्लादास्थान सौभाग्यवाँश्च । यत उच्यते एतद् ‘कलानां ग्रहणादेव सौभाग्यमुपजायते' इत्यादि । न तेषामौत्सुक्यमिति त्वन्यदेव । तस्यौत्सुम्योद्भवे विवादात् । अन्यैस्तु किमप्यालम्ब्य कारणं दूरपरम्परादि नैतद् बहुमत। यतस्तैहि व्यवस्थाप्यते इदम् यदुत-साक्षात्फलजन्यं हि परम्पगफलम् स्यान्न चाज्ञाननिवृत्तिजन्यं सुखम्, किन्तु तस्याखिललोकालोकजन्य - मन्यथा यावत्प्रमाणानामज्ञाननिवृत्तिव्याप्यत्वात् स्यादेव सुखम् समप्राणां परम्पराफलम्, न तु केवलस्य केवलस्येति । तदुक्त केवलज्ञानस्य तावत्फलमौदासीन्यमित्यादि । सूरिपादैस्तु शेषज्ञानानां यथोपादानादिबुद्धयः फलत्वेनोपादीयन्ते उपादेयादिचणैस्ताश्च ज्ञानजन्याः, परम् प्रथमं तावदज्ञाननिवृत्तेर्भावात् तस्याः साक्षात्फलत्वम्, शेषाणाां पश्चाद्भावान परम्पराफलत्वम् स्त्रीक्रियते सुनिर्णीतस्वीकारैः । तथात्राप्यवेक्षणीयमेवैतत्फलमित्यभिप्रेत्योक्त सुखम् फलतया, शेषज्ञानानां तूपादानादिबुद्धय त्पादेन तदुद्भव इति न तद्विवक्षा । 'कलानां Page #75 -------------------------------------------------------------------------- ________________ न्यायावतारः ५७ 00000000 10000000 00000000000000000000000000000000000000000000000000000000000000000000 ग्रहणादि त्यादि तु तस्योपादानोपादेयादिजन्यहर्षज्ञापनपरम्, न तु ज्ञानमात्रोद्भव फलज्ञापनायौत्सुक्यप्रभवो वा स हर्ष इत्यलं विस्तरेण । न केवलम् सुखम्, किन्त्वन्यदपि उपेक्षारूपम् । केवलज्ञानात्रातविभुत्वानां हि न किञ्चिदौत्सुक्याभावादुपादेयम्, ज्ञानेनावलोकिताखिलजगद्यथार्थ स्वभावान्निरुपाधित्वाच्च हेयमस्ति । उपादेयस्यादित एवोपात्तत्वाद्धे यस्य त्यक्तत्वाच्चेति युक्तमुक्तमुपेक्षेति । न च वाच्यHarsaat भवस्थोऽपि भवत्येव पुरुषोत्तमः तस्याधुनापि हेयो भवी घातीनि भवोपग्राहीणि चत्वार्यदृष्टानि वा हेयानीति कथं तस्य न हेयादि ? | भवस्वरूपावगमेनावगे वावगतमेतस्य, यदुत यास्यत्येवायमेव। मेव क्षयमिति न तस्य तद्गता जिहासा । मोक्षस्योपादेयता त्वर्वागपि परमवैराग्याणां नाभूत केवलात, 'मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तम' इतिवचनात् । का वार्त्ता तदुत्पत्तेरनन्तरम् तु । यतः काकनाशम् नष्टस्तेषां रागद्वेषात्मको मोहः । न च विना तेनोपादानादिबुद्धिसम्भत्र इति । अथ छद्मस्थानां किं प्रमाणफलं पारम्पर्येणेत्याह- शेषस्यादानहानधी 'रिति । शेषस्य पूर्वोक्तात् सकलप्रत्यक्षरूपात् केवलात् परस्य विकलप्रत्यक्ष व्यावहारिकप्रत्यचानुमानशाब्दादि परोक्षरूपप्रमाणसमुदायस्य. जातावेकवचनम् । यद्वा-एकमेवोपयोगापेक्षयैकस्मिन्काले इति 'शेषस्ये 'ति प्रोचुरेकवचनम् । नहि छास्थिकानि ज्ञानानि युगपद्भवन्त्युपयोगतः । केवलवतां त्वेकमेव ज्ञानं, तन्न तेषामपि युगपदनेकज्ञानसम्भवः । किमित्याहु रादानहानधी 'रिति । भदीयते इत्यादानम्, हीयत इति च हानम् उभयत्रापि धात्वर्थनिर्देशरूप्रे भावे 'अन क्लीचे भाव' इत्यनट् । तयोरादानहानयोर्धी बुद्धिरादानानधीः । केवलादपरस्य परम्परा फलमिति सण्टङ्कः । तत्र विकलेन प्रत्यक्षेण तावदवधिमनः पर्यायरूपेणालोक्य रूपद्रव्याणि मनोद्रव्याणि च यथार्हाणि हृषीकगोचरातीतामि स्वेष्टमुपादातुमनिष्टं हातु च प्रवर्त्तन्ते एव तद्वन्तः । नहि तद्वन्तो मुक्ता रागद्वेषाभ्यां सर्वथा, यन्न तेषा Page #76 -------------------------------------------------------------------------- ________________ न्यायावतारः .००00000000000000000000000000000०००००००००००००००००००००००००००००००००००००००00000000000000000 मादानहानधीन भवेत् । किन्त्वाद्येषु देवानां विशेषेण तद्भावस्तेषां परिग्रहसंज्ञाबहुलत्वात् विषयगवेषणातत्परत्वान्नासम्भविनी। अन्तानां त्वप्रमत्तत्वेपि विद्यत एव, मोक्षसाधनानां वैराग्यादीनामुपादित्सा रागादीनां कर्मबन्धकारणानां च जिहासेति न तेषां तत्सम्भवे दोषले शोऽपि । मतिज्ञानभेदभूतानां स्पार्शनादीनां स्मृत्यादीनां श्रुतरूपम्यागमस्य फलं स्पष्टमेव वेविद्यते विद्वद्भिरुपादानहानधीलक्षणम् । ननु चोपादानहानयोग्यार्थवदम्त्युपेक्षणीयोप्यर्थः स्थाएवादिस्तबुद्धिश्व भवत्येवेक्षकाणां, तत् किमिति सा नोक्ता फलतयेति चेत् । अत्र केचिदाहुः-यदुपलक्षणेन सापि ग्राह्य वेति । अन्ये त्वाहुः-यथा मैत्र्या विषयीकृतेषु प्रमोदकारुण्यभावनयोः ये नागच्छन्ति तेषामुपरि माध्यस्थ्यभावनोचिताभावयितुम्, तथात्रापि प्रमाणविषयीकृतोऽर्थस्ततप्रथमतया छद्मस्थेनोपादेयतया हेयतया वागवेष्यते, न चेत्तद्विषयतयाऽसाववाप्यते उपेक्षाविषयीक्रियते इति प्रथममुपादानहानयोः फलत्वम् । केवलिनस्तु तदभावादुपेक्षैवेति । अपरे तूदाहरन्ति-यत्सुखोपेक्षयोरनुवृत्तिर्वर्त्तते । तेन शेषस्य सुखोपेक्षादानहानधियः फलम् । सूरिपादै स्तु 'शेषस्यादानहानधी रित्यनेन प्रतिपादितमेतद्यदुत-न छद्मस्थानामस्त्युपेक्ष्यम, उपादेयेतरस्य हेयत्वनियमात् । उपेक्षणीयमप्यनुपादेयत्वाद् हेयमेव । केवलिनस्तु नोपादित्सेति न तद्भिन्नत्वेन द्वषविकलत्वाद् हेयतेत्युपेक्षैव तथाविधा फलभूतेति । यथासत्यमालोचनीयम् वैतदालोचनालोचनैः । उपादानबुद्धयादीनां कथञ्चित्प्रमातृतादात्म्यात् प्रमाणात कथञ्चिदभेदः, प्रमाणोपादानादिबुद्धयोः कारणकार्यभावाच कथश्चिद्भेद इत्याद्यप्यवधेयमत्र धीधनैः । एवं प्रमाणे आख्यायाधुना 'नाप्रमेयं प्रमाण मित्यवश्यं भायं प्रमेयेणेति तत्स्वरूपमाहुः अनेकान्तात्मकं वस्तु, गोचरः सर्वसंविदाम् । एकदेशविशिष्टोऽर्थो, नयस्य विषयो मतः ॥ २६ ॥ Page #77 -------------------------------------------------------------------------- ________________ न्यायावतारः ५६ ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० तत्र'अमद्रमहमे त्यादिर्दण्डकघातुर्गत्यर्थोऽम्यते-गम्यते इति 'दम्यमितमिताबापू०'इत्यादिनौणादिके तप्रत्यये अन्तो-धर्मः सत्त्वासत्त्वादिर्वस्तुस्वभावः, अनेका अन्ताः सत्त्वासत्त्व-नित्यानित्यत्व-वाच्यावाच्यत्वाद्या अनेकान्तास्ते आत्मा स्वरूपं यस्य स 'शेषाद्वेति कचि अनेकान्तात्मकम् । वस्तुस्वभावाविर्भावकमेतत् , न व्यवच्छेदकम्, अनेवम्भूतस्य वस्तुन एवाभावात् । 'उत्पादव्ययध्रौव्ययुक्तं सदिति नियमादनाविभूतस्वभावस्य भावस्य स्वभावाविर्भावनाय विशेषणस्य सम्मतत्वाद्'आपो द्रवाः परमाणुरप्रदेश' इत्यादिवत् । यद्वा-प्रमेयमाचिचक्षुः प्रथमं प्रमेयभूतं वस्त्वेव प्रथमपादेन लक्षयति-यदुतानेकान्तात्मकम् वस्तु । अर्थादाख्यान्त्यन्यथाभूतस्यावस्तुत्वम् । ननु च कथं परस्परविरुद्धानां सत्त्वनित्यत्ववाच्यत्वाना सेतराणामेकत्र समायोगः स्यात् ? तदसम्भवे चासम्भव्येवैतल्लक्षणमिति चेत् । अनुभव - चक्षुष्कानां नातथाभूतं वस्तु त्रिजगत्यपि दृष्टिपथमायाति । निर्गतदृष्टीनां किं कथ्यते ? यदि नायाति सदपि दृष्टिपथं तदा । यतो विचार्यतां तावत्-विवक्षितो घटो यदि मार्तिकत्वेन पाटलिपुत्रोत्पत्तिकत्वेन शैशिरत्वेन कृष्णादिगुणवत्त्वेन स्वपर्यायापेक्षया सन् तदा परैः राजत-माथुरक-वासन्तिक-पीतादिगुणवत्त्वलक्षणापरपर्यायैरसन्नेव । अन्यथा ततो व्यावृत्त्यभावात् कथमिव स्वरूपं ज्ञापयेदसावविविक्त - स्वरूपः । न च पृथगस्त्यभावो यस्तत्रागत्य तत्प्रतीतिं कारयति । तस्य सर्वथा भिन्नत्वे भवन्मतेनैव तस्य न स्वरूपसम्बन्धेन तद्वत्ता भवेत् । अभावतद्वतोः स्वरूपः सम्बन्ध इत्यभिधानात् । द्वयोः स्वरूपस्य सम्बन्धत्वेऽभावस्य पृथगसत्त्वाद्भावरूप एवाभाव इति पर्यवस्यति । स्वीक्रियते न चेत् तस्य स्वरूपेण पररूपासत्त्वं स्पष्टःसपररूपः,भावाभावयोः परस्पराविनाभावित्वात् । न चाधिकरणादन्यक्किमप्यभावाख्यमवलोक्यतेऽधिकरणमात्रज्ञानेनेतराभावस्य वेविद्यमानत्वात् । न चाभावस्याधिकरणात्मकत्वे स्पर्शनेनाधिकरणस्य ज्ञाने तत्तिरस Page #78 -------------------------------------------------------------------------- ________________ न्यायावतारः B0000000000000000000000000000000०००००००००००००००००००००००००००००००००००००००००००0000000000000 रयाभावज्ञानायान्येन्द्रियव्यापारो न युज्यतेति वाच्यम् । यतस्तत्स्पर्शस्यैव स्पर्शनेनावबोधात् । समग्रगुणयुक्तावबोधस्त्वखिलैस्तद्गुणैरवलोकितैरेव । अन्यथा तवृत्तिरसस्याप्यप्रत्यक्षात् किमिति सोऽपि न तत्र भवति । न चैवं सति सन्नेवासन्, असन्नेव च सन्नापद्यते इतिमहदनिष्टम्। स्वापेक्षया तस्य सत्त्वे परापेक्षया चासत्त्वेऽङ्गीक्रियमाणे नांशतोऽपि स्याद्वादनिपुणानामनिष्टसम्भवः । स्याच्च तेषामेवानवबुद्धस्याद्वादसतत्त्वानां शङ्करप्रभृतीनां स्वपित्रपेक्षितवधूशब्दवाच्यखजननीमपि जगद्वधूत्वेनाङ्गीक्रियमाणानां महदनिष्टं स्ववचसैव । अस्मा. कं तु तत्पित्रपेक्षया तस्या वधूत्वेऽपि शङ्कराद्यपेक्षया तस्यां जननीत्वाद्यनेकविरुद्धधर्माङ्गीकरणान्न तथाप्रसङ्गः। यत्तु तैस्तेषां तीर्थङ्करोऽ. प्यतीर्थङ्कर इत्यादि स्याद्वादापलापे प्रलपितम, तदपि स्त्रवधायोद्गीण शस्त्रम । यतः स्वयमेव पूर्वमतदर्शनावसरे कश्चिनिश्चयापेक्षयैकत्वं व्यवहारापेक्षया चानेकत्वमात्मनः स्वीकृतम्. तदेतेन स्ववचसैवहतम्। अस्माकं तु तस्य भावाद्यपेक्षया तीर्थकरत्वेऽपि केवलनामाद्यपेक्षयाजीर्थकरत्वमभिमतमेव । अनुपकृतारहितरताखिलार्थवेदननिपुणस्यासर्वज्ञताप्येवमेव तेषां प्रसाध्यमाना न दोषावहा । किन्तु मण्डनमिश्रमोहनाकृत-मोहनविषयक - प्रश्नोत्तरसामर्थ्यहेतुकाश्रितनृपललनानां तेषामेव सर्वज्ञत्वं दोषपोषकं विशेषेण । अभिमतशिवपुरी-वाराणसीनिवासिश्वपचवार्तातु यद्यपि कथञ्चित् सर्वज्ञत्वाविरोधितया समाधीयेत सांयिकत्वमपि तेषां तत्रैव युक्तं सर्वज्ञख्यातिमतां महिषीसमागमे न तु ब्रह्मद्वैताद्वैतनिीतिवत्स्वापेक्षया सत्त्वे परापेक्षया चासत्त्वे निर्णीते। उक्तं चैतत्-'सर्वे सन्ति स्वरूपेण पररूपेण नैव चे'त्यादि. नाभियुक्ततरः। अन्यच्च-स्याद्वादानङ्गीकारे 'पीयमानं मधु मदयती'त्यत्र परस्परविरुद्धकत्त कर्म-कारकसमावेशोऽपि ? कथं भवतां युक्ति - सङ्गतो भवेत् ? कथं चैकस्यैव ह्रस्व-दीर्घ जुतलक्षणपरस्परविरुद्धभेदभिन्नस्यावर्णेनैकेन वाच्यत्वं ? कथं वा पचतिमाह-गवित्ययमाहे Page #79 -------------------------------------------------------------------------- ________________ न्यायावतारः '0000000000000००००००००००००००००००००००००००००००००००००००००००000000000000000000000०००००००००००० त्यादावनुकायें नामसज्ञा तदभावश्च ? । यच्चोन्मत्तप्रायैः प्रलिपितम्यदनेकान्तेऽनेकान्तोऽस्ति न वा, उभयथाप्येकान्ताङगीकारध्रौव्यात् । तदपि गूढव्यथान्याकुलितान्तःकरणविलसितम् । यतो नैवाईति योग्यतां तावदय प्रश्नः । अन्यथा व्याप्ताप्तिख़ता न वेत्येवं पर्यालोचने धावमानाऽनवस्थावल्लरी न कथमपि लभेताऽऽस्थाम् । अम्माकंतु स्वापेक्षया सत्त्वस्य परापेक्षया चासत्त्वस्य निर्णयनान्न भवदुक्त. दोषसंसर्गोपि । ननु प्रतिज्ञाविरोध एकान्ताभ्युपगमादितिचेत् । न, निर्णयस्यापि तस्यानेकान्तगर्मितत्वादेव । तदुक्त पूज्यपादैः 'भयणा वि हु भइयव्वा जह भयणा भयइ सव्वदव्वाई । एवं भयणानियमो अ होइ समयाविरोईण ॥१॥ पारमर्षेपि-'इमा रयणप्पभापुढवी सिअ दव्वट्ठयाए सासया सिय पज्जवट्ठयाए असासय' तिवचनामृतेनानुमतमेव । यतोऽत्र द्रव्यार्थनयेन नित्यता पर्यायार्थनयेन चानित्यतापि स्यात्काराकितैवाभिमता। युक्तचैवमेव । नास्ति द्रव्यपर्याययोः सर्वथा भिन्नरूपता, येन सर्वथा शाश्वतत्वं तदितरद्वा भवेत् । किन्वर्पितानर्पितविवक्षया भिन्नता कञ्चिदेवेति युक्त स्यात्काराङ्कितम् । निपीताविरोधिवचनपीयूषाणां च स्यादेवैवंविधो वाक्प्रसरः 'स्यान्नाशि नित्यं सदृशं विरूप, वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ ! निपीततत्त्वसुधोद्गतोद्गारपरम्परेय' ॥१॥ मित्यादिः । उक्तयुक्त्यैव नित्यानित्यवाच्यावाच्यसामान्यविशेषोभयात्मकत्वमपि नेयं नीतिविद्भिः । यतो नहि किञ्चिदपि घटादिक द्रव्यतया नश्यति, निद्रव्यं चोत्पद्यते कपालादि । अत एव च पठ्यते नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥२॥ Page #80 -------------------------------------------------------------------------- ________________ ६२ न्यायावतारः 0000000000000000000000000000000000000000000000000000000000...................... प्रत्यभिज्ञायते चांशतो विनष्टमपि पटादिकम् । न च नवोत्पन्न स्वस्वत्वमस्ति । तथा चासत्यालापा एवैकान्त नित्यवाद विचक्षणाः समापद्येरन् । स्याच्च तेषामेकान्तकान्तप्रविष्टानाम् अदर्शनीयमुखता श्रतिकुत्सितदोषास्पदानाम् । यतो वर्णिता वर्णिकामात्रमन्तर्याणिविशारदः सत्त्वस्यैकान्तनित्यत्वे कृतनाशाकृतागमौ । स्यातामेकान्तनाशेऽपि कृतनाशाकृतागमौ ॥ १ ॥ आत्मन्येकान्तनित्ये स्यान्न भोगः सुखदुःखयोः । एकान्तानित्यरूपेपि न भोगः सुखदुःखयोः ॥ २ ॥ क्रमाक्रमाभ्यां नित्यानां युज्यतेऽर्थक्रिया नहि । एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया नहि ॥ ३॥ [ वीत०] तथा 'नैकान्तवादे सुखदुःखभोगौ, न पुण्यपापे न च बन्ध मोक्षौ' । तथा 'य एव दोषाः किल नित्यवादे, विनाशवादेऽपि समास्त एवेति । उक्तं च पूज्यपादैरप्यन्यत्र सुहदुक्खसंपओगो न जुज्जर निचत्रायपक्खमि । एगच्छेअमिय सुहदुक्खवियप्पणमजुत्तं ॥१॥ कम्मं जोगनिमित्तं बज्झइ बंधट्ठिई कसायवसा । अपरिणउच्छिन्नंसु अ बंधट्ठकारणं नत्थि ॥२॥ बंधमि अपूरंते संसारभओह दंसणं मोज्झं । बंधं व विणा मुक्ख सुहपत्थणा नत्थि मोक्खो य ॥३॥ [सन्मति०] वाच्यावाच्योभयात्मकतापि पदार्थप्रचयस्य नियमितधर्मवाचकत्वाच्छब्दानामवशेषधर्मानुदीरणात् स्पष्टव । यद्वा नहि यावदितरपदार्थगतधर्मव्यावृत्तिसाधकशब्दप्रयोगः कर्तुं शक्यते । अस्ति Page #81 -------------------------------------------------------------------------- ________________ न्यायावतारः .000000000000000000000000000000०००००००००००००००००००००००००००००0000000000000000०००००००००००० च तदितराखिलव्यावृत्तं स्वरूप वस्तुनि प्रत्येकं, विवक्षितघटे तदितरघटतदन्यशेषपदार्थत्रातस्यान्योन्याभावभावात् । भवन्मतेनापि न च. यावत्तदवधारणाभावे सम्यगायातो घटो वाच्यतावम॑ । जेगीयते चात एव- ‘एको भाव' इत्यादिनैकपदार्थस्य यथार्थ स्वपरपर्यायैर्ज्ञानापाइने सर्वपदार्थज्ञानसम्भवः । सदादिसप्तभङ्गकलितत्वाच वस्तूनां नैकान्तवाच्यता। प्रतिपादितं चैतत् सविस्तरं-' 'अह देसो सम्भावे' इत्यादिनान्यत्र सूरिमुख्यैः । व्यवहारोप्यनेकान्तादेव सङ्गच्छते। ततश्चोक्तमिदं 'जेण विणा लोगस्सवि ववहारो सम्बहा न निष्पहइ । तस्स भुवणिकगुरुणो नमो अणेगंतवायस्से'। त्यादि । एवं सामान्यविशेषोभयात्मकत्वमपि पदार्थानां प्रतिव्यक्ति स्वसजातीयसमानताया इतरव्यावृत्तताया अनुभवाचावसेयमित्यलं विस्तरेण । अनेकान्तात्मकमेव वस्त्विति स्थितम । तकिमित्याह - 'गोचरः सर्वसंविदामिति । तत्र गावः-इन्द्रियाणि चरन्त्यस्मिन्निति 'गोचरसंचरवहव्यजव्रजखलापणनिगमबकभगकषाकनिकषं' [५॥३१३१ ] करणाधारयोः पुन्नाम्नि इत्यधिकरणे घे गोचर-इन्द्रियविषयः तदेवानेकान्तात्मकं वस्त्विति लक्षणपक्षेऽध्याहार्यम् । केषामित्याह सर्वसंविदा' तत्र सर्वाश्च ताः संविदः सम्पूर्वकविदेर्भावाकोंः 'क्रुत्संपदादिभ्यः' [३।११४] इति किपि संविद इति । तासां सर्वसंविदाम् । अनेनैतत् ज्ञापयति, यदुत-यद्यज्ज्ञेयं तत्तत् सर्वमनेकान्तात्मकम् । नच ज्ञेयत्वस्याऽभावोस्ति कचिदपि । लक्षणपक्षे तु सर्वसंविदां तदेव वस्तुगोचरः, न तदन्यथारूपं बस्त्वध्यवसेयं ज्ञानेन केनचिदपि, तदभावादेव । सर्वेत्यनेन सांव्यवहारिक-पारमार्थिकप्रत्यक्षपरोक्षादीनां सर्वेषां समानगोचरतानाह । नहि केवलेनाप्यनेकान्तात्मकतामतिरिच्यान्येन प्रकारेणेक्ष्यते गोचरः । संविदामित्यनेन तु प्रमाणस्य सकलादेशतां ज्ञापयति । तेन सर्व स्वधर्मसत्त्वान्वितं परधर्मासत्त्वा Page #82 -------------------------------------------------------------------------- ________________ न्यायावतारः ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० न्वितं च वस्तु गोचरीक्रियते । नहि प्रत्यक्षाद्यन्यतमेन ज्ञाते वस्तुनि स्वपरधर्मयोः सत्त्वासत्त्वभानं नास्ति । यद्वा-न केवलं द्रव्यमीक्ष्यते समीक्षानिपुणैरीक्षणैः, केवला: पर्याया अपि च न । यतो यद्यद् घटपटादि प्रेक्ष्यते चक्षुरादिना, ततत् सर्व मृदादिद्रव्य-घटादिपर्यायाव्यतिरिक्तमेव । नहि मृत्स्नामपहाय पृथग्घटो, न वा घटवमपहाय मृत्स्नापि सा पृथग निभाल्यते सुविदुषापि । न च वाच्यं चेन्मृत्तिका सती तर्हि कुर्यात् स्वकार्य शरावोदञ्चनादि, न च तद्भवद्विलोक्यते इति । नहि नियमोऽस्ति यद् या या मृत्तिका सा सा कुर्याच्छरावोदञ्चनादि । अखातायास्तस्यास्तदभवनस्य प्रत्यक्षदर्शनात् । अन्यच्च-पर्यायाः क्रमभाविन इति न युगपत्पर्यायद्वयं सम्भवति । घटत्वं शरावत्वं च पर्यायावेव । अन्यच्च-नासौ मृत्तदा मार्तिकोयमिति व्यपदेशः शीतलत्वं जलशीतीकारश्च तस्य कथङ्कारं सम्पद्यन्ते ?, नहि ते घटधर्माः, तथा सति राजतादिकुम्भेष्वपि तदुपलब्धिप्रसङ्गात् । किञ्च-मृत्तिकानाशा. दिवत् सौवर्णकलशादौ नष्टं सुवर्णमपि स्यात्। तथा च न भवतां देवानां प्रियाणामिव मार्तिकघट-सौवर्णघटयोः कश्चिदप्यन्तरं जाज्ञायीत । नच ऽऽभूषणान्यपि सौवर्णानि दारिद्यदशायामुपयोगितामिययः, सुवर्णस्य नष्टत्वाद् भवन्मते । न चाभूषणभङ्गमात्रेण कनकोपलम्भोऽपीतकनकनाम् । तदङ्गीकार्यमेव यद् घटादिदशायां तत् सुवर्णमृदायस्त्येव । एवमेव घटत्वाद्याकाररूपाः पर्याया अपि न प्रत्यक्षविषयं न जङ्गम्यन्ते । न च ते भिन्नाः । तथा सति तेषामुत्पादविनाशाऽभाव एव प्रसज्येत । यतो नहि क्रियाकृत चर्करोति कदाप्यद्रव्ये घटोत्पादक्रियां तन्नाशक्रियां वा । किन्तु द्रव्यस्यैव तथा तथा परिणामः । अत एव च प्रत्यभिज्ञायते प्रतिभामरैर्यदुत-तस्या दृषपूर्वाया मृत्तिकाया अयम् । यद्वा-तद्दष्टपूर्वमेव सुवर्णमिदमाभूषणीभूतम् । तद्वन्नाशेऽपि वस्तुनः स एव घंटो योऽयं कपालीभूतस्तदेव चाभूषणमिदं सुवर्णीभूतमिति । नन्वेवं द्रव्यपर्यायोभयात्मके वस्तुनि कथं पर्यायस्य नाशो द्रव्यस्य च Page #83 -------------------------------------------------------------------------- ________________ न्यायावतारः ६५ 00000000000000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० नाशाभावः ?, यतो यद्यतोऽभिन्नं तत्तत् समानावस्थाकमेव । यथा प्रेत्य गच्छति जीवे, गच्छति तज्ज्ञानमपि सहैव । एवमत्रापि पर्यायनाशे भवितव्यमवश्यं द्रव्यनाशेन । न च घटत्यादिनाशे नश्यति मृद्रव्यं युष्मन्मतेनापीतिचेत्, न खलु द्रव्यपर्याययोभिन्नत्वमभिन्नत्वं वैकानेनास्ति । ततश्च द्रव्यवर्जिताः न पर्यायाः पर्यायवर्जितं च न द्रव्यमिति युक्तियुक्तः पन्था युक्तिवादिनाम् । जीवज्ञानयोस्तु दृष्टान्त एवासमीचीनः । यतो ज्ञानं तावत् गुणो न तु पर्यायः । न भवत्येव च ज्ञानविस्मृतावपि जीवस्य नाशः । भवतु तथापि ज्ञानं भिन्नमेव, अन्यथा तन्नाशे जीवनाशापत्तेः । सत्यं, नश्यत्येवासो तद्रपेण। यतो विशिष्ट. नाशे विशेषण-विशेष्यत्दुभयाऽन्यतरनाश एव कारणम् । यथा दण्डनाशे पुरुषनाशे तदुभयनाशे वा नष्ट एव दण्डी पुरुषः । न च पश्चाद् व्यपदिश्यते दण्ड्ययमिति सत्यपि पुरुषे । एवमेव च 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यतीतिश्रुतिः। सिद्ध ष्वप्युत्पादादिश्च सङ्गच्छते । तत एवार्षे प्रथमसमयसिद्धो द्वितीयसमयसिद्ध इत्यादि सिद्धानामे करूपाणामपि भेदाभिधानं सङ्गच्छते । द्रव्यपर्याययोः कथञ्चिद्भेदः कथञ्चिदभेदो वर्त्तते यतस्तत एव द्रव्यापेक्षया नित्यत्वं पर्यायापेक्षयाऽनित्यत्वमपि च सङगतं भवति । तद्भावाव्ययं नित्यमिति हि नित्यलक्षणम । न च पर्यायविशिष्ठत्वेन द्रव्यनाशे द्रव्यत्वेन द्रव्यनाशः । नहि दण्डित्वेन पुरुषनाशे पुरुषत्वेन पुरुषनाशोऽस्ति । पर्यायाणां भिन्नाभिन्नत्वं च द्रव्येष्वेव तदुत्पादाद् द्रव्यावस्थानेपि तन्नाशात् द्रव्यमन्तरेणाभावाच स्पष्टमेव । नहि जीवत्वमृते मनुष्यत्वमुत्पद्यते, तद्वतोऽजीवत्वप्रसङ्गात् । न च मनुष्यत्वनाशेन नश्यति सः, परलोकाभावप्रसङ्गात् । न चान्यत्र जीवादीक्ष्यते मनुष्यत्वमित्येवं सर्वेष्वपि स्वीकार्यम् । एवमेव च परमाणोः नित्यत्वेऽपि तत्समुदायस्य स्कन्धपरिणामः । अन्यथा स्कन्धभावे परमाणुनाशभावस्य स्वीकार्यत्वापत्तेः । स्कन्धे Page #84 -------------------------------------------------------------------------- ________________ न्यायावतारः .००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००6860000000618004006046000 नष्टे च परमाणोः स्वीकार्यः स्यादेव चोत्पादः । परैरपि परमाणूनां नित्यताङ गीकारात् । ननु स्कन्धत्वापत्तावपि परमाणुतेति महच्चित्रमितिचेत्, चित्रमेतन्महत्तममेव, किन्तु द्रव्यपर्यायस्वरूपमविदुषां, तद्विदुषांतु परिमाणत्वेन कथञ्चिन्नाशभावस्य द्रव्यत्वेन रूपेण चानाशभावस्याभिगमान्न चित्रलेशोऽपि । अत एव 'भेदादणु रिति परमर्षिवाक्यमपि । गुणपर्याययोरपि संविद्विषयत्वेनानुसन्धेयैवानेकान्तात्मकता । यतो रक्तत्वनाशे रक्तत्वेन रक्तिमा नष्टा, नतु गुणत्वेन । गुणा. स्त्वन्ये सन्त्येव । एवं घटपर्यायनाशेऽप्यन्यकपालादिपर्यायभावोऽरत्ये. वेति ततश्च सिद्ध द्रव्यपर्यायोभयाद्यपेक्षयाऽ नेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् । एवं प्रमाणानां निरूप्य विषयं नयानां तं वक्तकामा आहुः-'एकदेशविशिष्टोर्थो नयस्य विषयो मत' इति । ननुच प्रमाणानां लक्षणोक्तौ प्रयोजनं तद्व्यामोहनिवृत्तिः स्याव्यामूढमनसामिहे'ति प्रतिज्ञावाक्यात प्रमाणलक्षणमेव वक्त युक्तमनूचानानाम्, न तु तदोषवादोपयोगिता प्रमाणफलविषयादि, किगुत नयतद्विषयादि, प्रतिज्ञाविरोधात्, सति च तस्मिन् स्पष्टमेव निग्रहस्थानमिति चेत्, न, प्रमाणानामित्यनेन करणानडन्तेन प्रपूर्वकेन सकर्मकत्वाद् भावाभिधायिना समग्रमेतत् प्रतिज्ञातमेव, दध्यानयननोदनाप्राप्ततद्भाजननोदनावत् । नहि तदोषेष्वनिरूपितेषु तदाभासरहितं तज्ज्ञायते । न च दूषणाभासज्ञानाभावे झायन्ते सम्यग्दूषणानि । यद्वा-न दूषणाधज्ञाने सम्यक्परीक्ष्येत प्रमाणलक्षणम् । न च निष्फला प्रवृत्तिः प्रेक्षावताम्। यद्वा-प्रमाणनिरूपणाद् व्यामोहनिवृत्तिज्ञापन फलतया युक्तमेव, प्रकरणस्योपायताज्ञापनात् । विषयज्ञापनं तु न कथ - चनापि योग्यतामतिकामति । तदन्तरेण प्रमाणोद्भवस्यैवाभावात् । कर्म चैषः । एवमेव च प्रमातापि निरूपयिष्यमाणोऽबसेयः प्रतिज्ञात एव, कर्त्तत्वात्तस्य । नन्वस्तु सर्वेषामेवां निरूपणमुक्तन्यायेन प्रतिज्ञातम्, परं नयादिना नार्थोऽप्रतिज्ञातेनेतिचेत् । न तेषामपि प्रमाण Page #85 -------------------------------------------------------------------------- ________________ न्यायात्रतारः .००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० देशत्वेन कथञ्चित्प्रमाणत्वानतिक्रमात् तत्प्रतिज्ञापि कृतैवावसेया प्रमाणशब्देन । तन्न किमप्यप्रतिज्ञातमभियुक्तानामुदीरणमित्यलंप्रसङगेन । अथ को नयः ? कथं वा तत्स्वरूपमनभिधाय विषयाख्यान ? यतो नह्यज्ञाते स्वरूपे विषयाख्यानं युक्तम् । यतः प्रमाणानामप्यभिधायैव स्वरूपमुदाजगु : सूराचार्या विषयमिति । उच्यते-नीयतेप्राप्यते प्रमाणविषयीकृतस्यार्थस्यांशस्तदितरौदासीन्येनेति नयः-अध्यवसायविशेषो वचनविशेषश्च । स च द्रव्यार्थपर्यायार्थभेदात् निश्चयव्यवहारभेदाद्वा द्वधा समासतः । मध्यमतो द्रव्यार्थिको नैगमसङ्ग्रहव्यवहारभेदात्त्रेधा, पर्यायार्थिकश्चर्जु सूत्रशब्दसमभिरूद्वैवम्भूतभेदाच्चतुर्धा, शतभेदोऽपि प्रत्येकमयं सप्तविधोऽपि । व्यासतस्तु 'जावइआ वयणपहा तावइया चेव हुति नयवाअ' तिवचनाद्वचनवादपरिमाणो नयः। अत एव चायं प्रमाणांशतया विकलादेश इति गीयते गीतार्थतमैः । भवति चाय मेवापलापादितरधर्माणां नयाभासतयाऽप्रमाणम् । ततश्च मिथ्यावादः । प्रोक्तं चातो 'जावइआ नयवाआ तावइआ चेव हुति परसमय'त्ति । तथा च यथार्थमुक्तम्- ‘सदेव सत् स्यात् सदिति त्रिधार्थो मीयेत दुर्नीतिनयप्रमाणे'रिति । स्वरूपाख्यानमप्यस्य प्रमाणैकदेशरूपत्वादेव न पृथस्कृतम् । यद्वा-विषयप्रतिपादनमेवास्य स्वरूपव्यावर्णनतुल्यम्, विषयव्यावर्णनभेदेनैव नयोऽश्नुते भिन्नतामिति । अथ व्याख्या-एको न तदितरः, इतरविवक्षणे हि प्रमाणस्वरूपापात्, देशः - अवयव उत्पादादिव्यादिर्वा, नत्वेको धर्मः । कश्चिन्नयैःधर्मद्वयादीनामप्यभिधानात्। नयता च तेषां परस्परनिरपेक्षमभिधानात् गुणप्रधानभावेन वाऽभिधानात् । अत एव च 'दोहिवि नएहि नी सत्थमुलुएण तहवि मिच्छतं। जं सविसयप्पहाणत्तणेण भन्नोन्न-निरवेक्खे' ति प्रोचिवांसः प्रवचनप्रवानाः । तेनैकदेशेन द्रव्यत्वादिना विशिष्टो-विशेषितो द्रव्यंपर्यवा वा सामान्य विशेषो वा ज्ञानं क्रिया वा सत्तामहतीत्येवम्भूतोऽर्थः Page #86 -------------------------------------------------------------------------- ________________ न्यायावतारः ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००0000000000000 पदार्थः जीवादियॊक्षहेतुर्वेति । किमित्याह-नयस्य प्रानिर्णीतरूपस्यविषयो-गोचरः, 'नाम्नी ति घो [ ५।३।१३०] विशेषेण सीयन्तेबध्यन्त इन्द्रियाण्यस्मिन्निति विषय इति व्युत्पत्तेः । नेदं स्वमनी. षिकयोच्यते इत्याहुः-'मत' इति । तीर्थकरगणधरादिभिः प्रतिपादितः । एवं नयविषयं निरूप्य तस्य सम्भवत्यामपि प्रवृत्तावन्यत्र प्रायेण श्रुतविषये प्रवृत्तिभावाद् यथार्थश्रुतलक्षणायाऽऽइ नयानामेकनिष्ठानां प्रवृत्तेः श्रुतवम॑नि । सम्पूर्णार्थविनिश्वायि स्याद्वादश्रुतमुच्यते ॥३०॥ ननु पूर्वमुक्तमेव शाब्दलक्षणं श्रुतं च शाब्दमेवेति किं पुनविवेचनेनेति चेत्। सत्यमुक्त, परं लोकोत्तरस्य यथार्थताप्रतिपादनायैतत् । यद्वा-पूर्व प्रमाणतयोक्तमपि शाब्दं श्रुतं कथं तत्प्रमाणं भवितुमर्हति ? तस्यैकदेशविशिष्वार्थप्ररूपणप्रवणत्वात्, प्रमाणस्य च सकलार्थादेशदक्षत्वादिति शङ्कासम्भवात् पुनरेतत्स्वरूपाभिधानं युक्तमेव । अथवा 'जावइया नयवाया तावइया चेव हुँति परसमय ।त्ति समाकर्ण्य समीक्षापूर्विण आरेकेरन् यदुत-लोकोत्तरं श्रुतं नयवर्जितं न वा? आये,न तादृशमस्ति परमपुरुषवचनं यत्र न नयः। अत एव चानुयोगद्वारेषु नय इति तुर्य द्वारं जागद्यते आगमानुयोजकैरिति प्राचीनपुरुषवचोव्याघात:, तद्वत्त्वे च स्पष्टं परसमयतेति को भेदो लौकिकलोकोत्तरयोरिति तन्निरासायैतत् 'नयाना'मित्यादि । तत्र नयाः-प्रागुक्तस्वरूपाः तेषां नैगमादीन,द्रव्यार्थिकादीनांवा। कीदृशां ? इत्याहुः एकनिष्टाना'मिति । तत्र नितरामन्यानुपदेशेन स्वतन्त्रं स्थीयतेऽनयेति भिदादित्वादङि निष्ठा निश्चयो व्यवस्थोत्कर्षों दिशा वा 'निष्ठानिष्पत्तिनाशान्ता काष्टोत्कर्षे, स्थितौ दिशी तिवचनात् । तथा चैका निष्ठा येषां ते एकनिष्ठाः तेषामिति । ननु पूर्व विषयाख्याने स्वरूपाख्याने बोक्तमेवेदमिति नार्थः पुनर्वचनेनेतिचेत्, सत्यमुक्त स्वरूपादिषु, परं स ए Page #87 -------------------------------------------------------------------------- ________________ न्यायावतारः ६६ boobedBadbobobb..........00000000000000000000000000000000000000000000 0000000000000000 पार्थोऽनेन पुनर्निरूप्यत इति क्षन्तव्योऽयमेकः सूरेरपराधः । तत्त्वसस्तु नयानां कथं प्रमाणता समापद्यते इति दर्शनाय तेषां प्रागुच्यमानं स्वतन्त्रं स्वरूपं न दोषमावहति । यद्वा स्याद्वादश्रतस्य सम्पूर्णार्थवाचकताज्ञापनायैतदिति, सकलादेशि प्रमाणं षा नैकदेशविशिष्टमर्थं न गृहणाति । शते गृहीते गृहीता एव स्युः पञ्चाशदिति माभूत्तेषां नयतापत्तिरिति निष्ठाशब्देन तद्वयवच्छेदः । यतो न प्रमाणेनैकदेशविशिष्टतयैवार्थो निश्चीयते किन्तु यावद्धर्म विशिष्टतया । अत एव च 'स्यान् सदिति प्रमाणवाक्योल्लेखः सङ्गच्छते । किमित्याह- 'तवर्त्मनि प्रवृत्ते 'रिति । तत्राश्रावीति श्रुतम् । श्रदितो हि भगवानवाप्त केवल: तथास्वाभात्र्यात् प्रत्रचन प्रवर्त्तनफल कतीर्थकर नामकर्मोदयतः कृतार्थीSपि भव्योपकाराय तीर्थं प्रवर्त्तयन्नाख्यात्यर्थम् - 'अत्थं भासइ अरिह 'त्ति वचनात् । ततश्च प्रवर्त्तते अनेकातिशयरत्नरत्नाकरगणभृद्बुद्धिपटगृहीतार्थविनिर्मितपुष्पमालोपमितोत्तमाङ्गधार्यद्वादशाङ्गीरूपं तीर्थमिति सत्यमुक्तम् श्रुतत्वम् । उक्त च- सुत्तं गंथंति गणहरा निउणं'ति । तदेव वर्त्म मार्गः । नान्तरेणाऽज्गममन्योऽस्त्यत्रा पदार्थावबोधस्य, अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये न मानमागमोदन्यदस्ति परं तच्च जिनोदितमितिवचनात् । तत्र श्रुतवर्त्मनि प्रवृत्तेः पूर्वोक्तानां नयानां प्रवर्त्तनात् । एतेन ज्ञापितं चैतत् यन्नागमवाक्यमेकमपि विद्यते नयप्रवृत्तिशून्यम् । उक्तम् च श्रुतकेवलिपादैरपि - 'नत्थि नएहिं विहुणं सुत्तं अत्थो अ जिण मए किंवि'त्ति । पूज्यप दैरपि 'न सुतमित्ते अत्थपडिवत्ती । अत्थगई वि अ नयवायगहणलीणादुरद्दिगम्म' त्ति । यच नाधुना नयसमवतारः श्रुते, तदपि मेघादिहान्या अनुयोगपृथक्करणादेव । तदुक्तं - मूढनइयं सुयं कालियं तु न नया समोयरंति इह । अपुहुत्ते समोयारो णत्थि पुहुत्ते समोयारो ॥१॥ [विशेषा०] Page #88 -------------------------------------------------------------------------- ________________ न्यायावतारः ००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००00.0000000 इति । कियन्तं यावत्कालं आसीनयानामवतार ? इति चेद्, आर्यबज्रपादान यावदिति गृहाण । 'जावंत अजवइर'त्तिवचनात् । नन्वेवं नयावताराभावे कथमवतार्यते कचिदितिचेत्, अनुयोगद्वाराद्यभिहिताशया एवावतार्यन्ते वसतिप्रस्थकयोरावश्यकाभिहितनीत्या च सामायिकादौ । अत एव च 'न नया समोयरंतित्ति प्रतिपादितम्। ननु का हानिर्यद्यवतार्येत नयप्रकरश्चेद् । एकैकानां नयानांशतशोभेदभिन्नत्वादन्यनयवक्तव्यतामज्ञानादन्यत्र समवतारयतो भवे. न्मिथ्यात्वापात इति निषिद्धोऽसौ । यद्वा-नाऽसौ निषेध आत्यतिकः। यदाह-'आसज्ज उ सोयारंनए नयविसारओबूयत्ति । ननु व्याहतमिदं परस्परमितिचेत, नियमाभावपरत्वादेतस्य । यद्वा अवतारितनयावतारविषयत्वनुत्तरस्येति न व्याघातगन्धोऽपि । यद्वा-निषेधो हि सूक्ष्मसूक्ष्मतरादिगवेषिणामृजुसूत्रादीनामनुज्ञा च नैगमादीनां स्थूलविषयकाणाम् । यत् उक्तम् एएहिं दिट्ठीवाए परूवणा सुत्तपत्थकहणा य ।। इह पुण अणभुवगमो अहिगारोतीहि ओसन्न ।। ति [विशेषा०] कृतं प्रसङ्गानुप्रसङ्गेन । नयानानेकनिष्ठानां श्रुतवमनि प्रवृत्तिस्तु 'एगे आया एगे दंडे' इत्यादिसूत्रार्यालोचनाविचारचतुराणां स्पष्टैव । अबोचुश्च सूरयोऽपि 'पाडिकनयपहगयं सुत्तति । तथा च या या स्वसमये वक्तव्यता साऽपि तत्तत्रयप्ररूपितैवेति व्याख्याविदां मतम् । अत एव च बहुश्रुतत्वेऽपि निश्चयानभिज्ञत्वं समयप्रत्यनीकत्वं च प्रतिपाद्यमानं सङ्गच्छते । तदुक्तम्'जह जह बहुस्सुओ संमओ अ सीसगणसंपरिवुडो अ। अविणिच्छिओ अ समए तह तह सिद्धन्तरडिणीओ।। [सन्मति०] इति । अन्यथा बहुश्रुतत्वं विरुद्ध्येतैव । नयप्रवृत्तिमयत्वे तु श्रुतस्यावि Page #89 -------------------------------------------------------------------------- ________________ न्यायावतारः BB0000000308888bdodo0000000000000000000000000000०००००००००००००००००००००००००००००००००००००००० निश्चितसिद्धान्तता स्यादेव । प्रतिपादितं चैवमेव जजह भणियं सुत्ते' इत्यादिनापि । कथं तदा निश्चितश्रुतत्वं प्रमाणभूतं वा श्रुतं स्यादित्याह'सम्पूर्णार्थविनिश्चायीत्यादि । सम्पूर्णः सकलसदसदादिधर्मकलितत्वात् यावद्धर्मविशिष्टोऽर्थो-घटादिर्जीवादिर्वा तं विनिश्चिनुत इत्येवंशील यत्तत्सम्पूर्णार्थविनिश्चायि, न नयादिवदेकादिधर्मविनिश्चायीस्यर्थः । किन्तु सकलनयाभिप्रेतधर्मसमुच्चयनात् सम्पूर्णधर्मकलितार्थाभ्युपगन्तृ । अत एवोच्यते___ 'भमिच्छद्दसणसमूहमइअस्स अमयसारस्स । जिणवयणस भगवओ'त्ति । न च वाच्यं कथं नयानां मिथ्यादर्शनत्व ? तथात्वे च तेषां कः प्रतिविशेषो नयदुर्नययोः ? । नयवाक्यं चाभिमतमेवामियुक्त यदुक्तम् स्तुतिषु'सदेव सस्यात्सदिति त्रिधार्थो, मीयेत दुर्नीतिनयप्रमाणैः। यथार्थदर्शी तु नयप्रमाण-पथेन दुर्नीतिपर्थवमास्थः ।।१।। [अन्ययोग०] इह च नयप्रमाणपथस्य यथार्थदर्शिदब्धतादर्शनेन स्पष्टैव समीचीनताऽवाचि । प्रतिपादितं च पूर्वमपि-'नथि नएहिं विहुण'मित्यादिना भवद्भिरपि जिनवचनस्य नयमतत्वं, न च तन्मिथ्येति कथङ्कार विरुद्धमिदं परस्परार्थ श्रद्दध्महे इतिचेत् । सम्यकपर्यनुयुअक्थाः, परमेतावत्तावचिन्तनीयं त्वया यदुत-नयैरपि सकलधर्मविशिष्टं घटादि वस्तुन प्रतिपाद्यत एव, किन्त्वेकधर्मविशिष्टमेव । तथा घ कथं तेभ्यः सम्पूर्णार्थबोधो भविता, चेन्न भविता, तर्हि स्पष्टमेव यथार्थपदार्थानवबोधकत्वं तस्य, एनमंशमधिकृत्दैव तस्य मिथ्यात्वतया प्रतिपादनमभिप्रेतमभियुक्ततमैः । असम्पूर्णवस्तुप्रतिपादनस्य मिथ्यात्वं तु 'पयमक्खरं व इकं जो न रोएइ सुत्तनिहिट्ट । . सेसं रोयतो बिहु मिच्छादिट्ठी मुणेयव्यो' ॥१॥ Page #90 -------------------------------------------------------------------------- ________________ न्यायावतारः *.....................................................0000000.............................................00000000000000000066@5.000000 तथा 'सूत्रो कस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं नः प्रमाणं जिनाभिहित' ॥ १ ॥ मित्यादिवदवसेयम् । यतस्तेपि द्रव्यार्थिक - पर्यायार्थिकाद्याः क्रमेण स्वाभिमतं द्रव्यपर्यायस्तदन्यद्वा व्यवस्थापयन्तोऽपीतरमुपेक्षयन्तः कथमिव सम्पूर्णार्थदेशकत्वाभावात प्रमाणतां सम्यक्त्ववाच्यतां वा प्रतिपद्येरन् । तदेतदुक्तमेव नयकाण्डे नयनिरूपणानिपुणैः 'तरह सव्वेवि नया मिच्छादिट्ठी 'त्ति । हेतुरप्येष एवोदितस्तत्र । यत आहु:- 'सपक्खपडिवन्नत्ति | नयन्याभासयोरेतावानेव भेदो यदाघोऽभिप्रेतादितरान्धर्मानप्रतिपादयन्नेव स्वाभिमतं समर्थयति । परस्तुस्वाभिमतं समर्थ यन्नपहनुते तदन्यान् यथा तथा । तथा च तस्योल्ल खः सदेवेति । परं सम्पूर्णार्थादेशकत्वाभावरूपं मिध्यात्वं तूभयत्राप्यविशिष्टमेव । विशेषेणा नेनैव आद्यस्य सम्यक्त्व हेतुता स्यात् तत्र भजनाप्रक्षेपमात्रस्य न्यूनत्वात् । अन्यत्र तु निरस्य एकान्ताभ्युपगमः । सति च तस्मिन्निरा से उपनीतायां भजनासुधावृष्टौ स्यादेव तस्यापि सम्यक्त्वहे तुता । यवोचन् ते उ भयणोवणीया सम्पदंसणमणुत्तरं होंति'त्ति सत्यमुक्तं 'सम्पूर्णार्थविनिश्चायति । तथात् किमित्याह - 'स्याद्वादश्रुतमुच्यते ' इति । स्यादित्य ने कान्तद्योतकमभ्ययम् । ननु न दृश्यते इदं द्योतकेषु चादिष्विति चेत् । सत्यं परं तानि न परिगणितानि, किन्तूपलक्षितानि । अत एव चादिशन्दोपन्यासेऽपि बहुवचनमकारि शब्दानुशासने सूरिभिः । शैलीयमाचार्याणामादिशब्दोपन्यासेऽपि बहुवचनेनाकृतिगणद्योतनमिति । उच्यते चान्यत्रापि -- 'इयन्त इति सङ्ख्यानं, निपातानां न विद्यते । प्रयोजनवशादेते, निपात्यन्ते पदे पदे ॥ १ ॥ इति । यद्वा-अस्त्येव विभक्तिप्रतिरूपकाणां सूत्रकृद्भिरभिमतान्ययता । अनेकान्तद्योतकं स्यादिति पठितं तत्र ज्ञेयम् । तस्य वदनं प्रतिपादनं Page #91 -------------------------------------------------------------------------- ________________ न्यायावतारः 00000000 00000000000000ooooooooooooooooooooo......................00000000000000000000 स्याद्वादः, तस्यैव सम्यग्न्यायमार्गत्वात्तदुक्तम् 'इमां समक्षं प्रतिपक्षसाक्षिणा मुदार घोषामवघोषणां वे । न वीतरागात् परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थिति ' ॥ १ ॥ , ७३ रित्यादि । तेन स्याद्वादेनोपलक्षितं श्रुतं स्याद्वादश्रुतम् । मध्यमपदलोपस्तु शाकपार्थिवादित्वात् । उच्यते - प्रतिपाद्यते । तस्यैव सकलनयाभिप्रायसमुच्चयप्रत्यलत्वात्तदुक्तम् अन्योन्यपक्षप्रतिपक्षभात्रा यथा परे मत्सरिणः प्रवादाः । नयानशेषान विशेषमिच्छन् न पक्षपाती समयस्तथा ते ॥ १ ॥ तथान्यत्रापि नयास्तव स्यात्पदलाञ्छिता इमे, रसोपविद्धा इव लोह धातवः । - भवन्त्यभिप्रेतला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ||२|| इत्यादि । ननु च सर्वनयमयत्वे स्याद्वादश्रतस्य कथं प्रामाणिकत्वं, प्रत्येकं नयानां प्रमाणत्वाभावात् । तथा चोचुः - प्रत्येक यो भवेद्दोष, द्वयोर्भावे कथं न, स' इतिचेत, न, कफहेतुत्वे गुडस्य नागरस्य च पित्तनिमित्तकत्वेऽपि संयुक्तौषधे न विकृतिकणिकापीक्ष्यते । तदुक्तम् 'गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् । द्वयात्मनि न दोषोस्ति, गुडनागरभैषजे ॥१॥ [ वीत० ] इति । अन्योन्यापेक्षोद्भव एष गुणो जात्यन्तरं चेदं युग्मम् । तथाऽत्रापि समवसेयमिति । ननु यदि प्रत्येकं नयेषु सम्यकं श्रुतत्वं न तर्हि समुदायरूपे तस्मिन् कथं तत् भवेत् ? यतो यदि रेणुषु प्रत्येक न तैलांशो, नैवाप्यते समुदायेऽपि तर्हि तत्, स्याद्वादश्रुतस्य चाभि Page #92 -------------------------------------------------------------------------- ________________ न्यायावतारः #.............................................................................................................................66666660 ७४ मन्यते सम्यक तत्वं तत्स्वीकार्य प्रत्येकं नयेषु सम्यक्त्वमितिचेत् ! ।. न, यतः प्रतिपादितमेव पूर्व नयस्वरूपाख्याने तेषां एकनिष्ठत्वम् । तावन्मात्रेण नयाभासेभ्यस्तेषां भिन्नत्वं च । ततः समुद्रांशो यथा न समुद्रो न वा समुद्रस्तद्वदिमेऽपि 'निभयवयणिज्जसच्च' त्तिवचनात् प्रमा भूता इति न ते प्रमाणं न चाऽप्रमाणं सकलांशोपेतस्य च समुद्रत्ववत् सकलनयमयस्याद्वादश्रुतस्य सम्यक्त्वमत एवोक्तम्- 'अन्नोन्ननिस्सिआ पुण हवंति सम्मत्त सब्भाव'त्ति । ननु तेषां मिध्यात्वतया प्रतिपादनात् मिध्यात्वसमुदाय एष इति नास्य समीचीनतेतिचेत्, नेतरोपेक्षारूपमिध्यात्वांशस्य स्यात्कारेण दूरीकरणाच्छोधितविषस्य रसायनीभाव satta समीचीनता भवन्ती न निवारयितुं शाशक्यते शक्रसहस्रे णापि । अत एवोच्यते विशकलितानां नयानां सम्यक्त्वाभावेऽपि समुदाये सम्यक्त्वं यदाह- जह गलक्खणगुणा वेरुलिभाई मणी विसंजुत्ता । रयणावलीववएस न लहंति महग्घमुल्ला वि || १॥ तह निययवायसुविनिच्छआ वि अन्नोन्नपक्खनिरवेक्खा | सम्म सणस सव्वे विनया न पार्वति ||२॥ जइ पुण ते चेव मणी जहा गुणविसेसविभागपडिबद्धा | रयणावलित्ति भण्णइ जह तं पाडिकमन्नाओ ||३॥ तह सव्वे नयवाया जहाणुरूवं निउत्तत्तव्वा । सम्म सणस लहंति न विसेससन्नाभो ||४|| [सन्मति०] इति । गुणप्रोतत्वादेव यथा मणीनां रत्नावलीति व्यपदेशः । एवमत्रापि सर्वेषु नयाभिमतेषु स्यात्कार गुणस्यूतेषु सम्यकश्रुतत्वेन स्याद्वादश्रुतमितिव्यपदेशः । यथा च तत्र प्रत्येकसञ्ज्ञा अपगच्छन्ति, प्रति पाद्यते च रत्नावलीति । तथाऽत्रापि नयसञ्ज्ञां विजहतस्त एव नयाः Page #93 -------------------------------------------------------------------------- ________________ न्यायावतारः 00000000000000000000000०००००००००००००००००००००००००००००००...०००००००००००००..०.०००....0000०. स्याद्वादश्रुतसञ्ज्ञामभिरूपतरां नूतनां लभते । तथा च यथा केवलमणिराशिरपि न रत्नावलीव्यपदेशभाजनं तथा निरपेक्षोऽन्योन्यं नयसमुदायोऽपि न स्याद्वादश्रुतसञ्ज्ञाभाक् । किन्तु व्यवस्थापित एव । अत एव सामान्यविशेषोभयनिरूपिणोऽपि न वैशेषिकस्य विशिष्टताऽन्यमतेभ्यः । अत एव च सकलनयमयस्याद्वादश्रुतवेदिनोऽपि सूत्रार्थादिना सम्यग्योजनाभावेनानिश्चितत्वमभिहितं सङ्गच्छते। तदुक्तं नहु सासणभत्तीमत्तएण सिद्धत जाणओ होइ । नवि जाणओ अ नियमा पण्णवणानिच्छिओ णाम' ॥ त्ति । अत एव चार्वाग् दशभ्यः पूर्वेभ्योऽन्यूनेभ्य उभयथा श्रुतोक्तिरपि। सम्यग्दृष्टिपरिगृहीतस्य सम्यक् श्रुतत्वमन्यथेतरत्वमिति । सम्यग्दृष्टिश्च स एव, यो यथार्थतया पदार्थपरिभावयिता । यत उक्त 'एए जिणपन्नत्ते सदहमाणस्स भावओ भावे । पुरिसस्साभिणिबोहे दसणसदो हवइ जुत्तु ॥१॥ त्ति ननु चैवं मिथ्यादृष्श्रुितं वेदादि लौकिकं च भारताद्यपि श्रुतं सम्यग्दृष्ट्रिपरिग्रहपूत स्यादेव सम्यकच्छु तम् ‘सम्यग्दृष्टिपरिग्रहपूतम् जयति श्रुतज्ञान'मितिवचनात् को विशेषोऽनयोः स्याद्वादसामान्यश्रुतयोरिति चेत् । न कोऽपि । 'द्रष्टदर्शननैर्मल्ये, भिदा नासन्नदूरयोः । न स्याद्वादेतरो भेदः सदृष्ट्या ग्रहणे तथा । केवलं न नयाः सर्वे, तत्र सन्त्यत्र सन्ति च । हेतुरित्येष वैषम्य-व्यपदेशे बुधैर्मतः ॥ तोतरेऽनया बुद्धया, योज्या आदाय चान्यतः । अन्योन्यानामपेक्षापि, दुष्करं ततथा न ते ॥ Page #94 -------------------------------------------------------------------------- ________________ ७६ न्यायावतारः 000000000000003000000000000000000000000000000000000000000000000000000000606566060680806 नया अत्र समे सन्ति, लक्ष्यताभिमुखास्तथा । स्थिता अपरीक्षिताश्च ते तदाऽनेकान्तवादता || श्रत एव च लक्षणेन कृतो निर्देशोऽत्र 'सम्पूर्णार्थे'त्यादिना । अन्यथा ब्रूयुरन्यत्राभिहितागमलक्षणवत स्याद्वादश्रुतमाप्तोक्तमिति । 'उच्यते' इति तु लक्षणाधीना हि लक्ष्यता । यत्रैतल्लक्षणं तदिदं स्याद्वादश्रुतमित्युच्यते, न तु रागमात्रेण । न चान्यस्य मिध्याश्रुततापादनं द्वेषोपहितं किन्तु तथा भावात्तस्येति ज्ञापनाय । यदाहुरन्यत्राप्यचिंत , चरणाः स्वागमं रागमात्रेण, द्वेषमात्रात् परागमम् । नामस्त्यजामो वा, किन्तु मध्यस्थया दृशे ॥१॥ ति । सतां न स्वान्यभेदोऽस्ति विश्व ऽपि हितकाङ क्षिणाम् । गुणाढया यान्ति नश्यन्ति दोषव्याप्ताः स्वयं ततः ॥ १ ॥ सतां गुणाः सपक्षा य- द्विपक्षा गुणवर्जिताः । स्युस्तत्राद्भुतमीचे नो, पुष्यत्यदयेम्बुजम् ॥२॥ अनेकान्त सन्तो, भक्तिप्राग्भार निर्भराः । दृश्यन्ते तत्र नान्योस्ति, हेतुः सद्वस्तुनिर्णयात् । ३ । एवं सप्रपञ्चं प्रमाणं प्रमेयं च निरूप्यापि शैषीभूतं प्रमातारं निरूरूपयिषिषत्र आहु: - प्रमाता स्वान्य निर्भासी, कर्त्ता भोक्ता विवृत्तिमान् । स्वसंवेदन संसिद्धो, जीवः क्षित्याद्यनामकः ॥ ३१ ॥ प्रमिमीते प्रमापयति वस्तु तत्स्वरूपं वेति प्रभाता, प्रमिनोति Page #95 -------------------------------------------------------------------------- ________________ न्यायावतारः 000000000000000000000000०००००००००००००००००००००००००००००००००००00000०००००००००००००००००००००००० चा प्रक्षिपति सर्वमन्यदधम्तात् करोति स्वभोग्यतयेति प्रमाता, प्रमीनाति-वोपादानेनान्यान्यान्पुद्गलान् विनाशयति यथेच्छं परिणामात् तत्पूर्वपर्यायांत्याजयित्वा हिनस्तीति वा प्रमाता । तस्यैव प्रमातृत्व, योऽत्रोदियः। नेन्द्रियाणां मनसो वा। यतो हि द्रव्यरूपाणि, जडानि तानि, न तदभावे तृणकुब्जीकारेप्यलंभूष्णूनि । न च तान्यात्मानं प्रयुजते, किन्तु तेन प्रयोज्यान्येतानि । स्वतन्त्रश्च कर्ता भवति । अन्यच्च-भावेन्द्रियाणि यानि लब्ध्युपयोगरूपाणि भावमनो वा परिणामात्मकं यत्तदपि करणरूपाण्येव, न कत्तणि । करणस्य सकत कत्वनियमाच भाव्यं तेषामधिष्ठात्रा । न चानुपयुक्त आत्मनि स्वविषयंपरिच्छिन्दन्त्यक्षाणि मनोवा सुप्तमुर्छितादौ। तथानुभवात् । न चेन्द्रियाणां परिच्छेदकत्वेऽन्यान्याक्षविषयानुभवाभावात्तत्स्मरणं स्याद्, येन मया श्रुतमित्यादिविषयपञ्चकसङ्कलना भवेदेकस्य कस्यापि । न च ज्ञानज्ञानार क्ये ज्ञानवानहमित्याकारकः स्यात् प्रत्ययो निराबधिः । ज्ञानालयत्वेन भिन्नत्वे तु स एव नामान्तरितः प्रमाताऽभ्युपंगतो भवति । न चाभिन्नः सन्तानः सन्तानिनः क्षणक्षणावस्थानप्रष्ठ सन्तानिनं सञ्जानीत, सन्तानस्यापि च सत्त्वेन क्षणिकत्वायत्तौभक्षितो लशुनो न ज्वरः शमं गत' आयातो न्यायः । न भवेदेव पासनासङक्रमादि सन्तानिनीव क्षणक्षयिणि सन्तानेऽपि । तवभावे च कुतस्तरां स्मरणं प्रत्यभिज्ञानादि वा । तदभावे च कथं भवतां बौद्धानुयायित्वाद्यवगतिः, न चेत् साऽलं विवादेनाशुभसंस्काराऽभावेन पूर्वव्युग्राहित्वाभावात् स्वाभाविकोपदेशेनैव सम्बोधभावात्। किम्भूतः पुनरित्याह-स्वान्यनिर्भासी'ति । स्व-जीवो विवक्षितः, स एवान्ये च तद्भिन्ना ज्ञानज्ञेयाद्याः तान् स्वान्यान, निर्भासते-प्रतिक्षणमुपयोगस्वाभाव्यानिश्चिनोतीत्येवंशीलो स्वान्यनिर्भासी । निरुपसर्गेण च तस्योपयोगस्वभावतां ज्ञापयति। नहि आकाशवजडोजीवश्चेतनासमवायाचेतनः, तथात्वे हि 'कालखात्मदिशां सर्वगतत्वं परमं महदि' Page #96 -------------------------------------------------------------------------- ________________ ७८ - न्यायावतारः .0000000000000000000000000000000०००००००००००००००००००००००००००००००००००००००००००००.......... तिवचनात् सर्वत्राप्याकाशादीनां सत्त्वात किमिति नैतानि चेतयन्ति ? कथं वा व्यपदिश्यते आत्मनां चेतनेति ?, समवायोऽपि कथमेषां समानदेशस्थितत्वेऽपि जीवेनैव चेतनायाः सम्बन्ध जाघटीति ? । सम्बन्धश्च वियुक्तयोर्मीलनम । न तावच्चेतना जीवो वाऽन्योऽन्यम् वियुक्तो दरीदृषो दृष्टिमता केनापि । न च समवायोऽपीक्ष्यते निपुणावेक्षणापरैरपि काष्ठद्वययोजनायुक्तकीलकादिवत् । इहेदमिति मत्या चेत्सम्बन्धाकाङ्क्षालाघवाच्चैकः समवायः कल्प्यतेऽन्यथानन्तसम्बन्धकल्पनाप्रसङ्गात् । तदपि न निरन्तरसुहृदोऽन्तरा प्रत्येष्यन्त्यपरे । यतः सम्बन्धस्योभयवृत्तित्वनियमादिह द्रव्ये गुणे वा समवाय इति प्रत्ययोऽस्ति न वा ? | आये, तत्रापि सम्बन्धान्तरं समवायो वाऽन्यः कल्पनीयो, भविष्यति चानन्तानवस्थावल्लरी मूलक्षयकरी प्ररूद्वैवं सति । स्वरूपसम्बन्धेन समाधाने तु किमिति प्रथमतस्तदुल्लङ्घनेन प्रत्यपायभाजनं बोभूयते भूयो भावद्भिः। अन्त्ये च, स्पष्टं समवायाभावोऽभ्युपगतो भवेत् । न च कल्पनासहस्रेणापि शाशक्यते शक्तिसंग्रहैकविधात्रापि शशशृङ्गमुत्पादयितु, येन कल्पितः समवायः पदार्थरूपतामारोहेत जगति । अनन्तसंबंधकल्पनागौरवं च स्वाभिमताय विश्वविधात्रे अल्पबुद्धिकत्वहेतुतयोपालम्भविषये प्रणेयं, नान्येषां कथनीयं कथमपि तत् । किञ्च-समवायोऽपि भवत्कल्पितः सर्वत्र जगति वर्तते एकदेशे वा घटादौ ? । सर्वत्र चेत्, वाय्वाकाशादौ रूपचेतनादिसमवाये किं बाधकं ?, न तत्र रूपं चेतना वेति चेत्, ननु केयं बालक्रीडा, यदि तत्र रूपं चेतना वा भवेत् स्वतः, किं शिखण्डिना ? सम्बध्यते चेत्तेन, नवीनेश्वरावतारः कणादो महीयान् महीयसां कालादीनां समग्राणां चैतन्यादिविधाता । परम् दरिद्राणां जायन्तेऽफलिनोपि मनोरथाः। न चासौ तु महर्षेरभूदिति दुर्भाग्यं महज्जगतः । सर्वत्र वर्तमानोप्ययं किं सर्वात्मना वर्तेत देशेन वा ? । आद्य, स्पष्टमनन्त सनवायकल्पनापत्तिर्मनोरथमहीरुहोन्मूलने करिणीव विभ्रा Page #97 -------------------------------------------------------------------------- ________________ न्यायावतारः .BDO.B.D.2000000000000000000200.००००००००००००००००००००००००००००००००००००००................. जते।अन्त्ये तु, सावयवतापत्तिः समवायस्य । तथा च अवयवावयविनोः समवायस्वीकारात्तत्रापि समवायस्वीकारोऽपरिहार्यो यमदण्ड आपतेदेव । अन्यच्चासौ समवाय उपलक्ष्य जात्यादीन् समवैति व्यक्त्यादिनोत समवीयमानान् स्वयं तान्प्रयोजयति ? । आये, अहो ! समवायस्य सर्वव्याप्तिमत्त्वाच्चैतन्यमत्त्वाद् द्रव्यगुणयोगादिविधातृस्वाच्चायत्नसिद्धम विधातृत्वम् । अन्त्ये तु; विधातारमुपालभस्व येनासमवायं योजिताः पूर्वमे त्यलम् कल्पनाकल्पितमात्रार्थवादनिपुणैः । विशिष्टता च सम्बन्धाविनाभाविनीत्यपि न बाधकम् । यतोऽस्त्येवाविष्वग्भावरूपः सम्बन्धो द्वयोरेषैव चायुतसिद्धता युक्तति स्वभावत एव जीवे चेतनेति । न चाईति स्वभावः पर्यनुयोगम् । अन्यथा शक्यते भवानपि पर्यनुयोक्तु केनापि यदुत-कथमग्निदहति नैवाप इति युक्तमुक्तम् 'निर्भासीति । स्वान्यनिर्भासकत्वाभावे च प्रमातृत्वमेव न स्यात्। परनिर्भास्यत्वे तस्याप्यपरनिर्भास्यत्वे न कदाप्यकुरयेद् बोधबीजं घ्रातमनवस्थया। न च वाच्य स्वयं स्वस्कन्धम नारोढुम् समर्थः सुदक्षिणोऽपि, नवा सुनिशितापि शस्त्री स्वां छिनत्तीति न सुनिपुणोऽपि प्रमाता खं प्रमातुमलम्भबिष्णुरिति । नहि दृष्टान्तमात्रेणार्थप्रत्ययो यथार्थप्रतीषिषूणां भवेद् । अन्यथा मृगतृष्णाया अलीकत्वेन स्वात्मनोप्यलीकत्वम् । अत एघोक्तम् प्राग् यदुत अन्तर्व्याप्त्यैव साध्यस्य सिद्ध बहिरुदाहृतिः । व्यर्थैव तदसद्भावेप्येवं न्यायविदो विदु' ॥ रिति । न च भवति कस्याप्येवं प्रत्ययो यदुत-अहं मां न जानामीति। किंतु दुःख्यह सुस्यहमित्यादौ स्पष्टैव सुखसमानाधिकरणकाऽहंता ज्ञानवत्ताऽत्मनः। न च स्याहतेऽनुभवापलापसामर्थ्यम् अनात्मनीनात्परेषाम । दृष्टान्तो न च नास्त्यत्र । यथा न.पृथ्वीप्रभासनप्रत्यलप्रभापतेर्भासने अन्यसूर्यसमीहा, उद्योतिताखिलापान्तराले दीपे वाऽन्यदीपवाञ्छा विनान्धितदृष्टीन् भवत्यन्येषाम् । तेषां तु भाऽवेपि तथात्वमेव । एवमत्रापि Page #98 -------------------------------------------------------------------------- ________________ ८० न्यायावतारः 100000000000000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००...0000000 स्व ऽन्याऽऽभासके आत्मनि नान्यप्रकाशकेच्छाऽनात्मगृहाम्। योगशास्त्रकारास्तूचुः स्पष्टमेव-'श्रात्मानमात्मना वेत्ति भोहत्यागाद्य आत्मनी'त्यादि । ननु कथमिदं जाघटीति परस्परविरुद्धम् कर्मत्वम् कर्त्तत्वम् करणत्वमपादानत्वमधिकरणत्वं चेति चेन्न सागस्यतै वैकान्तबादाकान्तकृपाणकषितजगत्स्वभावानां पदार्थद्रु हाम् । स्याद्वादिना तु कथञ्चिद् गुणगुणिनोः भेदाभेदवादेन स्यादेव युक्तियुक्तमेतत् । यतोद्रव्य. रूप आत्मनि ज्ञानरूपेणात्मना सततोपयोगैकस्वभावमात्मानं स्वभावस्थितं स्वरूपरमणं वा निरुपाधितया शुद्धरूप उपयोगात्मा स्यादेवालं वेदने । भवत्येव चायमेव प्रत्ययो विदितविश्वभावानां सर्पः स्वशरीरं स्वशरीरेण स्वशरीरे वेष्टयतीतिदर्शनेन स्पष्टः । स्कन्धादिदृष्टान्तश्च युक्त एव भवतामिव तेषां स्तब्धत्वात् स्वेषां स्वेषु किमपि कर्तुं मशक्यत्वात् । न चैतावता सर्वेष्येवम्भूताः पदार्थबाता इति प्रत्येति प्रतीतिनिपुणः । न चानवभासकत्व आत्मनो ज्ञानसहस्रेणापि ज्ञानवत्ताप्रतीतिः । अन्यथाऽऽकाशेऽपि स्यात्तथाप्रसङ्गः । न च न प्रतीयत आत्मनि ज्ञान ज्ञानेनावभासनं तथेति वाच्यम् । यतो ज्ञानवानहमिति प्रतीतिर्नोपायसहस्रणापि आत्मनः स्वावभासकत्वमन्तरेण प्राप्नोत्यौचित्यपदवीम् । ज्ञानस्यैकस्य तथात्वे चाहमात्मनीत्येव स्यात्प्रत्ययो, न तु पूर्वोक्तः । तथैव ज्ञानानवभासकत्वेऽपि न ज्ञानमुत्लन्नमपि जानीयादसाविति कथङ्कारम् जञ्जल्पत्यसौ ज्ञानवानहमित्यज्ञानात्मेवेति । नादर्शनो देदीप्यमानदीपपक्तिमपि प्रत्येति कदापि । न च नार्थो ज्ञानेन तर्हि, स्वान्यावभासकेनात्मनैव तत्कार्यविधानादिति वाच्यम् । स्वज्ञानावभासकत्वेपीतरावभासने तस्य सोपयोगतरत्वात् । मत्या श्रुतेनानुमानेन जानामीत्यादिप्रत्ययादपि स्वीकार्यवान्यत्रावभा - सने ज्ञानस्योपयोगितेति न गतार्थता ज्ञानेन स्वपरप्रकाशरूपेणात्मनः स्वान्यावभासकत्वस्येति सुष्ठतम्-'स्वान्यनिर्भासीति । स्वभावतः स्वान्यनिर्भासिनोप्यात्मनो नाकारणो भवति व्यापारोऽसौ Page #99 -------------------------------------------------------------------------- ________________ न्यायावतारः ८१ ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० यावन्नायं प्राप्ताप्रमेयप्रभासनपटुपरमज्ञानपाटवः । कथं च तस्य ज्ञानोत्पादकारणसमवायः समवैति, किमेवमेव सर्वभावाः स्वभावेने'त्यादिवत, किंवा कालेन 'न कालव्यतिरेकेण गर्भबालशुभादिक 'मित्यादिवत् । यद्वा-'न कर्तारमतिक्रम्य किञ्चिज्जगति जायते' इत्यादिवदित्याशङ्कासम्भवे स्वभावस्य विचित्रत्वाभावात् तत्तद्वैचित्र्यस्यानिबन्धनत्व पत्तिं कालनियत्यादिकमपि तथैवावधार्यापरिमितदूषणपूरपूरितमात्मनो ज्ञानकरणेन्द्रियादिकर्मणां तथैवान्येषामपि व्याचिचिक्षिषत्रःफत् त्वं प्रतिपादयन्त आहुः-'कर्ते'ति । करोति-विदधाति मिथ्यात्वाविरतिकषाययोगादिभिरष्ठप्रकारमप्यदृष्टमिति कर्ता । न च वाच्यं को हेतुर्मिथ्यात्वादीनामिति। कर्मणोऽनादित्वेन तदसम्भवाभावात्, भवन्ति च कर्माणि पूर्वेषां पूर्वेषां कार्यमुत्तरेषां च कारणभिति। बीजा. ङ्कुरन्यायेनोपपत्ते नवस्था क्षयङ्करी । यतः सैवाऽनवस्था भवेत् क्षयङ्करी, यत्र स्वसिद्धयेऽन्यमन्यमवलम्बते वस्तु । न चेमान्येव न सिद्धानि तदुत्पत्तिविमार्गणे एव पूर्वकर्मपर्यन्तमनुधावन्ति । बीजमपि समधिगतं प्रत्यक्षेण कुत उत्पन्नमित्यन्विष्यते तदुपादानं, तदाङ्. कुरे, तदुपादानान्वेषगे च बीजे, एवमग्रतोपतो भवत्यनुसरणमिति । यथैव च बीजस्यानादिता, तथैव कर्मणामपीति सुध्येयं सुधीभिः। ननु च कथमात्मनः कर्त्त त्वं ?, यतो जाघटीति तदहङ्कारस्य, अहं करोमिति प्रत्ययात् । यदाह-अहङ्कारः कर्ता,न पुरुषः । अहङ्कारश्च लाघवख्यातिसौख्यलक्षणसत्त्व दुःखक्रियालक्षणरजः-रोषलक्षणतमोरूपत्रिगुणसाम्यावस्थालक्षणप्रकृतिजबुद्धिजन्यः न च वाच्यम् अचेतनस्य तस्य कथं कर्त्त ता ? बुद्धिधर्मस्वात्तस्य, सापि प्रकृतिलक्षणाऽचेतनजन्येति । कः किमाह ? क्षीरादिवद्भवत्येवावेतनस्यापि कर्त्त त्वम । पुरुषत्वसङ्गत्वा व कर्ता । 'असङ्गोऽयं पुरुष' इतिवचनात् । सति चासङ्गत्वे यदि कर्तवमनुमन्यते, स्यात्तदा मुक्तानामपि कर्त्त ता । तथाच मुत्ति:संसारयोरविशेषः । न च वाच्यं तय स्त्वदृष्टस्य कर्त्तत्वम् यत्तत्सम्बन्धं चेत् पुरुषस्यासङ्गताव्याघातः, असङ्गत्वे च न स्यात्ततः किञ्चि Page #100 -------------------------------------------------------------------------- ________________ ८२ न्यायावतारः 00000000000............................00000000000000000000000000008866066@ दपि । नह्यम्बु बीजेनासंबंधमुत्पादयत्यङ्क रादीति, उक्तं च- 'निर्गुणत्वातदसम्भवादहङ्कारधर्मा ह्ये ते' । न च वाच्यं सम्बन्धाभावे प्रकृत्यात्मनोः कथं स्वस्वामिभावः ? इति अदृष्टस्य तन्निमित्तत्वे नाश्रयणाद्। यद्वाऽविवेकादेव तत् । यतः सति विवेके प्रकृत्यात्मनोर्न क्रिमपीति चेत्। उच्यतेप्रकृतिर्नित्या अनित्या वा ? । आद्ये, बुद्धयादीनां कथमिवोद्भवः' । नह्यु - पादानस्य पूर्वावस्थाSरित्यागे भवत्युत्तरावस्था । सत्कार्यत्वं तु प्रयासानर्थक्यं - क्रिया व्युपरम व्यपदेश- तत्कार्याभावादिनाऽनुच्चार्यमेव । तन्न स्वनीत्या तत्सम्भवोऽपि कुतस्तत्कर्त्त ता । अन्त्यस्तु नाभ्युपगम्यत एव । अभ्युपगमे या कादाचित्कत्वाद् भाव्यं तन्निमित्तेन । तथा चायात आत्मैव निमित्त त्तम् । अन्यच्च प्रकृतिरात्मसम्बद्धा कुर्यात् किमप्यसम्बद्धा वा ? | भाद्ये, असङ्गत्वव्याहतिः स्पष्टैव । अन्त्ये न कार्यलेशस्याप्युद्भवः । अन्यच - अमिति पुरुषः प्रवक्ति तदन्यो वा ? । पुरुषश्च तू स्वसिद्धान्तविरोधः । 1 • प्रकृतेः क्रियमाणानि, गुणैः कर्माण्यनेकशः । अहङ्कारविमूढात्मा, कर्त्तामिति मन्यते || १ || इति श्लोकवृत्तिसदसत्कर्मवाचकायाः प्रकृतेः कल्पितप्रकृतिवाच्यतां स्वीकृत्य यदि चोच्येत प्रकृतिजन्ये ऽहङ्कार एवाहमितिचेत्, नन्वहं जानेऽहं भुनज्मि मुक्तश्च प्रकृतेर्भवामीति पुरुषस्य मन्यतेऽहंताऽन्यस्य वा ? । आये, को विरोधोऽत्र । अन्त्ये, प्रकृतेभोंगाश्रयता चिदात्मकता प्रकृतियोगपरिजिहीर्षा चापद्येत । प्रतिविम्बोदयेनैव भोगादिरिति चेत्, नामूर्तस्य प्रतिविम्बादि । आकाशवच्चेत्, नैतदमूर्त्तस्याव शिस्य, किन्तु तद्वतिप्रभादेः, अन्यथाकाशस्यापि साकारत्वाभ्युपगमापत्तेः । अन्यञ्च त्वन्मतेन विभुत्वादात्मनः सर्वेषां भवेयुः प्रतिबिम्बानि । असङ्गस्यामूर्त्तस्य प्रतिबिम्बभावे तु स्यात् मुक्तानामपि प्रतिबिम्बता । अन्यथा स्यात् प्रकृतिमतां सम्बन्धेन मूर्त्तता बलात्कारेणापि । अन्य - सर्वव्यापिन आत्मनो नित्यायाः प्रकृतेर्वियोगः कथं भवेत ? । Page #101 -------------------------------------------------------------------------- ________________ न्यायावतारः ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० न तावत् प्रकृतिरन्यत्र गच्छेत् । श्रामापि च नैव । सम्बन्धो व्यपैति चेद्, हंत ! हताऽसङ्गतोक्तिः । ससङगे च तस्मिन् का व्याहतिस्तस्य कर्त्त तायाम् । अदृष्टनिमित्तं प्रकृतेः स्वत्वमप्यात्मनो युक्तियुक्तं भवति सम्बन्धे एव बीजाङकुरन्यायेन भवदुदितेन । सङगै च प्रकृत्यात्मनो न कथञ्चिद्भेदेऽभेदे चाघटमानता । कथं च प्रकृतिर्जडा जनयेद् द्विं? यदि जनयेत् कारणं स्वानुरूपं कार्यमुत्सादयेदात्मानमाप। तन्नार्थः पञ्चविंशतितमेन पुरुषेण । कथं चैतन्यानुपपत्त्यात्माऽनुमापि। स्पष्टैव प्रच्छन्ना नास्तिकता । कथं च निवर्तते जडा प्रकृतिः । स्वयं निवर्त्तने च स्पष्टमेव यमनियमादेवैयय, सर्वेषां मुक्तिभावश्चाकारणम । प्रकृतिनिवृत्तेः सहेतुकत्वे च स किं पुरुषकृतः प्रकृतिकृतो वा?। आये, यथा प्रकृतिनिवृत्तिकारणस्य विवेकादेः कत्तत्वं तथैवादृष्टानामभ्युपगन्तव्यम् । अन्त्ये, प्रकृतेः स्ववधाय किं स्यात् करणीयं विवेकादि, करणे वा न तत्संयोगोऽपि तदैव, वियोगकर्तत्वस्वभावस्याव्याहतत्वात् । नवीनोद्भवे तु तत्स्वभावस्यावश्यमन्वेषणीयं कारणमन्यत्, तच्चात्मैवेत्यायातः कर्तृत्ववादः पुनः । अन्यच्च-यथा प्रतिबिम्बेनैव भोक्तताऽभ्युपगम्यते तथापि किमिति नाङ्गीक्रियते कत्तु ता । न चास्त्य तरेण भोगं सम्बन्धो नूतनादृष्टेन । भोक्ता चासावात्मा चेत्. तथा कर्त्ताप्यङ्गीकरणीयः समानयोगक्षेमत्वात् । तथा च किमुच्यते-'प्रकृतिः करोति पुरुषः उपभुते' इति । अन्यच्चकिमपराद्धमात्मना, यत्प्रकृतिकृतमशुभादिकं भुनक्त्यसौ । संसर्गमात्रं तु भवन्मतेन मुक्तात्मभिरपि सर्वव्यापित्वादात्मनामस्त्येव । पुण्यपापनियमोऽपि प्रत्यात्म न स्यादेव चैवं, यथावत् सम्बन्धे च किमिति रास्टयतेऽसङ्ग एवायं पुरुष इति । चिन्तनीयं चावश्यमिदं यदुत-भवान्तरे गतिारकादिका कस्य ? को वागच्छति? प्रकृतेर्जडत्वात्तस्या अभोक्तत्वाचात्मनश्च सर्वव्यापित्वाभ्युपगमाद् गमनाभावात् । निमील्याक्षिणी विचारयिष्यति भवानवश्यं हास्यत्येवालीकोऽहङ्कारः स्वस्य कतां विभुतां चात्मेति । असङ्गाधर्मत्वादिकं च श्रुत्युदितं Page #102 -------------------------------------------------------------------------- ________________ ८४ न्यायावतारः 1000.00000000000000000000000000000000000000000000000 0000000: 600000006000000060066000 · पुरुषविशेषमनुश्रित्य ज्ञेयम् । सापेक्षाञ्चाभ्युपगम्यन्ते श्रुतयो भवतापि । अद्वैतप्रतिपादकानां यथा वैराग्योद्देश्यता जामित्यादेश्व प्रकृत्युद्दे श्यतेति सुष्ठुक्त - 'कर्ते 'ति । श्रहं भुनज्मीतिवदहं करोमीति निर्वाध प्रत्ययभावात् । आत्मर्त्तकत्वादेव च भावलक्षणमनुसृत्य करणं तीव्रमन्दकर्मबन्धादि तदुदयादि च युक्तियुक्तम् । यथाहि अनुभूता स्मर्त्ता, अननुभूतस्याननुभावकस्य वा स्मरणाभावः । एवमध्यक्षं सुख - दुःखादिवेदनद्वाराऽबाध्यानुभवेनानुभूयमाना भोक्तता न कर्त्ततामन्तरेण सम्भवेत् । सम्भवे चाकृता म्यागम- कृतनाशापत्ति दुर्वारैव । अधिष्ठातृत्वं तु स्वरूपेणाज्यावावेन यथा कतृतायां तथा भोक्त तायामिति समानमुभयत्रापि । नहि सम्ब वेनादृष्टस्यात्मा जडीभावमापद्यते । नहि सुवर्णं मलयुक्त' न तत्सुवर्ण, जहाति या सुवर्णताम् । कर्मणां चाचेतनत्वेपि प्रकृतिवच्चेतनाव धिष्ठितत्वेन स्यादेव गत्यन्तरादि, भवन्त्येव च चेतनाधिष्ठितानि शरीरादीन्यचेतनान्यपि क्रियाकत्तणीत्यलमतिप्रसक्तेनैतेनाधुनेति । न च वाच्यं प्रमातृलक्षणमेतत्, प्रमाता चानुसमयं समालोकितसकलवस्तुस्तोमत्वात् समस्तशुभाशुभसमूलकाषङ्कषक: सिद्धोऽपि भगवान्, अनन्तचतुष्टयसम्पन्नत्वात्तस्य । न चासौ क्षीणाशेषक्लेशत्वात सुकृतदुष्कृत लवस्यापि विधायकः । तथात्वे च पुनरावृत्तिप्रसङ्गात्, न चावृत्तिरस्य, साद्यनन्तत्वात्तस्य । उक्त चान्यत्रापि'न मुक्तस्य पुनर्बन्धयोगोप्यनावृत्तिश्रुतेः । अपुरुषार्थत्वमन्यथा । अविशेषापत्तिरुभयोरि[ सां०]त्यादिना तदव्याप्तमेतद् । अत्र वने केचिद्यदुत संसारिजीवापेक्ष मेव तल्लक्षणम् । ते च सर्वेऽपि कर्त्तार एव शुभाशुभानां कर्मग, कैवल्यानन्तरावाप्त केवल केवल वेदसोऽपि बध्नन्त्येवादृष्टं सातवेदनीयम् । व्याप्तिश्च शुभाशुभान्यतरबन्धेन, नोभयेन । तथाप्रकार - जीवाभावेनासम्भवादेव । यतो नास्येव शुभाशुभरूपो मिश्रो बन्ध इत्यन्यदेवैतत् । एतदपि संव्यवहारार्ह जीवापेक्ष मेव । यतो वक्ष्यन्त्यन्ते'सर्वसंव्यवहर्त्तणां प्रसिद्धापि प्रकीर्त्तिनेति । ततो नायोगिन्यव्याप्तिरFact' अजोगि' त्तित्रवनात् इति । अन्ये तु व्याचक्षते 1 G Page #103 -------------------------------------------------------------------------- ________________ न्यायावतारः ८५ 190000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० यत्कर्त त्वमानं विवक्षितम् । तेन न क्वापि व्याप्तिविरोधः । भवगानां भवकारणादृष्टानां कर्तत्वात् । सिद्धार्थानां श्रीसिद्धभगवतां तु स्वगुणकर्तृत्वात् । नह्यक्रियस्य सर्वथा भवन्ति ज्ञानादयोऽपि गुणा निश्चयेन तत्कर्त्त तैवात्मलक्षणभूता । अयोगिनोप्येवं नाकर्त ता, या कर्माण्यपेक्ष्याकर्त्तत्वात् संव्यवहारातीतत्वेन समाहिता परः । एवमेव भोक्तु. ताप्यग्रे वक्ष्यमाणावबोद्धव्या । परमेतावद्विशेषो-यदुत-अयोगिनि भोगोऽस्त्येष सुकृतदुष्कृतान्यतरस्येतरसंसारिजीववत् । तत्तेपि व्यावहारिकभोक्तृगणान्तर्गता गण्यन्ते । न विरोधलवोपीति । तत्त्वतस्तु नैतत्समग्र लक्षणावच्छेदकया प्रवेशितं सूरिभिः, अन्यथा का गतिः यः कर्ता कर्मभेदानां, भोक्ता कर्म फलस्य च । संसर्ता परिनिर्वाता, सह्यात्मा नान्यलक्षण ॥१॥ इत्यादिव्याख्याने । किन्त्वन्येषां कुनयमार्गानुसार्यभिमतजीवस्त्र. रूपाणां व्यवच्छे देन जीवस्वरूपाविर्भावनाय । अन्यथा प्रमातृत्वमात्रमेव लक्षणमुपयोगो लक्षणमिति वचनवत् । यद्वा-व्याप्यं लक्षणमेतत् । न चास्ति नियमो व्याप्यनिवृत्तौ व्यापकनिवृत्त्याऽवश्य भाव्यम् । नहि यत्र न धूमो न तत्र कृशानुरित्यस्ति व्याप्तिः । धूमसद्भावे त्ववश्य भाव्यं हिरण्यरेतसा। एवमत्रापि । न यावज्जीवं कर्त्त ता. नियमः किन्तु व्याप्यत्वाद् यावत्कर्तृ जीवत्वमित्येव । तथाच लक्ष्यतेप्रज्ञायते, लक्ष्यमनेनेति लक्षणमिति व्यवच्छेदार्थकतया लक्षणशब्द उन्नेयः। न चास्त्यजीवानां कर्त्त त्वादि, येन व्यभिचारि स्यादेतत् । तद्वद् वाच्यवाचकवाच्यतावत्त्वं वावसेयमिति । न प केवला कर्त्तता, किन्तु भोक्त तापि, यदुक्तम् अन्यैरपि कृतकर्मतयो नास्ति, कल्पकोटिशतैरपि। अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभ ॥१॥ मिति । पारमर्षेपि कडाण कम्माण न मोक्खोअस्थि अवेइअत्ता अनिजि Page #104 -------------------------------------------------------------------------- ________________ न्यायावतारः .०००००००.०० 00000000000००००००००००००००००००००००००००००००००००००००००००००००००000000000000 ण्णइत्ते' त्यादि। तत्कृतानां कर्मणां भोक्तताप्रतिपादनायाहुः भोक्त'ति। भुनक्ति-कृतमनुभवतीति भोक्ता । उभयपदोऽयं। यद्वा भुङ्क्ते -धातूंनाम नेकार्थत्वाद् ‘भोगोऽयं पदातिर्मे' इति दर्शनादनुभवति विपाककाल इति भोक्ता-अनुभविता। यद्वा अस्त्वभ्यवहार एवार्थः। चावकर्मणामनुभवनियमादेव । न च वाच्यं कर्त्तत्वग्रहादेव गतार्थमिदं, नार्थोsनेनेति। यतो नैहिकपारलौकिकभेदेन भिन्नैव कर्त्तता भोक्तृता च । नहि नियमोऽस्त्येष यदुत-यदा कर्ता तदैव भोक्ता, किन्तु कालान्तरे भवान्तरे वेति ज्ञापनाय । यद्वा-य एव कर्त्ता स एव भोक्ते ति दर्शनेनैकान्तनित्यानित्यत्ववादिनौ शिक्षयति, यदुत-नैकान्तनित्यत्वे एकान्तानित्यत्वे वाङ्गीक्रियमाणे युज्येते कर्त्त ताभोक्तृते। किन्तु कथञ्चित्रित्यानित्यतया जात्यन्तरगते एवोभे एते। यतोऽवस्थाभेदो हि भेदकोऽत्रस्थावतः । नहि घटो नष्ट इत्यत्र घटतया परिणत द्रव्य नष्टं, कपालोसादस्याऽऽकस्मिकत्वापत्तेः। किन्तु कपालावस्थोत्पन्ना घटावस्था च नष्टा । न च मृदः घटकपालौ भिन्नावेव । तथात्वे निद्रव्यतापाता. दाकृतेः, किन्तु भिन्नाभिन्नावेव । विवेचितं विस्तरेणैतत्पूर्वम् । किञ्चैकान्तनित्यानित्यानां नैव युज्यतेऽर्थक्रियापि । यतो नित्योsनित्यो वा क्रमेणार्थक्रियां कुर्याद्युगपद्वा ? । नाद्यन, यतोऽस्य तथाकरणे किं कारणं ?, कारणापेक्षेति चेकिं कारणेनान्तर्गडुकल्पेन । क्रियते अतिशयापादनमिति चेत्, स्पष्टवाहितातिशयतयाऽनाहितातिशयतया च भिन्नता तद्रव्यत्वेनाभिन्नता च ।क्षणे च नैवक्रम एव। न च नित्ये एकान्तेन तद्रहितस्य तद्वत्ता अनित्ये चावस्थानाभावात्तद्वत्ता भवेदिति। युगपच्चेद्, द्वितीयक्षणेऽकर्त्तत्वात् स्पष्टोऽवस्थाभेदः नित्यैकान्तस्य । अनित्यैकान्तस्य तु द्वितीयक्षणे निरन्वयविनाशस्य प्रत्यक्षविरुद्धस्याभ्युपगमे न स्मरणादि । न चार्थक्रियैव घटते तावदेकान्ते, यतो ज्ञातृत्वकर्तृत्वानुभवितृस्मत त्वादीनां भिन्न कालीनत्वमेककर्त्त त्वं चानुभूयते एव । न चेदं तथाऽभ्युपगमे । नहि यदेव Page #105 -------------------------------------------------------------------------- ________________ . न्यायावतारः .0080000000000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० कर्त त्वं तदेव भोक्तृत्व, तयोभिन्नावस्थाभावात् । एकान्ते हि न परस्परविरोधिक्रियायुग्मं युज्यते कथञ्चनापि । तदुक्तम्क्रमाक्रमाभ्यां नित्यानां, युज्यतेऽर्थक्रिया नहि । एकान्तक्षणिकस्वेऽपि, युज्यतेऽर्थक्रिया नहीं' ॥१॥ [वीत०] ति तद्युक्तमुक्त-कर्ता यथा तथैव भोतति । यद्वा-नाभोक्तृणां कता, सिद्धष्वपि तथाप्रसङ्गात् कर्तृत्वस्याहेतुकत्यापाताच । न च पाच्यमेव सतीतरेतराश्रयत्वं स्पष्टं स्यात्, कतै त्वस्य भोक्तृत्वाश्रयाद् भोक्तृत्वस्य कर्त्तत्वाश्रयाच्चेति। बीजाकुरदित्तरेतराश्रयाभावात् । यतोऽन्यदेव भुज्यते कर्म, क्रियतेऽपि चान्यदेव । न च भवति कर्मपरिपाकाभावे आत्मनस्तथाविधोऽध्यवसायः । न च तदभावेऽभिनवकर्मकरणमिति योग्यैव कत्तु गापेक्षेति । एवं च कर्तृताभोक्तृताद्वयेन जीवस्वरूपं प्रतिपाद्य तत्रिबन्धनीभूतं परिणामवाद दिदर्शयिषव पाहुः- 'विवृत्तिमानि ति । तत्र विवर्त्तनं-देवत्व-नारकत्व नरव . तिर्यक्वादिरूपेण परावर्त्तनं विवृत्तिः-परिणाम इत्यर्थः । यदाह- नार्थान्तरगमो यस्मात्, सर्वथैव न चागमः । 'परिणामः प्रमासिद्ध इष्टश्च खलु पण्डितैः ।। तथापरिणामो ह्यन्तिरगमनं न च सर्वथा विनाश इति । नावस्थानं च तथा परिणामस्तद्विदामिष्टः ॥ १॥ न चापरिणामिन आत्मनः कर्त्त त्वं भोक्तृत्वं वेति । विवेचितं चेदं पूर्वम् । यद्वैतत्त्रयं हेतुहेतुमद्भावेन योज्यम । यथा यत एव कर्ताउज एव भोत्ता, यत एव च भोत्ताऽत एव विवृत्तिमानिति । न चापरिणामिन आत्मनो भोक्तृत्वादि युक्तियुक्तम् । अत एवोक्तमन्यत्र कषच्छेद निरूपणानन्तरं तदुभयनिबन्धनं भाववादस्ताप' [धर्मबिंदुः] इति 'परिणामिन्यात्मनि हिंसादय' इति च । न चापरिणाम द्रव्यं Page #106 -------------------------------------------------------------------------- ________________ न्यायावतारः .0000000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० सम्भवत्यपि । यतो ‘गुणपर्यायवद्रव्य'मित्युच्यते । गुणपर्यायाश्च स्थिरीभूते द्रव्ये एव उत्पद्यन्ते । न च द्रव्यमपि सर्वदा समानरूपम् । यत:-सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः । मृद्भावाद्यनुवृत्तेराकृतिजातिव्यवस्थाना ॥१॥ दिति । समक्षमनुभवात् । यदि च न स्यात परिणामो द्रव्यादीनां, कुतस्तरां प्रतिक्षणं विविधकार्यकरणशक्तिसमुत्पादः । सत्येव च परिणामे स्मरणप्रत्यभिज्ञानादीनि भवन्ति । यत: पूर्वकाले यो ज्ञाता स एवाग्रतो यद्यज्ञातृत्वावस्थः तद्वस्त्वाश्रित्य भवेत्तदा स्मर्त्ता, ज्ञातृत्वस्मत त्वयोर्विरोधात् । नहि यद् यदा ज्ञायते तदा तस्य स्मरणं संविद्यते । न च ज्ञातृत्वस्मर्तृत्वयोरैक्यम, एकस्येन्द्रियादेरुद्भवाइन्यस्य च संस्कारादेरुद्भवावलोकनात । न चाननुभविताऽअनुभूत वा स्मयते केनापि किमपि । अन्यथा सर्वस्य सर्वानुस्मृतिप्रसङ्गात् । अनुभवसिद्धच स्मरणमिति नापरिणान्यात्मा। अवस्थाद्वयविरोधो नित्ये, एककर्त्तकत्वविरोधश्चानित्ये सर्वथा । न च ज्ञानस्यैव भिन्नत्वं तेनेति । यतो न केवलं ज्ञानं ज्ञातृत्वेनोच्यतेऽस्ति वा । न च ज्ञानविशेषेण विशिषता [न] जीवस्य ज्ञानस्य साश्रयत्वादावेयभेदे चाधारतापि तन्निरूपिता भिन्नैव । न चाधारताऽऽधाराद्भिन्नेति, भिन्नभिन्न ज्ञानानामधिकर णताप्रयोजको भवत्येकस्वरूप आत्मा कथम् । न चान्यस्मिन्नात्मनि भवेत् स्मरणादि, पूर्वोक्तातिप्रसङ्गस्य जागरुकत्वात् । न च द्रव्यस्यास्ति सर्वथा विनाशेऽर्पण-याचनादिव्यवहारः। अयं गुरुः सोऽन्तेवासीत्यादिव्यवहारस्याध्यक्षसिद्धत्वं तूभयोरपि । स च प्रत्यभिज्ञानोत्पाद्य एव । न च युज्यते सर्वथा नित्येऽनित्ये वैतदिति स्वीकार्य: परिणाम्यात्मा । न च भवान्तरगमो युज्यते अपरिणामिन्यात्मनि, जीवत्वेनावस्थानानरादित्वेन विनाशाच । नवोभयोरे कतराभावेऽपि भवति युक्तिसङ्गतं तद्गत्यन्तरादि । स्पषश्च मनुष्यत्वादेरभावो देवत्वे, नरत्वे च देवत्वाभावः । न चाऽन्यो जीव उत्पन्नो, वीतरागजन्मा Page #107 -------------------------------------------------------------------------- ________________ न्यायावतारः 8 000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० दर्शनन्यायेन तस्यानादितया स्वीकरणीयत्वात् । उत्पादे वा स्पष्टैव पूर्वस्य कृतस्याफलता उत्तरस्याकृतस्याप्यभ्यागमता च । एवं हिंसाद्यहिंसादि च व्यर्थमेव । न च धनादि यथा पुत्रादेरुपयोगितामेति, तथा सन्तानस्योपयोगितामेष्यति हिंसादिजन्यादृष्टमिति घाच्यम् । सन्तानस्य भिन्नाभिन्नत्वकल्पनया सन्तानिभ्योऽयुज्यमानत्वादुभयथापि भवत्कल्पनया, अन्यथा सन्तानस्य परिणामितापातः । सन्तानस्यापि च क्षणिकत्वं न कथ ?, तस्यापि सत्त्वाविशेषात् । सन्तानिरूपत्वे चानर्थक एव सन्तानाभ्युपगमः कल्पितश्च । न च तथा भवेद्वासनासक्रमादि । न च वासनासक्रमो युक्तो द्वयोः क्षणयोः, तुलोनामावनामादिवच्चेन्, नैतत्पर्यालोच्य भाषितम् । नहि तुलाद्वयस्यैककालीनतावदस्ति द्वयोः क्षणयोरेककालीनता, येन युक्तो भवेद्वापनासक्रमः। नित्यवाहे तु न नरादिभवनाशो देवादिभवोत्पादो घा युक्तः । एकस्मिन् विरुद्धत्वाद्, द्वयोर्विरुद्धधर्माभ्युपगमे च स्पष्टः स्याद्वादा युपगमः, पूर्वापरावस्थाभ्युपगमेन परिणामित्वाभ्युपगमश्च । यतः सात चैकस्मिन् जीवेऽनेकावस्थाभावेन कथमिवैक्यं भवेत् । ननु प्रमातृत्वादियुक्त आत्मा विचार्यते विचारवद्भिर्भवद्भिः, परमविचारितमेवैतद् । यतः सति धर्मिणि धर्माश्चिन्त्यंते, नाऽसति ।धर्मी च भवदभिमतो जीवः । स एव च नास्ति यदा, तदा का तस्य प्रमातृस्वादिचिन्ताकणिकापि ? । न चालीकमिदम् । यतः प्रमाणाधीना हि प्रमेयव्यवस्थितिः । न हि प्रमाणातीतमभ्युपगम्यते सद्भिः । प्रमाणातीतश्च जीवः । यतोऽसावभ्युपगम्यमानो भवद्भिः केन प्रमाणेन परिच्छिद्याभ्युपगम्यते, प्रत्यक्षेणेतरेण वा । आद्यन चेत् । तन्न चारु, हृषीकाणि हि स्वस्वविषयेषु रूपरसगन्धस्पर्शशब्देषु नियतानि । न च तद्वानात्माभ्युपगतो भवद्भिः । योगिप्रत्यक्षेण वेविद्यते चेत्. तत् केन प्रमाणेन भवद्भिः प्रमितं ? यत्तैः प्रत्यक्षेण ज्ञातो जीवः । प्रत्यक्षेण तावन्नैव, विनष्टानुत्पन्नस्य ह्यग्राहकवादिन्द्रियाणाम् । न चेतरदस्ति मानं, यतो ज्ञायेत तत् । आगमस्त्वधुनाss Page #108 -------------------------------------------------------------------------- ________________ ६० न्यायावतारः .०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००000000000000000000000000 न्दोलायमानप्रामाण्य एव । न चास्त्येव मानसं प्रत्यक्षं प्रतिप्राणिसिद्ध, येन सुखदुःखाद्यभिगमः तेन चात्मावगमो भविष्यतीतिवा- . च्यम् । तथा सति विप्रतिपत्त्यभावात् । नहि प्रत्यक्षावगम्ये भवति विवादः। यथा प्रत्यक्षेषु भूतेषु । विद्यन्ते चात्मसत्ता-तद्वयापकतैकताऽकर्त्त त्वादिविषयेषु विप्रतिपन्ना अनेके । तन्नासौ प्रत्यक्षसमधिगम्य.। न च प्रत्यक्षतरद् विद्यते प्रमाणं, विसंवादित्वात् शेषाणाम् । तथात्वेपि तत्प्रामाण्येनानुधावनं चेद् भविष्यत्येव विनिपातः । यदाह-हस्तस्पर्शादिवान्वेन, विषमे पथि धावता। अनुमानप्रधानेन, विनिपातो न दुर्लभः ॥ इति ।। किच-अनुमानेनापि प्रत्यक्षेतररूपेण कथं गृह्य तासौ ? । यत इदं गृहीतलिङ्गसम्बन्धे भवेदन्यथा वा ?। नान्त्यं, तथात्वमेव नानुमानस्य । सिध्येच्चैवं तु यत्किमपि शशशृङ्गादि जीवाभावाद्यपि च । आये तु न कदापि जीवः प्रत्यक्षगोचरमागतो, येन तत्सम्बद्धलिङ्गग्रहोन्यथानुपपत्तिश्च निर्णीयेत । अभावे च तयोः कथमिव भवेदनुमानप्रथा। यतो नादृष्टवह्निधूमस्य धूमस्य लिङ्गत्वेन वह्नयन्यथानुपपन्नतया वा ग्रहो भवति । तन्नानुमानमेयः प्रमाता । आगमोपि परस्परविसंवादितया कथमिव स्वप्रामाण्यं ख्यापयेद्, येनात्र स स्यात् प्रमाणीभूतः । न चाप्रमाणेन सिद्धिः कस्यापि, अन्यथा सर्वसिद्धिप्रसङ्गो दुर्वार एव स्यात् । न च पुरुषप्रणीत एवागमः प्रमाणतया जागद्यते, न चासौ विसंवादि, दृष्टेष्टाव्याहतरूपत्वात्तस्येति वाच्यम् । यतस्तस्य पुरुषविशेषस्य सिद्धिरेव तावत्कुतो ? न प्रत्यक्षेण, तस्य वर्तमानमात्रग्रहणनिपुणत्वाद् । अनुमान - मपि (नानुमानेन) प्रत्यक्षपूर्वकत्वात्तस्य । आगमेन साधने तु स्पष्ट एवान्योन्याश्रयः । पुरुषविशेषसिद्धावपि जिनेन्द्र एव सर्वज्ञो, बुद्धो नेत्यत्र का प्रमा ? द्वयोरातत्वभावे च किं विरोधोऽजयोमते ? इत्यादेश्वर्चनीयत्वात् । उपमानं तु नाप्रत्यक्षे विषये सक्रमते । दृश्यमान Page #109 -------------------------------------------------------------------------- ________________ न्यायावतारः ६१ ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० गषयस्य गोसदृशत्वाधिगमे हि स्यादुपमानम् । न चात्र तथेश्यते। अर्थापत्तिस्तु नानुपपन्नोर्थो जीवमन्तरेण समस्ति । यतस्तं कल्पयेत् । चेतना तथाभूता चेत्। न, तस्या भूतजन्यतया भूतविलयतया च प्रत्यसीक्रियमाणत्वाद् भूतधर्मतौचित्यात् । दृश्यते च क्षीरादिभ्यो बुद्धिवृद्धिर्मद्यादिभ्यो हानिश्च तस्याः। यदीयं स्यादात्मगुणरूपा, नैवाभविष्यतामेवं वृद्धिहानी । न चाभावस्तत्सत्तासाधकः, तस्य प्रतिषेधपरायणत्वात् । सम्भवैतिह्यादीनि च नाविसंवादीनि । तथात्वेऽपि च भिन्नतयाभिमतानि भवद्भिरास्तिकैः । न च सन्ति भिन्नानीत्यतो नास्त्येव जीव इति निर्णेयम् । असति च जीवे प्रमातृत्वादिप्रतिपादनं वाचाटतामेव व्यनक्ति वावदूकस्येति । प्रतिविधीयतेऽत्र-स्वस्थो भव, प्रथममुच्यतां तावद् भवता यदुत-कोऽयं निषेधकः ? केन वा मानेन निषेधयत्यमु ? प्रथमं तस्य वचनस्य प्रमाणवे आगमप्रामाण्यापातोऽन्यथा चानिषिद्धा जीवसत्तेति तथाहि-न तावद्वाच्यं भूत इति । तस्य जडत्वेन निषेधकत्वाभावात् । सति च जडानां निषेधकत्वे, न कथं भवानपि निषिद्धो भविता ? । अपि च भवतां जडरूपता केन साधिता ? न तावत् प्रत्यक्षेण, वक्त त्वेनैव भवतोऽप्रत्यक्षत्वात, न च केनापि हृषीकेण, भवता पूर्व जडानां वक्त त्वमवलोकितं, येन ब्रू याज्जडो वक्त ति । कुरु मौनं, प्रथमकवल एव मक्षिकापातं सम्पादय । न च प्रत्यक्षेणाधिगतो जीवाभावः, तस्य प्रवर्तकत्वादेव सिद्धिः स्याज्जीवस्य, न त्वभावः । न च वाच्यं प्रत्यक्षाभावाप्जीवाभावोऽवगम्यते इति । यतो न तावद् भवत उत्पत्तिरेव भवतः प्रत्यक्षा, कुतस्तरां मातापित्रादि। तथा च भवान् नोत्पन्न एव, अनुत्पन्न एव च वक्तति महच्चित्रम् । न चामातापितृकस्य भवतः सम्मूर्छनजस्येव विचारकणिका युक्तोद्भवितु, येन निषेधनं कुर्यात् । कथं च क्षुक्षुदुपशमादीनां प्रत्यक्षाधिगम्यत्वाभावेऽपि यतते भोजनाय ? । न चास्ति नियमो यदुतप्रत्यक्ष निवर्तमानं निवर्त्तयति वस्तुसत्ताम् । अन्यथा जीवाभाव एव नैन्द्रियक इति सोपि नास्त्येव, नास्ति च वाक्यमपि, भवतो Page #110 -------------------------------------------------------------------------- ________________ १२ न्यायावतारः 000000000000000000000000००००००००००००००००००००००00000000000000००००००००००००००००००००००००0000 विनष्टत्वेनाप्रत्यक्षत्वात्। तत् कस्य निर्वचनं वाञ्छसि । अनुमानादि च नैवाभ्युपगम्यते भवता स्पष्टम् । अथ न नैवाभ्युपगम्यते सर्वथा, किन्तु यद् यथार्थं वह्नयादिज्ञापकानुमानादिवद्, चिरं जीवतु । तथासति न नियमो यदुत-प्रत्यक्षमेव प्रमाणं, नानुमानादि । किन्तु यदेव प्रमेयाव्यभिचारि, तदेव प्रमाणम, परं चाप्रमाणमिति । न च वाच्यं प्रत्यक्षमविसंवाद्येव, अनुमानादिकं तु न तथेत्यप्रमाणतो द्घोष्यतेऽस्य । यतोऽध्यक्षं दृश्यते मरुमरीचिकाजलावभासप्रत्यक्षादीनां व्यभिचारिताऽनुमानादीनां च बहूनामव्यभिचारितेति न भ्रान्तव्यं भ्रातर्भवता व्युवाहणया । न चास्त्यनुमानाद्यपि निषेधकं जीवस्य । यतो वक्त शक्यमत्रापि, यन्न जीवाभावः प्रत्यक्षः, कथं तदा तत्प्रतिबद्धलिङ्गाग्रहणादनुमानादीत्येवं सर्वे भवदुक्तमवतारणीयमत्र जीवनिषेधेपि भवतैव । न खल्वयं सतामस्ति न्यायो, यदुत-पराभिमते एव प्रमाणान्वेषणा, न स्वानुमते इति । पर्यनुयोगपराण्येव सूत्राणि वाचस्पतीनामिति त्वनभिमतभावाभावोभयस्यैव युक्तमवलम्बयितुमन्यथावलम्बने तु स्पष्टैवार्धजरतीयन्यायानुसृतिः। अन्यथा भवतां स्थापनाहीनपक्षवादित्वेन विकटैवं वैतण्डिकता। प्रश्नमात्रसूत्रप्रणेतृणां तु 'कायाकारपरिणतसमुदाय. पुरुष' इत्यपि वचनं न भवतामागमाप्रामाण्याभिमन्तृणामभिमतसिद्धये। यतः स एवाभिधाताऽभि. धाता स्ववचनाप्रामाण्यम् । तथाच स्वतो व्याघातितस्वप्रामाण्यस्य कथं भवेत् प्रामाणिकभावः १ । यच्चोक्तं निषेधयता प्रमातृत्वादिविशिष्टं जीवं यत् 'प्रमाणाधीनेत्यादि । तद् युक्तमेव, किन्त्वसिद्धमेव जीवस्य प्रमाणातीतत्वभणनम् यतो, यत्तावदुक्तं-'केन प्रमाणेनेत्यादि । तत्र व मो-यत्सकलप्रमाणज्येष्ठेन प्रत्यक्षेणैव तत्सत्ताऽवगम्यत एव, किमन्यमानगवेषणया ? । नहि मुधा लभ्यन्ते यवाश्चत् क्रीणीरन् कोपि तान् । अहमिति प्रत्ययः सर्वेषां स्वानुभवसिद्ध एव । न च कोऽपि ब्र यावं यदुत-अहं मां न जानामि। तथाच नाऽहंप्रत्यये विप्रतिपत्तिः । न च वाच्यमई गौर इति भवत्यहप्रत्ययः शरीरगोचरोपि, Page #111 -------------------------------------------------------------------------- ________________ न्यायावतारः ६. ३ odaada sooooooboo......0000000000000000000000000000000000000000000000000000000000009 तत्कथं नासावपि भवेत्तद्गोचर: ? । सत्यं तादृशोस्ति, पर गौरं मे शरीरमिति भेदेन तदर्थभूतप्रत्ययस्य दर्शनादवितथतया प्रतीयते. यदुत य एवाप्रत्ययगोचर: कोप्यस्ति शरीरे स एष प्रागुपचर्य प्रोक्तोऽहंपदेन । अन्यथाऽत्र षष्ठ्या भेदेन निर्देशो नैव भवेत् । अन्यच्च अहं ज्ञानवानिति प्रत्ययेन ज्ञानाश्रयस्यैव कस्यचिद्वाचकोऽयमहं प्रत्यय इति स्वीकार्यमेव । न च भवति कदाचिदप्येवं प्रत्ययो यदुत -अहं ज्ञान - मिति, येन चैतन्यस्य भवेदप्रत्ययवाच्यता । स चोत्पद्यते भूतेभ्यो ज्ञानाश्रयो 'विज्ञानघन एवेत्यादिवचनादिति त्वन्यदेव । विचारयिष्यामोऽग्रे तदपि । न च मनः प्राणो वाऽहंप्रत्ययप्राह्यः, तस्य मे मनो मे प्राण इति प्रत्ययेनालीकत्वस्य स्पष्ठु निष्ठुङ्कनात् । न च वाच्यं मे आनेति प्रत्ययादपि तदप्रत्ययग्राह्योऽन्य एव स्वीकार्यः । यतो न शरीरे एकस्मिन्ननेका आत्मानः प्रतिपद्यन्ते, प्रतिपत्तौ वा नान्योन्यमहं ममेति वाच्यता वा स्वीक्रियते । आत्मानेकत्वाभावेऽपि तस्यैकस्याप्यात्मनः पूर्वापरपर्यायभेदेन ज्ञानादिगुणेन वा कथवि द्भिन्नाभिन्नत्वावगमात् । न चाहंप्रत्ययान्न भवन्ति सुख्यहं दुःख्यहं ज्ञान्यहं जानेहमित्यादयः प्रयोगा व्यवहारविषयगताः । तथा च ज्ञानसुखदुःखाश्रयः कश्चिच्छरीरमनः प्राणव्यतिरिक्तः स्वीकार्यः । इन्द्रि - याणां च स्पष्ठैव न तद्गोवरता, तदपगमेपि तद्दर्शनात् । पश्चाज्जातबधिरभावोऽपि वक्त्येव विचारकवृन्दस्यापि - यदद्दमश्रौषमिति । तद्वदितरेन्द्रियाणामपि । न चेन्द्रियादिसमुदाय उपचरितोऽयं प्रत्ययो धान्यसमुदाये कार्यादिमानवत् । तथात्वे सर्वेषामहं स्वामीति न भवेत् सर्वस्वस्वस्वस्वामित्वदर्श कोऽहं प्रत्ययः । आत्मनश्च प्रतिप्राणि स्वानुभवसिद्धत्वादेव च ' केनासौ गृह्यते प्रत्यक्षेपीन्द्रियादिने' त्यादिकल्पनमयुक्ततरमेव । वक्त वा 'बादी भद्र' न पश्यती' तिन्यायेन तथापीन्द्रियज्ञेय विषयाभावेपि सुखादीनां मनोगम्यत्वात् मानसप्रत्यक्षेण तद्ग्राह्यतायां को विरोध: ? । यतो मन आत्मना संयुक्त' यदि स्यात्तों वार्थ प्रकाशक तामवाप्नोत्यात्मा । यद्वा I 7 Page #112 -------------------------------------------------------------------------- ________________ १४ भ्यायावतारः 00000000000000000000000०००००००००००००००००००००००००००००००००००००००००००००००00000000000000000 ज्ञानस्य स्वपरप्रकाशकत्वात् प्रकाशयतु तदप्यात्मानम । तत्त्वतस्त्वात्मैव स्वपरप्रकाशकः, येनाहं मनोयुक्त इत्याद्यपि प्रादुर्भवदवेक्ष्यते ज्ञानं, तन्न विरोधमधिरोहेत् । स्वपरिमाणमप्येवं सति ज्ञेयं स्यात्, महच्चित्रमन्यथा, यत्स्वय स्त्रपरिमाणं न वेत्तीति चेत् कः किमाह ? । तेभ्य उपालम्भ एष, येऽनुभवापलापपापपूरप्रचुरमलीमसारमानः शरीरमात्रतां न स्वीकुर्वतेऽध्यक्षसिद्धामात्मनः । वय त्वभिदध्महेयच्छरीरमानोयं जीवो, वक्ति च स्वयमपि यदुत-जखशिखान्तमहमेवेति । अत एव वक्ष्यन्ति सूरिपादा यत्-'स्वसंवेदनसंसिद्ध' इति । यञ्चोक्त-नाध्यक्षसिद्ध विप्रतिपत्ति'स्तदपि न विचारितम् । यतोऽऽस्त्येवाध्यक्षसिद्ध प्यध्यक्षापलापपातकिनां वेदान्तिनां शून्यवादिनां च भूतसमुदाये विप्रतिपत्तिः, नैतावता तानि न सन्ति । न चाध्यक्षसिद्धेऽवयविनि स्थाष्णी च पदार्थे न क्षणिकवाद्यादीनां न विप्रतिपत्तिः, अस्ति चेत्. किमु भूतसत्तावयवित्वादि [किमिति] स्वीक्रियते भवतालीका चेत्तेषां विप्रतिपत्तिस्तदा किं नात्र विचार्यते। तथा चेतना चेदनुभवसिद्धा, जीवा अपि तथव, यथा घटरूपादीनां प्रत्यक्षाद्घटादयोऽपि व्यवह्रियन्ते प्रत्यक्षा इति । न च रूपाद्यन्तराऽन्यत् किमपि द्रव्यमवलोक्यते । तद्वदत्रापि ध्येयं निमील्य नेत्रे बोद्ध भिः । यदवादि च-'न प्रत्यक्षतराणां प्रमाणत्व'मित्यादि । तदप्यविचारितरमणीयम् । यतो भवता केन तदप्रामाण्यमधिगतम् । । न प्रत्यक्षेण, तस्य प्रवर्त्तनामात्रपरायणत्वात । विसंवादाच्चेन्मानसमेवैतत्समालोचनं परोक्ष च तदिति स्पष्ट एवं व्याघातो वदतां भवतामेवम् । न च परैरभिमत. मितरत्तत्प्रमाणतयेत्युच्यते इति वाक्यं वचनीयम् । यतो भवता तस्यानुमानस्येतरप्रमाणाप्रामाण्यव्यवस्थापकस्य प्रामाण्यमभ्युपगम्यते न वा? । आद्य, प्रकटैवापन्ना बलात्कारेणाप्यनुमानप्रामाण्यता। अन्त्ये च, न निषिद्ध स्यादेवं प्रामाण्यमनुमानस्येत्यायातो 'न निषिद्धमनुमत'मितिन्यायेन तत्रैव । कथं च नैवमाप्नोसि प्रामाणिकपर्षदि निग्रहस्थानम् ?, परपक्षानुमतेः 'प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते' आयाता। Page #113 -------------------------------------------------------------------------- ________________ न्यायावतारः .000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० सा च निग्रहस्थानमेव । अनिराकरणेऽपि वानुमानस्य स्यादेव तदवाप्तिः । यतः प्रामाणिकसमयोयं यदुत-विज्ञातस्य परिषदा त्रिरभिहितस्याप्रत्युचारणम् । पराभिमततयोच्यमानमपि न प्रेक्षाकारिणामर्हति योग्यताम् । नहि कोप्यज्ञो मनुते गुडं विपतयेति तन्मारणेप्सुना विदुषापि तस्मै दीयते गुडो, विषं वाऽमृततयाध्यवसितमिति तत्पुष्टये दीयते विषम। तद्वदत्रापि यदि परेणाप्रमाणनप्यनुमानं मौढ्यात स्वीकृत प्रमागतया, तर्हि भवद्भिरतिप्राज्ञैरपि स किं ते न पथ्यवता. रणीयः । भवद्भिः कथं स्वीकृताऽनुमानादेस्ता प्रमाणतेति त्वन्यदेव परावर्तनीय स्यात् पुनः । न चानुमानाद्यप्रामाण्ये युक्त वक्त मपि भव. ताम् । यतो नानभिसन्धाय पराभिप्रायमुन्यमान वाक्यं वचनीयता. मतीत्य भवत्यन्यस्मै कस्मैचिदपि लाभाय । न तथाऽनूचानो लभते च प्रवरपर्षत्पारिषद्यताम् । पराभिप्रायश्चातुमानेनैव लक्ष्यः । यतो 'नेत्रवक्त्रविकारैश्च लक्ष्यतेऽन्तर्गतं मनः' इत्युदाहृतमेव नीतिनिपुणेन। अनभिसन्धायैव चानुमानोत्सर्जनाद्वाच्यं भवद्भिक्यिमपि पराभि-- प्रायम् । न च तद्युक्तमिति । अबोचन च कोट्यात्मकग्रन्थग्रथनगरि ष्ठयशःपुरवपुष्काविनानुमानेन पराभिसन्धि-मसंविदानस्य तु नास्तिकस्य । न साम्प्रतं वक्तुमपि क चेष्टा, क दृष्टमात्रं च हहा!प्रमादः॥१॥ इत्यादि। उच्यते च भवद्भिर्वचनं, मन्ये तत्कूटमानोन्मानव्यवहर्त्तवद् भिब्रहृदयो भवान मा मेऽभिप्रायमेते विषयार्थनादिकं श्रोतारोऽन्त्रमास्यदित्यास्थदनुमानस्याप्रामाण्यमादितः । भवतु किमपि, किं नः । यच्चोक्त-विसंवादित्वात्तत्प्रामाण्येनानुधावनम् इत्यादि । तदप्याममतानुकूलतया निर्दूषणमभिप्रायाज्ञत्वं भवतां शोभाकारकमपि विद्वद्विचयजुगुप्सनीयमेव । यतो नहि प्रमाणयत्यनुमानाभिधानेन, किन्त्वबाधितेन । न च प्रत्यक्षवद् विसंवादीति कथं तदनुसतणां विनिपाताय भवेत चिन्त्यतां क्षणमिति । विनिपातायाभवद् भवतामेव Page #114 -------------------------------------------------------------------------- ________________ ६६ न्यायावतारः .०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००000000000000000000 मभ्युपगम इतिनिर्विवादः पन्थाः। यच्चावादिषुर्भवन्तोऽनुमानेनापी'त्यादि । तदप्यनालोचितमेव रमणीयम् । यतो न लिङ्गलिङ्गिप्रत्यक्षनियमोऽनुमानोत्थाने, किन्तु अन्यथानुपपन्नत्वज्ञानमेव । तच्च प्रत्यक्षेणाऽन्येन वा येन केनापि भवन्न विरोधमधिरोहेत् । अन्यथा कथमिव भवन्त एव तावदनुमानमप्रमाणतयो ष्याज्ञमोहनाय 'चैतन्यं भूतधर्म' इत्युदाहरिष्यन् । नहि भूतावलेभवन्ती भवद्भिरनु - भूता चेतनास्ति, येनानुमीयते जागद्यते वानुमाय चेतसा भूतधर्मश्चेतनेयं तदन्वयव्यतिरेकानुविधानादित्याद्यालोचनीयमन्तर्लोचनेनैकान्ते कान्तविचारैः । विचारणीयं तावत्-काठिन्यगुणा पृथ्वी, आपो द्रवलक्षणाः, वायुश्चलनलक्ष्मा, तेज: पक्तिलक्षणं, शुषिरलक्षणं च नभः इति भूतानां नियमिता गुणाः । न चैकस्यापि चेतना गुणः, दृश्यते चेयं । तथाच भाविन्येव व्याप्तिः, यतो भूतव्यतिरिक्त न भाव्यं केनापि चैतन्यगुणवता । अन्वयव्याप्तिवद् व्यतिरेकव्याप्तेरपि पदार्थावगमकत्वात् । अनुमास्यत्यनुमाता चेतनाया भूतधर्मताऽभावम् । काठिन्यादयो निवर्तमाना निवर्तयत्येव भूतधर्मतां चेतनायाः । तथा च तद्वानन्यः कोपीति ज्ञाने यत्र यत्र चेतना तत्र तत्र भूतभिन्नः कोऽप्यन्यस्तद्वानिति । भविष्यत्येव भूतधर्मत्वानुपपत्त्याश्चेतनायास्तद्वता तद्वदनुमाननिबन्धनीभूता व्याप्तिः। न चासौ दृष्टा कदाचिदपि भूतमात्रे, येनानै कान्तिकशङ्कापि।निमील्य विलोक्यतां वा भूतपञ्चकं चेदनुमानप्रथां व्यर्थयितुमीप्सा, भवति नवा चेतना, यदि भूतसमुदाये चेतना भविष्यतीति मनो भवेत् । यदि च देहाकारणाग्रहस्तदापि चिन्तनीयमिदं तावद्यन्न जगति समानाकृतिशरीराश्चेतनावन्तः सन्ति, येन शरीरस्य भवेनियताकृतिस्तथापि पञ्चालिकायां मेलयन्तु तत्पञ्चक भवति न वा सा, तत्रापि नैव सा चेत् 'किमागृह्योच्यते'भूतधर्मश्चेतने ति.। नहि विपक्षवृत्तिवासिद्धौ भवेदनेकान्तिकतां कथ च बाधकनामापि । अन्यदिदं तेजो वायुर्वेति चेत्, स एव चेतनावान्, तेनैव चेतनाया अन्वयव्यतिरेकानुविधानात् । अन्वय Page #115 -------------------------------------------------------------------------- ________________ न्यायावतारः 600.000.000.000.......................................000000000000000 000000000000000 व्यतिरेकानुविधायि च कारणं नामान्तरमेवैतज्जीवस्य तदपि । ननु सूक्ष्मं तेज आदि दृष्टं भवद्भिरनुभूतं वा चेतनाकारणतया, न चेत् कथमुच्यते ?, अनुपपत्त्या चेतनायाश्चेद् वरं चिरं जीवन्तु यदायाता एवानुमानमथाप्रामाण्ये, न च तथापि सिद्धिर्वाञ्छितस्य जाता । यतः सूक्ष्मस्यापि तेजसो वायोर्वा बादरतेजोवायुवत् पक्त्त्यादिगुण एव भावी । न च चेतनाऽन्यविधं तद्युगलं चेत्, किम् लज्जथ ? जीवाभिधानेन, यदन्यमन्यं व्यपदिशय, न तु भुजङ्गनलिकान्यायेनापि न्याय्याध्वान प्रतिपद्यध्वे । चेतना भूतधर्मश्च ेत् प्रत्येकस्य समुदितस्य वेति त्वन्यदेव । अधुना अनुमानप्रथा च विपश्चितां विश्र तापि समुच्चित्योच्यमाना भविष्यत्युपकारायेति सिद्धेपि जीवे उच्यते भयस्कारवदादाता जीवो रूपादि गृह्यते । भुज्यते भूघनं भोक्ताऽस्यात्मा योगाः परेरिताः ॥ १ ॥ चेतनायाः कषायेभ्यो लेश्याभ्यः प्राणधारणात् । भूतभिन्नत्वतो ह्ये भ्योऽन्यार्थ चेन्द्रियपञ्चकम् ॥ २ ॥ चित्तं च चेतना ज्ञानं [धारणोहे] ईहा तर्कों मतिः स्मृतिः । प्रत्यभिज्ञानमनुमा नैं ते स्युर्जीवमन्तरा ॥ ३ ॥ नाभावे संशयो जीवे नर्त्ते जीवान्निषेधकः । नासतो वाचकः शब्दः शुद्धो जीवोऽर्थवान् ध्वनिः ॥ ४ ॥ (समासरहितोऽर्थान्यः शब्दो जीवेति वाच्ययुक् । नासतो वाचकः शब्दो भुवि शून्यत्वमर्थतः) ॥ शून्यतापेक्षिकी गेहं शून्यं यत्तन्न सासती । विशिष्टकृतिमान् देह आदिमस्तिस्ककः ॥ ५ ॥ एषां प्रयोगा मतिमद्भिरुह्या बोधो बुधानां भविता यदेभ्यः । हेतून समीक्ष्येप्सितमर्थमात्तु धीराः समर्था ऋषिभिर्यदुक्ताः ॥ ६ ॥ Page #116 -------------------------------------------------------------------------- ________________ न्यायावतारः 00000000000000000000000000000000००००००००००००००००००००००००००००००००००००००००००००००००00000000 न सौख्यदुःखं यदबीजमस्ति, यत्तस्य बीजं तदकर्तृ के न च । यद्देहभावेपि विचेतनत्वं, तद्वानभूद्यः स गतः शरीरात् ॥१॥ इच्छाः शरीरे विविधा अभूवन, पूर्व गतेऽस्मिन्न चलेशतोऽपि सा। तद्भूतभिन्नः शरीरे पुराभूद्, भूतेषु सत्सु यदिदं नचेच्छति ॥२॥ (कोप्येष भूतेषु न सत्सु गर्ध) अभूत्पुरेदं वचनानि यच्छत्, प्रश्नान् विचित्रान विविधार्थचारून् । कुर्वत्समाधानविधिं च प्रश्ने, नियोगयोगस्य च दात नाधुना ॥३॥ इत्यादि बोध्यं सुधिया स्वयं यत्, सर्वाःक्रिया जीवगतान वाध्याः। यास्तीतकाले करणे सजीवेs-धुनान ता एक क्रिया हि तस्य । ४।। यच्चावाचि-'नागमोपि प्रमाणयति जीवसत्ता मित्यादि । तदप्यसमञ्जसं साधून, यतो नहि कोपि भवतोऽन्तराऽपलपति जीवसत्तां साक्षात्सिद्धाम् । अत एवोक्तमन्यत्र-'नात्मा लोकेऽपि नो सिद्ध'इति । लोके तावत् 'अच्छेद्योऽयमभेद्योऽय-मविकार्योऽयमुच्यते । नित्यः सततगः स्थाणु रचलोऽयं सनातनः ॥१॥ [गीता] तथा 'न चास्य आदिर्न च सम्प्रतिष्ठे'त्यादि।'न हन्यते हन्यमानेशरीरे'। श्रुतिष्वपि-'शृगालो 4 एष जायते यः सपुरीषो दह्यते । अथापुरीषो दह्यते आक्षोधुका अस्य प्रजाः प्रादुर्भवन्ति । बौद्धराद्धान्तेपि 'अहमासं भिक्षयो! हस्ती, षड्दन्तः शङ्खसन्निभः । शुकः पञ्जरवासी च, शकुन्तो जीवजीवकः ॥ तथा-'इत एकनवते कल्पे, शक्रया में पुरुषो हतः । तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः' !" Page #117 -------------------------------------------------------------------------- ________________ न्यायावतारः 000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० पूर्वमीमांसायां-'काम्ये कर्मणि नित्यः स्वर्ग'इत्यादि । आक्षपादीये-'आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः प्रमेयम् । शरीरोत्पत्त्यधिकरणे च पूर्वकृतफलानुबन्धात्तदुत्पत्तिः। शरीरोत्पत्तिनिमित्तवत् संयोगोत्सत्तिनिमित्तं कर्म । प्रेत्यभावे आत्मनित्यत्वे प्रेत्यभावसिद्धिः' इत्यादि । काणादीयेऽपि-पृथिव्यापस्तेजो घायुराकाशं कालो दिगात्मा मन इति द्रव्याणि । प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्च आत्मनो लिङ्गानि' । तथा कापिलीयेपि-'अस्त्यात्मा नास्तित्वसाधनाभावात् देहादिव्यतिरिक्तोऽसौ वैचित्र्यात् लघुन्यपि पुरुष' इति । पारमर्षे तु'अस्थि मे आया उववाइए । एगे आया । इह खलु छजीवनिकाया पन्नत्ता' इत्यादयोऽपरिमिता एवालापकाः। इत्यादि । कियल्लेखनीयम्। विहाय भवतः सर्व एवात्मास्तित्ववादित्वेन आस्तिकाः, न भवन्त इव नास्तिकः कोऽपि । यदप्यनूदितं-'परस्परविसंवादी'त्यादि । तदपि न सूक्ष्मेक्षिकेक्षितम् । यतो यथैकस्मिन्नेव वस्तुनि यदि दूरान्तिकादिभेदेन दृष्टिशुद्ध्यादितारतम्याद् भिन्नरूपं वीक्ष्यते तत्तदा किं तद्भावोऽवसीयते तेन चेद्, याहि सर्वशून्यवादी, नास्ति किमपि वस्तु सचराचरेजगति यत्सर्वैः सममीक्ष्यते, तथा भूतानामप्यभाव आपनोस्ति । चेद् भूतसत्ता निखिलैर्निभालनात्, तात्मापि सनिरीक्षितो ज्ञातो वेत्यस्त्येव । यद्यप्यस्त्येव धर्मविषये तस्य तेषां विप्रतिपत्तिः, परं न धर्मिविषये । अत एव च तेषामास्तिकाभिधा, न भवताम् । . यच्चोदाजहु रागमप्रामाण्यनिरसने-'न च पुरुषविशेष' इत्यादि। तदप्यसमीक्षतेरणीयम् । यतोऽहिंसादीन्यात्मनोपि सुखनिःश्रेयसकराणि न वा ? । आये, तत्प्ररूपणाचरणप्रवणः स्पष्ट एव पुरुषविशेष, तस्य तादृशता च तदाकृत्यापि सिद्धा । यतो नहि पुरुषाणामाकृतिरन्यथाकारं कत्तु पार्यते । किञ्च-आगमोपि तैस्तादृश एवाहिंसादिमय एव प्ररूपितः । तथा च यावज्जन्तुहितोपदेशकत्वादिनैव तस्य सर्ववित्पु Page #118 -------------------------------------------------------------------------- ________________ न्यायावतार: ००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००0000000000000000 रुषप्रणीतता साध्यते । तथा चोचिवांसोऽवाप्तयथार्थदिवाकराभिधानाः सूरय एवान्यत्र'वपुःस्वभावस्थमरक्तशोणितं, परानुकम्पा सफलं च भाषितम् ।। न यस्य सर्वज्ञविनिश्चयस्त्वयि, द्वयं करोत्येतदसौ न मानुषः' ॥१॥ चौलुक्यचूडाञ्चितचरणा अप्याचख्युः'वपुश्च पर्यकशयं श्लथ च, दृशौ च नासानियते स्थिरे च । नशिक्षितेयं परतीर्थनाथैजिनेन्द्र ! मुद्राऽपि तवान्यदास्ता' ।१।मित्यादि प्रमाणीकृताश्चात एव त आप्तविशेषैन च दृष्टेष्टबिरोधगन्धोपि, तत्कथमिव स्यादन्योन्याश्रयोऽनिर्णयोवा। तदूचुः कलिकालसर्वज्ञपादाः'हितोपदेशात् सकलज्ञक्लुप्ते, मुत्सत्साघुपरिग्रहाच्च । पूर्वापरार्थेष्वविरोधसिद्ध स्त्वदागमा एव सतां प्रमाण ।.१॥ मित्यादि __ अन्त्ये तु स्पप्दैवाऽऽत्मद्रोहिता । अस्विति । भवादृशानां नैवासौ निश्चयाहः । भाग्यं हि महन्महामणेर्यदुत-नायात्यसौ निर्भाग्यशेखराणां दोष्णि । आहुश्च पूज्यपादा अपि तद्दुःषमाकालखलायितं वा, पचेलिमं कर्म भवनुकूलम् । उपेक्षते यत्तव शासनार्थ-मयं जनो विप्रतिपद्यते वा ।।१।। यच्चोदितवन्ती भवन्तो जिनेन्द्र' इत्यादि । तदननुविचिन्त्यैव, यतः स्पष्टं दृष्टस्येष्टस्य चापलापिनां कथमिव भवेत् सर्वज्ञस्वम् । यदि च भवेत,को न सर्वज्ञः सम्पद्येता दृष्टेटविरुद्धत्वं सर्वथा नित्यानित्यवादिनां स्पष्टमेवाग्निबद्धम् कर्तत्वादिनिवन्धे । न च रागद्वेवमोहालया भवन्त्याप्ताः, तेषां स्वात्मघातुकानां कैच कल्यागकणिका भवेत् प्राप्ता । न च तदभावे यथास्थितार्थप्रणयनपरा प्रवचनप्रवृत्तिः परमा भवेत् । अत एव पठ्यते Page #119 -------------------------------------------------------------------------- ________________ भ्यायावतारः 10880000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० 'ये स्त्रीशस्त्राक्षसूत्रादि-रागाद्यङ्ककलङ्किताः । निग्रहानुग्रहपरास्ते देवाः स्युन मुक्तये ॥१॥ [ योग०] रागादिमत्त्वे च सुतरामलीकभाषिता । प्रतिपादितं च परमर्षिभिःरागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृत'मित्यादि । अत एव च रागादिमतो देवत्वेनोपासकानां शिक्षायै प्रोचुरेतत् - कृतार्था जठरोपस्थ-दुःस्थितैरपि दैवतैः । भवादृशान् निलु वते हाहा ! देवास्तिकाः परे ॥१॥ विस्तरार्थिभिर्लोकतत्त्वनिर्णय-वीतरागस्तवाऽयोगव्यवच्छेदद्वात्रिं. शिकादयो विलोकनीयाः स्वयम् । एवं च श्रीमज्जिनेन्द्रदेवस्य स्यादेव सर्वज्ञतानिर्णयः तदागम-चरिताचरणादिभिः । तथा च तदागमप्रामाः ण्यादपि स्यादेव जीवनिर्णीतिः । न चातीन्द्रियाणां पदार्थानां सद्भावप्रतिपत्तयेऽस्त्यन्यदागमेभ्यो मान परलोकविधौ च । अचिवांसश्चानूचाना: 'अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये। . न मानमागमादन्यत् सर्वविद्देशितः स च ॥१॥ तथा ज्ञायेरन हेतुवादेन, पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः, कृतः स्या तेषु निश्चयः' ।।२।। अत एवोचुरन्येपि 'आगमेनानुमानेन, ध्यानाभ्यासरसेन च । विधा प्रकल्पयन्प्रज्ञां, लभते तत्त्वमुत्तमम्' ।।१।। मान्यताप्यागमानां तेषामेव स्वीक्रियते परमाईतैः, यत्र जीवादि. मरूपण दम्पर्यशुद्धा । तदाहु: Page #120 -------------------------------------------------------------------------- ________________ न्यायात्रतारः 600000000000000000000000०००००००००००००००००००००००००००००००००००००00000000000000000000000000 'आत्माऽस्ति स परिणामी, बद्धः सत्कर्मणा विचित्रेण । मुक्तश्च तद्वियोगाद्धिसाहिंसादि तद्धे तु ॥१॥ रित्यादि। यच्चाकथयन् 'उपमानं त्वि'त्यादि । तदप्यनभिज्ञातपराभिप्रायमूलम् । यतो नासदुपमान, शशशृङ्गाकाशकुशेशय-वन्ध्यास्तनन्धयादीनामुपमानताऽदर्शनात् । किन्तु यत् सदेव स्यात्तेनैवोपमीयेत । यथा तडाकः समुद्रेण । उपमीयते च सूक्ष्मवायुस्ववेगादिना वा चलत् वस्तु यथा-सजीवमिदं चेष्टते, न चर्ते जीवसद्भावं युक्तमेतत् । नहि स नियमोऽस्ति यदुत-उपमानेन भवितव्यमेव, प्रत्यक्षेणादृष्टगोव्यक्तः सञ्जातकथञ्चित्तज्ज्ञानस्योपमानोपमेयबुद्ध्युत्पाददर्शनात् । कथमन्यथा ब्र युर्विचक्षणाः-अमृतीकारं मिष्टं सिंहवत्प्रौढशब्दः शूरश्च । तथाचोपमानसद्भावादेव जीवसत्ता सिद्ध ति। नात्रोपमानं जीवसिद्धौ न मानम् । न्यगादि याचापत्तिस्वित्यादि । तदबोधाञ्चितकुवासनाविलसित भवतां व्यक्ति जडिमावष्टब्धान्तःकरणताम् । यतोऽनेकास्तावत्तमन्तरेणानुपपन्नाश्चेतनाद्या विद्यन्तेऽर्थाः । तथा च कथं चख्युर्भवन्तो यदुत-'न ताहकोप्यर्थ' इति । यच्चावादिषुः 'चेतना तथाभूता चेन्ने'त्यादि । तद्भवतां व्यञ्जयति विकलचेतनताम् । यतस्तावत् सामान्येन दर्शितपूर्वमेव यन्न केनापि मानेन चेतनाया भूतधर्मता सिद्धा, तथापि किञ्चिदुच्यते-ननु भूतेभ्यश्चेतनोद्भवति चेत, सा भूतपूर्वा तेषु नवा?। आये, किं प्रत्येक समुदाये वेति विकल्पद्वयमितो व्याघ्र इतस्तटीतिवदुपतिष्ठते भवन्तम् मोहयितुम् । आद्य, चेतनानेकत्वप्रसङ्गः । न चानुभूयतेऽनेकाः । न च सापि दृष्टा प्रत्येकभूते । कार्येण कल्प्यते चेन्न निर्णयो भूतस्यैकत्रीकरणेप्यनुपलम्भात् । व्याप्त्यभावे च कथमनुमानमर्हति प्रथितुम् ? । न च प्रत्येकमसत् समुदाये भवदुपलभ्यते, सिकताकणेऽसत्तैलमिव । न चास्ति, परं नोपलभ्यते, समुदायेन च व्यक्तीकरणम् । अनुपलम्मकारणाभावात् भूतानांव्यञ्जकत्वप्रतिज्ञानात अन्यावारकत्वे चाभ्युपगम्यमाने स्पष्टाऽदृष्टपदार्थकल्पना। तथा चात्म Page #121 -------------------------------------------------------------------------- ________________ १०३ 10000000000000000000000000000000190000000000000000000000 30000000002000000000000000000000 कल्पनमेत्र श्रेयस्करम् । श्रन्यच्च आवारकस्य मूर्त्तत्वे तेन चेतनाया भूतगुणत्वात् पुष्ट्युपलम्भः स्यात् समानत्रस्तुगुणत्वात् । अमूर्त्तत्वे च नाबारकता । अनुमहोपघातकारित्वाभावादमूर्त्तानाम् । कथं परस्परोपग्रहो जीवानामितिचेद् अनन्तानन्तकर्म परमाणुपरिवेष्टितात्मरूपाः कथचिन मूर्त्ता एव ते, न चात एव सिद्धानामुपग्रहकारिता । समुदायेन व्यक्तीभवनमपि तदा स्यात् सिद्ध, यदांशतो दृष्टपूर्वा स्यात् प्रत्येकम् । यथाहि तिल एकस्मिन्नंशतोऽस्ति चेत्तैलं समुदाये बहु भवदवलोक्यते । न पुनरत्र सांगतोऽपि सिद्धा । न च केशस्येकस्य रूपस्य दर्शनाभावेपि समुदायेऽस्य दर्शनम्, तथांशतश्च तनाया अदर्शनेनि समुदाये दर्शनम् । दूरतो ऽदर्शनेऽपि दृश्यते एत्रा सन्नीभावे । परमाणुपुञ्जदृष्टान्तन्तु दूरोत्सारित एव । यतस्तत्र न दृश्यने वस्त्वेव, अत्र तु वस्तुदर्शनेपि तद्गुणादर्शनम् । अन्यञ्च - केनासौ भूतसमुदाय: पुञ्जी - क्रियते, येनोत्पद्यते तत्समुदाये चेतना स्पष्टा । अन्यस्य कारकस्याभावात् । कालादेः कल्पनेऽपि तस्यैकविधत्वाद् वैचित्र्यहेतुत्वाभावात् स्पष्टैव तत्कारकतयाऽऽत्मसिद्धिः । तथा च किमिति न मन्यते तद्गुणएव चेतना । अल्पबहुत्वादिपरिमाणेनैव तदुत्पत्तिश्व ेत, केन तर्हि तदुत्पादनार्थं तथापरिमाणानि मीलितानि भूतानि ?, स एव च कर्त्ता स्यात् । किञ्च भूतसमुदायादुत्पद्यने चेतना चेद्, यो यो महान् भूतसमुदायः तत्र तत्र चेतना महत्त्वेन भाव्यम् । यथा महन्मृत्पिण्डसमुद्भवो घटो महानेवालपश्चात्सपिण्डोद्भूतः । न चास्त्येषं महत्स्वपि हस्तिशरीरादिषु लघुतमेभ्योपि नृभ्यो बुद्धिमान्द्यदर्शनात्, नरेष्वपि च शरीरस्थौल्यानुसारेण बुद्धिभूयस्त्वानवत्तोकनात् । तत्परिणामः पित्तादिः कारणमित्यपि व्यलीकमेव । यतः सत्स्वपि सन्निपातादौ त्रयाणामप्याधिक्ये बुद्धिविकलतैवोपलभ्यते । उदीक्ष्यते च व्यभिचारोपि कृशादीनामपि बुद्धिबाहुल्याल्पीभावो तन्न सा तद्धेतुकेति । क्षीराद्यप सहकारिकारणं चेतनावतः क्षयोपशमे तदावरणस्य. न तूपादानकारणं मूलकारणं वा । यतो दृश्यते एव क्षीरादिपायिना , न्यायावतारः , Page #122 -------------------------------------------------------------------------- ________________ न्यायावतारः 000000000000000000000000000000000000000000000000000000000000000000000000000060000600 १०४ मपि बुद्धयल्पत्वं, परेषां तबाहुल्यं चेति । नांशतः सती चेतना प्रत्येकभूते समुदाये बहुलतया व्यज्यते । न चासत्यपि समुदायबलेनोत्पद्यते, मद्यागेषु मदशक्तित्रदणुषु स्थौल्यवद्वेति पक्षः शोभनः । यतो हि मद्याङ्गेषु सर्वथा मदशक्तिर्नास्त्येव, धातकीपुष्पपिष्टादिषु भ्रमजन - कत्वनुदुपशमादिदर्शनात् । अत्रयवेऽपदेवोत्पद्यत समुदाये चेत्, सर्वस्य न नियता स्याच्छक्तिरसत्त्वाविशेषात् । उत्पद्येत चैवं सति चाबा - दीन्यपि पृव्यादिभ्य इति नार्थः तत्त्वचतुष्यस्वीकारेण । न चाणुषु स्थौल्यमसदेव तत्समुदाये उपलम्भात् अणुसमुदायपरिणाम एव स्थूलत्वम् । न चामूर्त्तस्कन्धानां स्थौल्यं परमाणुता चान्यनिखिलपरिमाणापेक्ष याल्पतमयात् तदपेक्षया चाऽन्यस्यात्सपरिमाणस्यासत्त्वादेव । न च सौक्ष्म्यम्थौल्येति परिणामद्वयमणुसमुदायस्य बन्धभावापन्नस्योच्यते तद्विशोयते तेनेति वाच्यम् । तस्यापेक्षिकत्वात् । अत एबोच्यते निश्चयेन सर्वलघु सर्वगुरु वा द्रव्यं नास्त्येव । न च तर्हि कथं नारदशायां प्रत्यक्षमिति बादरस्थूलस्कन्धानामेव चाक्षुषत्वोत्पत्तेः । अत एव 'भेदसङ्घाताभ्यां चाक्षुत्रा' इति । तन्न सर्वथाऽसत उत्पत्तिः सम्भवति समुदायेन । तथा च कथं सर्वथाऽसती समुद्भवेच्चेतनापि समुदाये भूतानाम् । सत्पक्षस्तु पूर्वमेव निरस्तः । यद्यप्यभावो न जीवसत्तासाधकस्तथापि न भूतधर्मश्चेतनेति सावयत्येवासौ, तत्साधने चैनया साधयिष्यत एव जीवसत्ता । अपगमिष्यति च दुर्धरविषयविषमविषवेगमूर्छितानां भवतां मोहमहिमविजम्भितम् । तावन्मात्रम् चेत् साधयिष्यत्यभावमानम् । तथा च जीवसत्ता केवलमेकतमप्रमाणसिद्धा न, किन्तु पूर्वोक्तरीत्या सर्वप्रमाणसिद्ध वेति स्त्रीकार्यैव सा । नद्याख्यान्ति विद्व.सः प्रमाणसिद्धमर्थ विद्दाय तद्विपरीतम् । i एवं च सत्यपि प्रमातृत्वादिगुणयुक्तस्यात्मनः साधने प्रमाणप्रचये शेषमुपलक्षयन्नास्तिकाभिमतं प्रत्यक्षमेव जीवसिद्धौ प्रमाणतयोपदिदर्शयिषव आहुः - 'स्वसंवेदन संसिद्ध' इति । तत्र स्वस्य प्रानि Page #123 -------------------------------------------------------------------------- ________________ न्यायावतारः ००००००००००००००००००००००००.००ccc०००००००००००००००००००००००००००००००००००००००००००००००००००००००००० रूपितस्वरूपस्य प्रमात्रादिगुणगणयुतस्य, संवेदनं--सम्यगबाधेनविद्यते-ज्ञायतेऽनेनेति संवेदन-प्रत्यक्षं प्रमाणम् । यद्यपि ज्ञानमात्रमेव स्वसंवेदनमेत्र, आत्मगुणत्वादात्मन्येवोद्भूयमानत्वाच्च तथापि परार्थप्रत्यक्षादिसत्त्वाद् यथा पश्य पुरोऽकलङ्कितज्ञानसम्पन्नशान्त्याद्यपरिमितगुण त्नरत्नाकरायमाणां श्रीजिनेन्द्रप्रतिमामित्यादि । यद्वासंवेदयति-ज्ञापयतीति संवेदनम् । 'नन्द्यादिभ्योऽन [११३५१] इत्यने । बोधकमित्यर्थः । स्वस्योक्तरूपस्य संवेदनं स्वसंवेदनं, आत्मप्रत्यक्षकारकं ज्ञानमित्यर्थः । . अत्राहुः केचिद्यदुत-तत्रात्मा मनश्चाप्रत्यक्षे'इति वचनानैवात्मा प्रत्यक्षः । सति च तस्मिन्नात्मप्रत्यक्षे तद्व त्तिज्ञानसुखाद्यवलोकनापत्तः । यो यो दृश्यते पदार्थस्तस्य तस्य गुणा अपि वीश्यन्त एव । यथा घटप्रत्यक्षे तद्पादीनां प्रत्यक्षम् । न चात्मनि ज्ञानादयोऽदृष्टादयो वा ज्ञायन्ते । तन्त्रात्मा प्रत्यक्षः । न च वाच्यं प्रत्यगात्मन्यहंप्रत्ययभावाद चार्विदम् । यतोऽहं यज्ञदत्तोऽई विष्णुदत्त इत्यादि स्वाभिधानोचारणपूर्वकमवलोकनेऽन्तः, सति च मनसो गमने न किमप्यवेक्ष्यतेऽहंतास्पदं समक्षतयेति उच्यते औपचारिक एवासावहंप्रत्ययः । तदिदमुक्तं पूज्यमुनिना 'यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावाद् दृष्टलिङ्ग न विद्यते' इति । न च तर्हि कथमहमिति प्रत्ययः प्रत्यगात्मनीति वाच्यम् । वेत्ति तावदयं जीवो, यदुतक्रियानानं वचनादिकं सचेतनविषयकं सकत कं कर्तारमन्तरेणोचारणाद्यभावात् तन्मदीयवचनादिकमपि सकत केन भाव्यम् । कर्त्ता च नान्यः कोपि देहे मदीये, किन्त्वहमेवास्मीति कर्ताहमेव । मदीयेच्छाद्यनुसारेणैव च जायते प्रवृत्तिनिवृत्ती इति सामान्यतोदृष्टाऽनुमानेनैवाहमिति प्रत्यगात्मनि प्रत्ययः । तदाह-सामान्यतोदृष्टाचाविशेष' इति । ननु च यदि प्रत्यगात्मनि जायमानोऽहं प्रत्ययोन प्रत्यक्षः तर्हि किमिति भासते प्रत्यक्षोऽहमित्यादीतिचेत् । नासावागमसंस्कार Page #124 -------------------------------------------------------------------------- ________________ १०६ न्यायावतारः ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००00000000000000000000000 जन्योप्यहंप्रत्ययः, किन्तु झटित्यात्मनि बहुश: प्रत्ययभावादहंप्रत्य. येन प्रत्यक्ष इव गृह्णाति । यथा बहुशोऽनुस्मृतमङ्गनादि प्रलोकयति मनसा साक्षाद्भ तमिव, तथात्रापि । तदिदमाह- 'दिष्टयात्मनि लिङ्ग एक एव दृढत्वात् प्रत्यक्षवत् प्रत्ययः' इति । न च शारीरोऽयमस्त्विति । शरीरादिगोचरेऽस्य बाधितत्वादहं सुखी ज्ञानवानित्यादिना प्रत्यगात्मभाविप्रत्ययेन । तदिदमुदाहृतं- 'अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तरप्रत्यक्ष' इति । तस्माद्यथा नासावहंप्रत्ययः शारीरिकः तद्वदात्मप्रत्यक्षजन्योपि नैव, किन्त्वात्मानुमानाभ्या-- सजन्यदृढसंस्कारोद्भत इति । न चैतद्युक्त्यनुसारीति नोपादेयमुपादानोपादेयविधिविचक्षणैः । कथमिति चेत् ? प्रथमं तावद्विचार्यते यत् अहर्जातस्यार्भकस्याप्यहमिति यः प्रत्यय: स नानुमानिकः । न च नायं भवति तस्य, स्तनादानादिना मुखकमलोल्लासात् सुख्यहं श्रान्ता में क्षुदिति चाध्यवसायभावावगमादेव । यतः स न वेत्त्यनुमानाभिधानमपि नवा वेत्ति नवा कर्त्त जानात्यपि, तत्कथमहं प्रत्ययो न प्रत्यक्षविषयः ? न प्रत्यक्षाभावे च सहस्रशोऽनुशीलि। न प्रत्ययविपर्ययता न कदाचिदपि एवमनुभूयते-यदहं मनोऽहं हृषीकाणि, सहस्रशोऽनुमितेपि वह्नौ धूलिङ्गदर्शनेनार्य वह्निरिति प्रत्ययः प्रत्यक्षः । __यच्चोदवोचन्-'न ज्ञानसुखादि प्रत्यक्ष सति चात्मप्रत्यक्ष' इत्यादि। तदपि विरुद्धमेव । यतोऽहं सुखीति ज्ञानवानिति स्पष्टः प्रत्ययः । यच्चनोद्वीक्ष्यतेऽदृष्टमिति । तदपि न। यतस्तद्विभिन्नमेव द्रव्यमात्मावबद्धम् । न च तन्मानसो विषय इति कथं ज्ञायेत ? । अयमेव च तस्य बाधमूलं गुणत्वे, यदुत-ज्ञानसुखादिवद् नेदमध्यक्षम् । सति च तथात्वे नेदं गुणरूपम् । न च वाच्यं भाव्यं प्रत्यक्षेण तेनापीति । यतः पृष्ठलग्नरजःसमुदायवत्तस्याप्रत्यक्षत्वं स्यादेव । यथा स्पार्शनस्य सत्यपि क्षयोपशमे बद्धस्पृष्टाहित्वमपाटवात्तथात्मनः प्रत्यक्षत्वेऽपि तथानमल्याभावान्नादृष्टस्य प्रत्यक्षता । न च पृष्ठतः सुखादि न वेद्यते, वेद्यते Page #125 -------------------------------------------------------------------------- ________________ न्यायावतारः .00000000000000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० चेत्तत्रावबद्धात्मप्रदेशानामग्रहणे कथमेतेषु सुखं दुःखं वेत्यहं सुखी दुःखी वेति जायते ज्ञानम् ? । न च प्रत्यक्षाभावेऽहमयं वेति स्याज्ज्ञानम्, तस्यात्मावलम्बनत्वात् प्रत्यक्षावलम्बनत्वाच्च । अन्यच्च-अयमपि नियम एवं जगति जगन्नियमितो, यदुत-द्रव्यप्रत्यक्ष एव तद्गुणानां प्रत्यक्षत्वम् । यथा घटे रूपादीनाम् । एवमत्र । यदि नात्माऽध्यक्षसिद्धः स्यात् कथमिवाम्य ज्ञानसुखादयः प्रत्यक्षाः स्युः ? सन्ति च ते प्रत्यक्षवेद्याः । नह्यग्नावप्रत्यक्षे भवत्युष्णस्पर्शभास्वरादेः प्रत्यक्षत्वम् । तदात्मा प्रत्यक्षसिद्ध एव । यदप्यचीकथन्-'न च वाच्यं प्रत्यगात्मनी'त्यादि । तदप्यसाम्प्रतमेव, यतो नह्यहं क इत्यवलोकने न भासतेऽइमात्मेति । तथाभासनादेव चाहं मां न जानामीति संशयो मे मयीति च भवति । भवेदन्यथा न वेद्मि घटादिसंशयो वा, स्थाणुपुरुषादावित्यादिवत् । अवभासाभावे कोऽहमित्युदचरत् ? । औपचारिकत्वं च भवति मूलार्थबांधे एव । 'मुख्यार्थबाधे सति च प्रयोजने भेदाऽभेदाभ्यामारोपितो गौण'इतिवचनात् । न चात्र तथेति नायमौपचारिकः । यच्च न्यगादिषु:-'सामान्यतोदृष्टादि'त्यादि । तदपि न युक्तिक्षमम् । यतो नहि व्याप्तिमहाभावेऽसति च सम्बन्धस्मरण दौभवत्यनुमानम् । 'व्याप्तिकरणकमनुमान'मिति 'व्यापारस्तु परामर्शः 'करण व्याप्तिधीर्भवेदितिवचनाच्च । न चात्राऽऽत्मप्रत्यक्षाभावेऽन्यत्र प्रत्यक्षाभावाद् भवति व्याप्तिग्रहो वचनादिकमित्यादि । प्रत्यक्षाभावे चात्मनि पृथगात्मन्यहंताऽभाववत् स्वात्मन्यपि तदभाव एव स्यात्।न चास्तीत्य. चाधप्रमाणबाधितमेतत् । शेषं तु निरस्यमुक्तानुसारेण । यदि च स्यातस्य वचसि प्रामाण्याग्रहो-दिव्यो हि स महामुनिरिति । तदायोज्यमेवमेतत्-परस्यात्मा मनश्चाप्रत्यक्षे । नहि ते घटादिवत् स्वात्मादिवच्च प्रत्यक्षगम्ये । यतो नैन्द्रियकं न च मानसमिति । तज्ज्ञानाभावे च कथमिव स्यादहंत्वेनात्मनो व्याप्तिरित्युक्तम् । न चाहमिति प्रत्यक्षोच्चारश्रवणाच्छब्दप्रत्यक्षद्वारा हि प्रत्यक्ष इति वाच्यम् । तत्र तदनवलोकनादित्याह यज्ञदत्त' इत्यादि । सन्निकर्षो हि परात्मापेक्षया Page #126 -------------------------------------------------------------------------- ________________ १०८ न्यायावतार: ००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००56006080०००००० शारीर एव, नत्वात्मीयः, तहिं ज्ञायते कथमसाविति प्रोवाच 'सामान्यत' इत्यादि । स्वात्मनि निर्णीतोऽहंप्रत्यय आत्माविनाभावीत्यनुमीयतेऽत्रापि स तथैव । अत एवान्यथानुपपत्तिरेव लक्षणं हेतोः । न सामान्यलक्षणया सर्वहेतूपस्थितेाप्तिभावादिना तदज्ञानामपि व्याप्तिग्रहाव. लोकनात्, अन्यथानुषपत्तिनिर्णये चान्येषां धूमानां दर्शनाद्वर्णगुणादीनां ज्ञानाद् भविष्यत्येव धूमताज्ञानम् । अन्यथा कथमयं घटोयं स गकार इत्यादि भवेत् । न चात्र सर्व आत्मान उपस्थिता ज्ञाता वा तेषामद्यापि नास्त्यात्मतया कथं पुनरुपस्थितिः । न च सूर्ये गतिपूर्विका (देशांतरप्राप्ति) गतिमवेक्ष्य य वद्गतिमत्पदार्थोपस्थितिस्तज्ज्ञानं वा भवति, येन पुरुषे तत्प्रमीयमाणं भवेदबाधितम् । भवति चाबाधित मिति न सामान्यलक्षणयार्थ इत्यलं प्रसङ्गानुप्रसङगेन । न च कथमुक्तम् प्रत्यक्षवदि' त्यादि। यतः केषाञ्चिदनवाप्तात्मदेहभेदविवेकानां कथं शारीरिक एवाहमिति प्रत्यय इति प्रश्नसम्भवे । यद्वा-तादृशानामेव भवति कदाचिदयं दुःखीत्यादि प्रत्यक्षाभावेऽपि प्रत्यक्षोचार इदमा दृश्यते तानुद्दिश्याऽस्यावश्यं वक्तव्यत्वात् । कथमन्यथाऽवक्ष्यत 'लिङ्ग' इत्यादि । अत एव चोक्तमग्रतोऽर्थान्तरप्रत्यक्ष इति । नहि स्वात्मा अर्थान्तरप्रत्यक्षः, किन्त्वन्येषामेवात्मानस्तथाविधा अर्थान्तरेण-शरीरेण । नहि शरीराद्भिन्नः सर्वथा आत्मेति शरीरद्वारैवाऽन्य आत्मानः प्रत्यक्षा इति सुष्ठक्तं-'परात्मानमनुसृत्य न प्रत्यक्ष इति । प्रकृते च सति प्रत्यक्षकारके आत्मनो ज्ञाने भवितव्यमेव तेनाध्यक्षेण इत्युक्तमबाधं स्वसंवेदनमिति । तेन सम्यक-विपर्ययसंशयानध्यवसायानध्यवसिततया सिद्धो-निर्णीतो, न साध्यः । नहि हस्तकङ्कणे भवत्यादर्शायेक्षा । न च तत् साध्यतेऽपरेण । न च तत्सिद्ध न। तद्वदत्रापि प्रत्यात्माहंप्रत्ययादेव सिद्धो, नतु साध्योऽपि । स्वस्वात्मानमधिकृत्यैतदुच्यते । परेषां तथात्वाभावात् । न च शरीरादावहंप्रत्ययवदयं बाधित इति बोधनाय 'समिति । न चात्मप्रत्यक्षत्वाभावे तद्वात्तिज्ञानादीनां भवति प्रत्यक्षता । न वा स्वा Page #127 -------------------------------------------------------------------------- ________________ न्यायावतारः १०६ 255800000000000000000000000000000000000००००००००००००००००००००००००००००00000000000000000०००० त्मन्यताप्रत्ययो भ्रान्त इति तु निर्णीतपूर्वम् । तथा चावाधितनिर्णीताहंप्रत्ययप्रत्यक्षत्वादात्मा प्रत्यक्षसमधिगम्य इति नात्मदहोऽन्तरेप्प भवन्ति सन्दिग्धा इति । ननु किनामासौ प्रमातृत्वादिगुणयुक्त ? इत्याहुः पूज्या-जीव' इति । तत्र जीवति जीविष्यति अजीवदिति जीवः प्राणधारकः । नहि प्रागधारका न सिद्धा इति तेषां न जीवत्वम् । नयविशेषेण तथात्वेऽपि ज्ञानादिलक्षणभावप्राणधार. कत्वात जीवत्वाविरोधात् । न च ज्ञानादीनां कथ प्राणत्वं ? न तेषां वायुप्रचारव्यपदेश्यत्वं यत इति । यथाहि श्वालमात्रव्युत्पत्तिसिद्धोऽपि प्राणशब्दो जीवलक्षणमात्रे उक्तः - पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छवासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरतारतेषां वियोजीकरणं तु हिंसा ॥१॥ इति 'प्रमत्त योगात् प्राणव्यपरोपणं हिंसे तिवचनाच्च । न च ज्ञानादयो न लक्षणं जीवस्य । तेषामेव तत्त्वतो जीवलक्षणत्वात। 'चैतन्यलक्षणो जीव' इति उपयोगलक्षणो जीव' इति 'नाणं च दंसणं चेवे'त्यादौ तथाभिहितमेव । तथा च सिद्धानामेव परिपूर्णज्ञानादिलक्षणत्वात् परमार्थतो जीवत्वम । यस्तु प्रोवाचौपशमिकादिभावपञ्चकयुत एव जीवः तन्मते औदायिकद्रव्यप्राणधारणाभावात मा जीवत्वं (भूत) भून कोऽपि विरोधः, सापेक्षवाक्यत्वात्तस्य । ननु किमिति विशेषणोपादानादेव विशेष्यनिर्देशसिद्ध: पृथग्विशेष्यनिर्देशः? नहि कोप्यस्ति प्रमात्रादिलक्षणोऽन्यः । सति च सम्भवव्यभिचारे विशेषणस्यार्थवत्ता । तन्नार्योऽनेनेति चेत् । सुष्ठूक्तं, परमयुक्तमिदम् । यतो ये हि पूर्वोक्तलक्षणमात्मानमभ्युपगम्यापि कक्षीचक्र :-तस्यौत्पातिकत्वं शरीरादभिन्नता च तन्मतव्यपोहायैतद्वचनोपन्यासस्यावश्यकत्वात् तद्वयवच्छेदस्तु 'जीव' इति स्वतन्त्राभिधानेन त्रिकालव्युत्पत्त्या च । यतो नहि स्वतन्त्रपदार्थाभावे सुखदुःखा Page #128 -------------------------------------------------------------------------- ________________ ११० न्यायावतारः 0000000000000000000000000000000000000000000000 000000000000000000000000000000000000000 दिवदभिधानानि भवन्ति । न च तादृशस्त्रिकालिकजीवनतायुक्तः । यद्वा-जीवशब्दो दशवैकालिकादिपरमागमप्रणीत प्रसिद्धनिक्षेपादिपरिगत जीवविशेषज्ञापनाय । ते च निक्षेपादय एवं - जीत्रस्स उ निक्खेवो परूवणा लक्खणं च श्रत्थितं । अन्नामुत्तत्त निश्च्च कारगो देवावित्तं ||१|| गुणि- उड्ढगइत्ते यानिम्मय - साफल्लता य परिमाणेति । तत्रनिक्षेपास्तावत् - नामं ठवण गयाओ दव्वे गुणपज्जवेहि रहिउ ति । तिविहो य होइ भावे ओहे भव तब्भवे चेव ॥ १ ॥ ओघ जीव एवं 'संने आउयकम्मे धरई तहसेव जीवई उदर । तरसेव निज्जराए मओत्ति सिद्धो नयमएणं ॥ २ ॥ न सिद्धान् वियौघेन जीवत्वाभाववान् कश्चिदपि । विग्रहातावप्यस्त्येवाऽऽयुष उदय इति तेऽप्योघजीवनवन्त एव । भवतद्भवजीवावं. ― जेण य धरई भवगओ जीवो जेण य भवाउ संकमइ । जाणाहि तं भवाउं चउव्विहं तब्भवे दुहिं ॥ ३ ॥ तद्भवजीवितं मनुष्यतिरश्चां भावात् तद्विविधं न देवा नारका वाच्युताः पुनस्तत्रोत्पद्यन्ते इति न तेषामेतत् । प्ररूपणायां सुहमा य सव्वलोए परियावन्ना भवंति णायच्वा । दो चेव बायराणं पज्जत्तियरे अ नायव्त्रा ॥ ४ ॥ सूक्ष्मा बादराचोभयेऽपि पर्याप्ततरभेदाश्चकारान् सूक्ष्माण समुच्चयनात् । लक्षणानि च हेतवस्ते चेमे Page #129 -------------------------------------------------------------------------- ________________ न्यायावतारः 1000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० आयाणे परिभोगे जोगुवोगे कसाय लेसा य । आणापारणू इंदिय बंधोदयनिजरा चेव ॥५॥ चित्तं चेयण-सन्ना विनाणं धारणा य बुद्धी य । ईहामई वियका जीवस्स उ लक्खणा एए॥६।। अस्तित्वसाधनेजो चिंतेइ सरीरे णत्थि अहं स एव होइ जीवोत्ति । न हु जीवंमि असंते संसयउप्पायओ अन्नो ॥७॥ लक्षणादयश्च पूर्वानुमानप्रस्तावे ये दर्शिताः तत्समाना अपि प्रसङ्गतोऽभिहिताः पुनरत्र । अन्यत्वं-अण्णो देह। गिहाउ पुरिसोव्व । अमूर्त्तत्वं-अईदियत्ता अच्छेयभेयत्ता । रूवादिविरहओ वा अणाइपरिणामभावाओ। नित्यत्वं-निचो अविणासि सासओजीवो। निचो जीवो विभासओ अम्हें । कर्त्त त्वं-सकम्मकलभोइणोजओ जीवा। व्यापित्वंदेहव्वाबी मत्रोग्गि उण्हं व । गुणित्व-होइ गुणेहि गुणित्ति विण्णेओ। ते भोगजोगउघओगमाइवाइ व घडस्स । ऊर्ध्वगतित्वं-अगुरुलहुत्ता सभावउड्ढगई । अनिर्मयत्वं अमओ य होइ जीवो कारणविरहा जहेव आगासं। साफल्यं-साफल्लदारमहुणा निच्चानिञ्चपरिणामिजीवंमि । . . होइ तयं कम्माणं इहरेगसभावओऽजुत्तं ॥१॥ परिमाणं-वित्थरको जीव लोगमित्तं तु। ओगाहणा उसुहुमा तस्सपएसा असंखिज्जत्ति । यद्वा-भत्र जीवशब्देन लक्ष्यनिर्देशः । नहि प्ररूपिते लक्षणेऽपि लक्ष्यनिर्देशी दोषाय, आपो द्रवा इत्यादिवत् । तथा च पूर्वप्ररूपितं यत्प्रमात्रादि तत् सर्व जीवस्यैष लक्षणं विहाय कर्त्त त्वभोक्तत्वे, कर्मणोऽपेक्षया चेद् गृह्य ते तद्वत्त्वादिविवक्षा च न क्रियते चेत् । न च प्रमातृत्वादिकमव्याप्त्यसम्भवदोषदूषितम्, सर्वेषा Page #130 -------------------------------------------------------------------------- ________________ न्यायावतारः ०००००००००००००००००००००००००००००००००००००००००००००००००00000000000000000000०००००००००००००००. मेव तथात्वात् । विग्रहगत्यादावपि चास्त्येव समप्रापि शक्तिः, तत्रापि कर्माष्टक वेदनाद्वा सर्वमपि । यद्वा-'जीव प्राणधारणे' इतिवचनात तस्माद्'अचि'त्यचि'नाम्युपान्त्येति के वा जीव इत्ययमपि लक्षणावेदकम (कः) । तथाच न प्राणो जीवः, किन्तु तद्धारकोऽन्य एवेत्युक्तं स्यान । ननु का तस्याभिधेति प्रोचिवांसः प्रवचनप्रधानाः - 'क्षित्याद्यनामक' इति । तत्र क्षियन्ति-निवसन्ति गमन वा कुर्वन्ति सकर्मका जीवाः सशरीरा वा प्राणिनो गत्यर्थानां ज्ञानप्राप्तिव्याप्त्यर्थत्वात् त्रय एतेपि यथायोगं ग्राह्या इति क्षितिः । ति निवासगत्यो रिति तौदादिकात् 'स्त्रियां क्ति [५३६१] रितिक्तौ सिद्धयत्येव। एवं आदिशब्दाच्छेषोदकसमीरणानलवनस्पति-द्वित्रिचतुःपञ्चेन्द्रियाः पर्या - तरभेदभिन्ना ग्राह्याः । अनेका हि भेदा जीवस्य । यहाहद्विविधाश्चराचराख्यास्त्रिविधाः स्त्रीनपुसका ज्ञेयाः । नारक-तिर्यक-मानुष-देवाश्चतुर्विधाः प्रोक्ताः ॥१॥ पञ्चेन्द्रियास्त्वेकद्वित्रिचतुःपञ्चेन्द्रियास्तु निर्दिष्टाः । क्षित्यम्बुवह्निपवनतरवस्त्रसाश्चेति षड्भेदाः ॥२॥ एवमनेकविधानामेकैको विधिरनन्तपर्यायः । प्रोक्तः स्थित्यवगाह ज्ञानदर्शनादिपर्यायैः ॥३॥ एते यद्यपि जीवभेदास्तथाप्युदाहाए :-नामयति-प्रह्वीकरोति तत्तद्रपेण जीवं लोके वित्तीकरोतीति नाम 'सात्मन्नात्मन्वेमन्त्रोमन्क्लोमन् ललामन् नामन् पाप्मन् पक्ष्मन् यक्ष्मन्निति' मनि नमेरानिपातनानाम । क्षित्यादि नाम न यस्य स क्षित्याद्यनामकः। 'एकार्थ चानेक [३।१।२२] मित्यत्रानेकग्रहणात् त्रिपदबहुव्रीहिः। शेषाद्वेति चकच। भत्रावधेयमिदं धीधनैर्यत् तत्तत्कर्मोदयेन तत्तद्गत्यवाप्ती सोऽभिधीयते पृथ्व्यादिनाम्ना, परं तस्य न नाम जीवस्य, तदानीन्तनपर्यायस्यैव । तथा नामत्वात पर्यटँश्च धारयत्येवासावनेकविधानि Page #131 -------------------------------------------------------------------------- ________________ न्यायावतारः ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० नामानि । न चासौ भिद्यते तात्रता । अङ्गीकृतानि चानेनानादिभवपरम्परां पर्यटताऽऽजवंजवीभावेनानन्तपुद्गलपरावर्तान्यावत् नानाविधानि कोशसमुच्चयगणनातीतान्यपि नामानि, परं न तानि जीवनामानीति । न काप्यवमता जीवे पर्यायाणां परावृत्तिस्वभावता निरूपितैव पूर्वमिति योग्यमूचुः-'क्षित्याद्यनामकः' तथा च य ऊचु:'नामरूपाभ्यां व्याकरवाणी'त्यादि । तदवशिष्टविषयं जीवपर्यायविषयं वा ज्ञेयम् । नास्य तु किमप्यस्त्यभिधानम् । ननु च नास्त्येव त्रिविष्पेऽपि परिदृश्योऽपरिदृश्योवार्थो यो नावाप्नोति स्वाभिधानेनाभिधेयताम् , सर्वेषामेव वाच्यत्वात् । तन्न, यतो न तावत्तादृशोऽस्ति प्रमाणसिद्धो नियमो नयान्तरेण तथाभिधानेपि । यतोऽभिहितमेव पूज्यपादै :- पण्णवणिज्जा भावा अणतभागो उ अणभिलप्पाणं'ति । यद्वा-यथा तेषां पदार्थत्वेन नामधेयाभिधेयता तथाऽस्यापि जीवत्वेन भवतु, परं तेषां यथा न विशेषाभिधानानि तथाऽस्य भवन्त्यपि तानि नैतदभिधायकानि यथा भिन्नभिन्नार्थावगाहदानाद्विविधपदार्थस्वरूपानुसारेणान्तरिक्षस्यानेकविधत्वेन घटाकाशादिभेदेनाभिधानाभिधेयत्वेऽपि न तस्य स्वतन्त्रमस्ति नाम आकाशमन्तरेण । एवमत्रापि म किञ्चिज्जीवाभिधानमपहायापरमस्ति नामवेयम् येन स्वतन्त्रमभिधीयतेति । एवमभिधाय बालानां न्यायमार्गावतामय संक्षेपेणोपसंहरन्तः स्वौद्धत्यं परिजिहीषवो व्यवस्थाया एतस्या अनादिनिधनतांआहुः प्रमाणादिव्यवस्थेय-मनादिनिधनात्मिका । सर्वसंव्यवहत णां, प्रसिद्धापि प्रकीर्तिता॥३२॥ तत्र प्रमाणं पूर्वोक्तस्वरूपं, तदादिर्येषां ते प्रमाणादयः, आदि शब्देन तद्दोष-वादस्वरूप-प्रमाणफल-तद्विषयनयस्वरूपतद्विषयस्याद्वादश्रुतलक्षणप्रमातृलक्षणग्रहः । 'प्रमाणतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते' इति प्रमाणनिरूपणप्रतिज्ञानेनोपक्रान्तेऽपि प्रस्तुते प्रकरणे Page #132 -------------------------------------------------------------------------- ________________ ११४ न्यायावतारः ००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००00000000000000000000003000 यदेवमुपसमजिहीर्षिषुः तन्नेतदनाभोगविलसितमप्रक्रान्तं वा किन्वादित एवावधारितं निरूप्यतयेति ज्ञापनाय । तेषां प्रमाणादीनां व्यवस्था, व्यवतिष्ठन्ते-सम्यक्तया स्थिरीभवन्ति न नश्यन्त्यनया प्रमाणादय इति व्यवस्था । स्थो वा [५॥३॥६६] इति का वचनादङि स्त्रियां व्यवस्थाऽङन्तस्य स्त्रीत्वनियमात् । व्यवस्था मर्यादा इत्यर्थः । का ? इत्याह-इयमिति । यद्यपि 'इदमस्तु सन्निकृष्ट' इत्यनेन प्रत्यक्षीभावमापन्नायामेव व्यवस्थायां युज्यते वक्त म्, न च व्यवस्था के नाप्यन्द्रियेणाधिगम्यते नैवावक्ष्यन्तेयमिति । परं प्राक् प्रोक्ता सर्वाऽपि हृद्वि. वरवर्तितया मानसप्रत्यक्षैवेति इदमा निर्देशः । कीदृशेत्याह-अनादिनिधनात्मिका इति । तत्र आदीयतेऽनेनेत्यादिः 'उपसर्गादः' किरिति वचनात् । नीति नितरां दधाति धारयति, पर्यायाऽन्यत्वं वर्तमानपर्यायविगमं वेति 'तुदादिवृजिरञ्जिनिधाभ्यः किदिति किदने निधनमिति पर्यवसानम् ।आदि च निधनं चादिनिधने, नादिनिधने यस्य सोऽनादिनिधनः, स एवात्मा स्वरूपं यस्याः साऽनादिनिधनात्मिका । अत्र 'शेषाद्वा' [७३।१६५] इति कचि आखियामाबित्यापि 'अस्या यत्तरिक्षपकादीना [२।४।१११] मितीकारे च रूपसिद्धिः । अनेनास्या अकृत्रिमतामाहुः । उक्तंच पूर्वमेव प्रसिद्धानि प्रमाणानि, व्यवहारश्च तत्कृत' इति पूर्वार्द्धनायमर्थः । यतो 'न कदाचिदनीदृशं जगदिति कृत्वा । यद्वा-सृष्टेरस्याः शाश्वतत्वात् तद्गतलोकानामपि शाश्वतत्वं, तेषां शाश्वतत्वे च सुतरां व्यवहाररहितजीवनाभावाद् व्यवहारस्यानादित्वम् । तथैव प्रलयस्याप्रामाणिकत्वादेवानन्तत्वम् । ननु च विश्वस्यैव तावद् ब्रह्म-प्रकृत्यादिना जनितत्वे कथमियं अनादिनिधनामिका भवितुमर्हति ? न भवत्येव । ग्रामाभावे सीमा । यदि च नामूवन व्यवहारकर्तार एव कथ भवेद् व्यवहारः ? न च विश्वस्य विश्वाधिपतिविहितत्वमसिद्धयेनैषा कल्पना स्याल्लघीयसी । किन्तु युक्त्यागमाभ्यां सुसिद्वमेव । यतो जन्तुर्हि मया किं Page #133 -------------------------------------------------------------------------- ________________ न्यायावतारः ११५ .००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० सुखं दुःखं वा वेदितव्यमिति न जानात्येव । तदज्ञाने च कुतस्तरां तदुपायेषु प्रवृत्तिं विदध्यात् । इष्टकारणतादिज्ञानजन्यत्वात्तस्याः । कथं चादृष्टस्वर्गश्वभ्रादिमार्गो गच्छति स ? तदवश्यं तनियोजन भाव्यम् । नाज्ञानिनस्तिर्यञ्चः स्वयं प्रभविष्णव इष्टानिष्ट ज्ञातु तत्र प्रवर्तितुवाभीप्सितनगरगतौनियोजनीया एव तेऽधिष्ठात्रेति । तदुक्तं'अज्ञो जन्तुरनीशोय-मात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्, स्वर्ग वा श्वभ्रमेव वा ॥१॥ इति कथं चाचेतनानि भूतानि जन्तूनामुपकारायापकाराय च प्रभवन्त्य नधिष्ठितानि । नहि निशितापि करवाललता छिनत्ति पाशादिकमनधिष्ठिता अधिष्ठात्रा । जन्तुश्च न समर्थो ज्ञातुतानि तत्सामर्थ्य वा, किमुत तान्यधिष्ठातुम्, तद्भाव्यमेव विश्वशक्तिभृता विश्वविधात्रा। न के चलं पारलौकिककार्योपयोगितया तत्सिद्धिः, किन्त्वैहिकपारलौकिकोभयोपयोगितयैव तस्य साधिष्ठातृत्वसिद्धिरप्रत्यूहितैव । यतो दरीहश्यमान सचराचरं जगद्विशिष्टाकृतिमत्त्वात् सकर्त्त कमेव भवेत्। विशिष्टाकृतिमत्त्वेन कार्यतान्वितत्वात् । नहि घटादिकं विविधाकारभृत् स्वयमेव प्रादुर्भवदवलोकितम् । तथात्वे च न कार्यः स्याद्यत्नः केनापि कस्मैचिदपि, स्वयं सिद्धयमानत्वात् पदार्थानां, क्रियते च यत्नो भवदीयैराप्तैरन्यैर्भवद्भिरपि चेत्यायातं यवक्रीणनन्यायेन कार्यजातस्य सकत कत्वम् । तथा अध्यक्षं चरीक्रियमाणोऽणुसमुदायो विशिष्टसामर्थ्यवता योजित एव, अण्वादीनां स्वयं चेतनाविकलवाद् गत्ययोगात्। क्रियतेच गृहाधु पचयार्थिभिस्तदुपचयनादिको यत्नः । तद्भाव्यमेव केनाप्यचिन्त्यशक्तिमतैषोऽन्वतमीक्ष्यमाणो जगत्तापरिणतोऽगुसमूहो येनैकत्रितः स्यात् । तथैवोदीक्ष्यमाणाः सूर्यादयो यवधृता आकाशे निरन्तरं समर्यादं तिष्ठन्ति, तन्नाकर्त्त कम् । नहि मूत्तं द्रव्यं महदप्रयत्नमधरीभावं तिष्ठति कदापि । तद्भाव्यमवश्यं केनचिदपि तद्धारयित्रा। न चैष विषयोऽस्मदादीनामित्यसममहिमनिलयविहितत्वमव्या Page #134 -------------------------------------------------------------------------- ________________ न्यायावतार: ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००0000000000000 हतम् । अन्यच्च-यद्यद् वाक्यमवेक्ष्यते क्षितितले तत् पूर्वप्रकल्पितस क्रेतानुसारेणार्थवत्तया आड़ो सकेतकल्पकश्च तथाविधः कोपि स्वीकार्य एव तादृशो, यदुपक्षमवेक्ष्य सड्के तादिप्रवृत्तोयमखिलो बुद्धिमदाधारो वाक्यव्यवहारो वाच्यवाचकभावमूलः । एवमर्थावधारणं वाक्यादिकमपि च सविधातृकमेव । यद्वा-न केनाप्यनध्यापिता प्रती. यते सङख्या तदर्थ चर्करोति च सर्वोऽपिलोको बालकानां पाठनााद । तथा च भाव्यतथाविधेनैकेनादौ प्रवर्त्तयित्रा, येनेयमाविश्चक्रे लोकेभ्य इति । न चेदं स्वमनीषिकाविजृम्भृितमेव, किन्तु विद्वदुदाहृतमेव । तदुक्तं कार्याऽऽयोजनधृत्यादेः, पदात् प्रत्ययतः स्फुटम् । वाक्यात् सङ्ख्याविशेषाच, साध्यो विश्वजिदव्ययः' ।।१।। आदिशब्दाचात्र नाशादिग्रहः । नहि नाशोपि भवति मूर्तद्रव्यस्यैवमेव, घटादिनाशस्य स्पष्ट प्रयत्नजन्यत्वं निष्टयते इति । भागमेपि-द्यावाभूमि जनयन् देव एकः विश्वस्य कर्ता भुवनस्य गोप्ता। असदेवेदमन आसीत् । ब्रह्म वेदमग्र आसीत् । मया अध्यक्षेण प्रकृतिः सूयते सचराचरं तपाम्यहं वर्ष निगृह्णामि उत्सृजामि च । आसीदिदं तमोभृत-मवितर्यमलक्षणम् । सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत् ॥१॥ इत्यादिष्वनेकेषु श्रुति-स्मृत्यादिषूपलम्भात् कर्त्त त्यस्य स्पष्टमेवाभिमतं विश्वस्य विश्वाधीशविधातृत्वम् । न च युक्तयाऽऽगमप्रतिष्ठितमर्थं प्रतिष्ठितप्रतिष्ठावन्तोऽप्रमाणयन्ति । तथात्वे समूलं क्षयापत्त प्रतिष्ठायाः । सति चैवमादिभावे विश्वभावे कथङ्कारं स्यादनादिनिधनत्वं प्रमाणादिव्यवस्थाया इति चेद् । अत्र प्रतिविधीयते-यत्तावदुक्त 'विश्वस्यैवेत्यादि । तत्र साधयिष्यते व्यवहारकर्तारः अनादिका इति कर्तत्ववादस्याप्रामाणिक Page #135 -------------------------------------------------------------------------- ________________ न्यायावतारः ११७ 000000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० त्वनिश्चयेन, येनोन्मीलिष्यति भवतां विवेकविलोचनं, तथापि न पूर्व सगों नाभूत्, यथा पूर्वम कल्पयदित्यनेन पूर्वसृष्टेभिधानात् । उक्त चात एव ब्रह्मसूत्रकार:-'उपपद्यते चाप्युपलभ्यते चे'त्यत्र श्रुतिस्मृत्याग्रुपलम्भस्य प्रत्यक्षतानिर्देशेनोपलभ्यते इति, युक्त्या तु कर्माभावत्वादिकयोपपद्यते बीजाकुरादिवदिति । विवृतं च शारीरिकभाष्यकारेण शङ्करस्वामिनापि तथैव । स्पष्ट चेदं 'नान्तो न चादिर्न च सम्प्रतिष्ठा'इत्यस्य भाष्ये विस्तरेण । तथा च संव्यवहत कामनादिनिधनत्व सद्धः किमस्थानं नोद्यते नानमिदमिति । अन्यच्च-अग्नि-वायुरविभ्यस्वित्यादिना भवदीयाभियुक्तवाक्याद् वेदानामनादित्वादपि कथकारं नानादिनिधनता प्रमाणादिव्यवहारस्य ? । न च विश्वस्य विहितत्वेऽपि विश्वविधातुर्विहितत्वमन्ति, येन न स्यात्तस्य प्रमाणादिव्यवस्थाभानं तस्य 'यः सर्वज्ञ' इत्यनेन सर्वज्ञातृत्व-सर्वविचारयितृत्वेनाभिधानात् । न चासो न संव्यवहर्ता 'नामरूपाभ्यां व्याकरवाणी तिवाक्यात, तद्वाक्यस्यैव व्यवहारमूलत्वात्। यदि च विश्वविधाताऽनादिर्व्यवहारवाँश्च किमित्ययुक्तमोभातं भवतामत्र, येन प्रेर्यते इयत् । ननु विश्वेश्वरो विश्वं विधित्सुः स्वयमेव तद्रूपतया परिणमति १, प्रकृति वा तन्मूलभूतां सूत्रयति २, स्वयं वा कुम्भकारवज्जगन्नियन्त्रणादि करोति 3, प्रलयकालीनावस्थितिमन्तं परमाणुसमूहं त्रुटिसमूहं वोपादाय तत्प्रभावादेवमेव भवति ४ तद्द वा भवति तेनैवं व्यवह्रियते ५, तदुपदर्शिताध्वादरानादरकृताऽदृष्वैचित्र्योपनतमेतदिति ६, वा तस्य कर्त त्वं गीयते इति विचारणीयं विचारवाचस्पतिभिर्मध्यस्थतरणीयं विकल्पषट्कम् । यदि तावत् सच्चिदानन्दमयत्वाद् ब्रह्मणः सत्प्रधानस्य जडीभावं, चित्प्रधानस्य जीवत्वम, आनन्दप्रधानरय ब्रह्मत्वं प्रतिजानाना आद्यं विकल्पं संश्रयन्ते, तर्हि विचारणीयमेतावदेव यदुत-तत्प्रधानाऽन्यगौणभवनं स्वाभा Page #136 -------------------------------------------------------------------------- ________________ ११८ न्यायावतार: .000000000000०००००००००००००००००००००००००००००००००००००००००००००००3000000000000000000000000000 विकं प्रयत्नजन्यं वा ? । आधे, न कर्त्तता, स्वाभाविकस्य कारणानिबन्धनत्वात् । अनित्यं हि कादाचिकत्वात् कारणकल्पितं भवेत्, न च भवेत्तथा स्वाभाविकमिति जगतोऽनादितै वैवम् । प्रयत्नजन्यत्वे तु प्रयतमानः कृतार्थः सन्नितरथा वा प्रवर्तेत ? आये, तत्ताहानिः । अन्त्ये च न करणयोग्यतैव । स एव च विधेयः स्यादितरवत् तथात्वे । अन्यच्चस गौणमुख्यभावः कथं भवेदितरवस्तुयोगाभावे प्रथमतः परिपूर्णत्र्यात्मकत्वात् उभयथापि प्रारम्भाभावो विश्वस्य । किच प्रयोजनं तस्य सम्पूर्णत्र्यात्मकस्य तथा तथा परिणतौ । अत्र्यात्मकत्वेऽपि च स्पष्ठ. वाऽनादिता त्रयाणां ब्रह्मजीवाजीवानान् । न च वाच्यं समुद्रस्यैकरूप. स्यापि भवन्त्येव विचित्रा वीचय इति । तासां वाय्वादिसंयोगहेतु. कत्वान्नहि भवति शान्ते वायौ कल्लोललेशोऽपि । यथा भाजनोद के। तन्नतरयोग्ययोगाभावे विचित्रता कथञ्चनापि सम्भविनी। न चेतरदपि जन्यते तेन, चतुर्थवस्तुस्वीकारापत्तेः । स्वीकारेऽपि च तस्य ब्रह्मरूपत्वे चतुगुणात्मकताप्रसङ्गः । इतरथा चाकारणं कार्योद्भवः ब्रह्मणो निमित्तकारणत्वेन स्वीकारात् । तन्न स एव तथा तथारूपतया परिणमति योग्यो विकल्पो विकल्पाननुवर्त्तयितुम् । तन्न ब्रह्मविवौयं दृश्यमानः पदार्थप्रकरः । 'आत्मन आकाशः सम्भूतस्तस्माद्वायु'रित्यादिका प्रक्रियापि स्वच्छन्द उद्भ तान प्रमाणीभावमाप्नोति विद्वपरिषदि । वायोराकाशे जायमानत्वं, न तु ततस्तथा । वायोरपामुद्भवस्य यन्त्रद्वारा प्रत्यक्ष सिद्धत्वात् । तत्र त्वग्नेराप इति । अथ चेत मयाध्यक्षेण प्रकृतिः सूयते' इति, 'अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्य को जुषमाणोऽनुशेते' इत्यादि । तथा 'मायां तु प्रकृति विन्द्यात् मायिनं तु महेश्वर'मित्यादि वाक्याद्यदि प्रकृतिद्वाराऽसौ विधातृत्वेन कतीक्रियते द्वितीयविकल्प:ङ्गीकारेण, तदापि वचनीयमवचनीयवाङमयतत्त्वविदा वचनीयम् । यत् सा प्रकृतिरपि नित्यानित्या वा ? । आद्य, कथं सा तेन विहिता विधात्रा ? कथं च नागिन्यवनीधरादिप्रादुर्भाव ? इतरकारणा Page #137 -------------------------------------------------------------------------- ________________ न्याचावतारः ११६ 0030300000000000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० भावाच्चेत्, किं तत् ? परमात्मन इच्छा चेत्, किं सा पूर्व नाधुना च किमुत्पन्ना? स्वभावाचे त् , कथमसौ निर्निमित्तकत्वादनित्यो भवेद् भावे घा कथं न तद्वतोऽनित्यतामनापाद्य स्वसंसर्गेण स्थेयात । किच नाधुना तत्स्वभावत्वादेवासौ सृजति तामपूर्वामपूर्वा ?, सर्जने सृष्ट। रानन्त्यं स्याच नभसोऽपि सङ्कीर्णताम् । अन्त्ये तु प्रकृतेरजत्वमेव ननाश काकनाशम् । अपरं च किमेषा मूर्त्ताऽमूर्तावा? । आये, कथं मूर्तप्रादुर्भावोऽमूर्तात्? प्रत्यक्षविरुद्धोपि श्रद्ध यो विदुषाऽहङ्कारादि प्रक्रमोऽप्यप्रमाणक एष । नाहङ्काराद्भवति किञ्चिन्निमित्तभावस्तु नैवानेष्यते। तथात्वेऽन्यमूर्तपदार्थाभ्युपगमप्रसङ्गात् । एवमेव शब्दविषतॊपि न युक्तिक्षमः । अकारादेरन्तरा निरन्तरान् भक्तान पृथिव्यायुद्भवस्य कथमपि श्रद्धातुमनहत्वात् परेषाम् । अन्त्ये, कथं सा तत एवोद्भवेत् ? मूर्त्तत्वात् तस्याः । मूर्तस्य मूर्तोपादानत्वात् । कथं चैकरूपायाः प्रकृतेविचित्रवस्तूनामुद्भवो हीनोत्तममध्यमानाम् ? ___ अथ कुलालः मृदेवरूपानपि अनेकरूपान् कपालकुशूलाहीन करोति विचित्रांस्तथाऽयमपि चेत् । नेदं युक्तम् । तत्राऽल्पबहुत्वादिपरिमाणप्रमितमृत्पिण्डोपादानताऽध्यक्षं सिद्धव । न त्वत्र । अत्र तु जीवत्वेन सत्त्वादिसाम्येन च समावस्थत्वात् । न घ घटाद यः सुखदुःखादीनामुपभोक्तारोऽत्र तु तदेव तत्त्वं । मूर्तः सकर्मा च चक्रजीवको न त्वयम् । अपि च-कुलालनिर्वर्तितं भाण्डमपि तदुपभोक्तविचित्रादृष्टवशेनैछ । अत्र तु नैव तत् । सति च तम्मिन् किमेतेन ?। तत्प्रेरितं ददाति फलं चेत् स्पष्टैव कर्मणामफलता । तस्य च निमि. तता अकारणमुखदुःखविधानेन दुर्जनताया अत एवोक्तं 'अपकारः प्रेतायैः कस्तस्य कृतः सुरादिभिः किं वा ? | संयोजिता यदेते सुखदुःखाभ्यामहेतुभ्याम् ।।१।। तथा भवसम्भवदुःखकर निष्कारणवैरिणं सदा जगतः। कस्तं ब्रजेज्छरण्यं सूरिः श्रेयोर्थमतिपापम् ॥२॥ इत्यादि । Page #138 -------------------------------------------------------------------------- ________________ १२० न्यायावतारः 00000000000000000000000000000000000000000000000000000000000000000000000000000000000000 अस्य सफलत्वे च किं तेनान्तर्गडुना, भक्तिमात्रत्वात् तकर्त्ततावादस्य । तदिदमाहुः पूज्या: 'फलं ददाति चेत् सधैं तत्तेनेह प्रचोदितम् । अफले पूर्वदोषः स्यात्, सफले भक्तिमात्रता ॥१॥ 2 अत्र पूर्वदोषो विचित्रे कर्मणि जन्तूनां प्रवर्त्तने को हेतुरीशस्य ? न कोपोत्यनथक एव कर्त्त त्वाद :खादिकारणप्रवर्त्तकत्वात् स्पष्टोSपकारिशेखरः इति निर्हेतुका वा प्रवृत्तिः सोऽत्रापि कर्मणो निष्फलत्वस्वभावात्तदवस्थ एवेति । केचित्तु परमेष्ठिनमनभ्युपगच्छन्तः स्वयमेव प्रकृतिजातां जगत्युत्पत्तिं प्रचक्षते, तेऽपि क्रमेणानेनैव निरस्याः । यतो सापि 'नित्ये' त्यादि सर्व वाच्यम् । न चाचेतना प्रकृतिः वेत्त्यदृषुपरिमाणं येन जगज्जन्तुयोग्यायोपभोगायोपयुज्येत । न च सत्त्वरजस्तमः साम्यावस्थालक्षणा नित्या प्रकृतिरपरिणममाना किमपि तृणकुब्जीभावादिकमपि कर्त्तु मला स्यात् । अप्रच्युतामुत्पन्नस्थिरस्वभावत्वाच्च नित्यस्य । यांद सा कुर्यादहङ्कारादिकपरिणतिं स्वस्याः कथमिव स्यान्नानित्या ? कथं च श्रद्धेयं प्रत्यक्षादिविरुद्धां गुणेभ्यो द्रव्योत्पत्तिरुद्भवतीत्येवंरूपां प्रक्रियां वर्णयन्ती श्रतिगीरद्भावयेद्भावुक तत्त्वमिति । किञ्चापरिणामिन आत्मनः संसज्य तृती यवेदिनमिवाभिनवविकाररूपतनयजननयोग्यतामादधीत सा वनितेव प्रकृतिः कथं ? कथं विदधीत चाकतु भुक्तभोगिन आत्मनो 'वियुक्ततां स्वनिवृत्या । क्षीरादिदृशन्तोपि न कथञ्चनापि युक्तियुक्ततामादधाति तः प्रणिगद्यमानः । यतः प्रथमं न तन्नित्यं, न च न तद्भिन्नं द्रव्यं, न च तत् स्वयं प्रकृतिवत् परिणमतिं न चानुपगृहीतं वा परिणमति, तत् कथमित्र तयोः साम्यं भवेत् । शेषं पूर्ववदेव | .9 ये तु तृतीयप्रकृतिमन्तमिव तृतीयविकल्यं संश्राययन्त्य मतनया Page #139 -------------------------------------------------------------------------- ________________ न्यायावतारः १२१ 00000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० कल्यां बुद्धिं अन्ववायवृद्धय भीप्सवस्तेन लभन्ते किमपि स्वेप्सित - मर्थ विना योग्यवस्तु विनाशम् । यतस्ते तावद्विभिन्न विभिन्नमतानुगा एव । एके तदाहु: तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । केवलं गहरीभूते, प्रणटोरगराक्षसे ॥१॥ नष्टामरनरे चैव, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र शयानस्तप्यते तपः ॥२॥ तत्र तस्य शयानस्य, नाभौ पद्म विनिर्गतम् । तरुणार्कमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥३॥ तस्मिँश्च पद्म भगवान-दण्डकमण्डलुयज्ञोपवीतमृगचर्मवस्त्रसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः स्रष्टाः ॥४॥ . अदितिः सुरसङ्घानां दितिरसुराणां मनुर्मनुष्याणाम् । . विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥१॥ कद्र : सरीसृपाणां सुलसा माता तु नागजातीनाम् । सुरभिश्चतुष्पदाना-मिला पुनः सर्वबीजानाम् ॥ . प्रभवस्तासां विस्तरमुपागतः केचिदेवमिच्छन्ति । वैष्णवी - यमिदम् । स्मात्तं त्विदम्: आसीदिदं तमोभूत-मप्रज्ञातमलक्षणम् । अप्रतर्कमविज्ञेयं, प्रसुप्तमिव सर्वतः ॥१॥ ततः स्वयंभूर्भगवा-नव्यक्तो व्यजयन्निदम् । महाभूतादिवृत्तौजाः, प्रादुराशीचमोनुदः ॥२॥ Page #140 -------------------------------------------------------------------------- ________________ १२२ न्यायावतारः ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००000000000000 लोकानां स च वृद्धयर्थं मुखबाहूरुपादतः । ब्राह्मणं क्षत्रियं चव, शूद्र च विन्यवर्त्तयत् ।।३॥ पौराणिकानां त्विदं-'यदा न किचिदपि वस्त्वासीत् पदार्थशून्योयं संसारस्तदा ब्रह्माऽस्वण्डमसृजत् । तस्माञ्च क्रमेण वृद्धाद् द्विधाभावमुपगतादूर्वाधो विभागोऽभूत्तन्मध्ये च सर्वाः प्रकृतयोऽभूवन । एवं पृथ्यप्तेजोवाय्वाकाशसमुद्रसरित्पर्वतमकराकरनिवेशादिस्थितिरभूत् । औपनिषदिकास्त्वन्यदन्यद्विविधं प्रचक्षते परस्परासम्बद्धम्'ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः। तदेव शुक्रं तद्ब्रह्म, तदेवामृतमुच्यते ॥१॥ तस्मिल्लोकाः श्रिताः सर्वे' । इति कठोपनिषदि । 'प्रश्ने तु प्रजाकामो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते रयिं च प्राणं चेत्येतो मे बहुधा प्रजाः करिष्यत' इति । मुण्डके-तपसा चीयते ब्रह्म ततोऽनमभिजायते । अन्नात्प्राणो मनः सत्यं, लोकाः कर्मसु चामृतम् ॥१॥ तैत्तिरीये-असद्वा-इदमग्र आसीत् ततो वै सदजायत । ऐतरैयेआत्मा वा इदमेक एवाग्र आसीन्नान्यकिचनमिषत् स ईक्षत लोकान्नु सृजा इति ॥१॥ स इमाँल्लोकानसृजत अम्भोमरीचीमरमापोऽदोम्भः परेण दिवं द्यौः प्रतिष्ठान्तरितं मरीचयः । पृथिवी मरो या अघस्तात्ता आपः॥२॥ स ईक्षते मेनु लोकाः लोकपालानु सृजा इति । सोऽद्भय एव समुद्धृत्यामूर्छयत् ॥३॥ तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत यथाण्डं मुखाद्वारवाचोग्निर्नासिके निरभिद्येतां नासिकाभ्यां प्राणः प्राणाद्वायुरग्नी निरभिद्येता कर्णाभ्यां श्रोत्रं श्रोत्रादिश Page #141 -------------------------------------------------------------------------- ________________ न्यायावतारः १२३ ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० स्वड निरभिद्यत त्वचो लोमानि लोमभ्य औषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः शिश्न निरभिद्यत शिश्नाद्रेतो रेतस आपः । इत्यादि । छान्दोग्ये-प्रथमं तावत् प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या सम्प्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि सम्प्रास्रवन्त भूर्भुवःस्वरिति । तान्यभि (भ्य) तपत्तेभ्योऽभितप्तेभ्य ॐकारःसम्प्रालवत्। इत्यभिधाय तृतीयाध्याये तृतीये प्रपाठके-असदेघेदमग्र आसीत्तत्सदासीत्तत्समभवत्तदाण्डं निरवर्त्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते पाण्डकपाले रजतं च सुवर्ण चाभवतां ॥१॥ तद्यद्रजत सेयं पृथिवी यत् सुवर्ण सा द्यौर्यज्जरायु ते पर्वता यदुल्वं स मेघो नीहारो या धमनयस्ता नद्यो यद्वास्तेयमुदकं स समुद्रः ॥२॥ अथ यस्तदजायत सो सावादित्यस्तं जायमानं घोषा उलूलवो नूदतिष्ठन्त सर्वाणि च भूतानि च सर्वे च कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रतिघोषा उलूलवो नूत्तिष्ठन्ति सर्वाणि च भूतानि च सर्वे च कामाः ॥३॥ तुर्येऽध्याये चतुर्थे सप्तदशे खण्डे तु-प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानाँस्सान्पृबृहदग्निं पृथिव्या वायुमन्तरिक्षादादित्यं दिवः॥१॥ यावदग्नेत्तत्वोवायोर्य षि सामान्यादित्यात् ॥२॥ षष्ठेऽध्याये प्रथमे द्वितीयखण्डे तु-सदेव सौम्येदमप्र आसीत एकमेवाद्वितीयं ॥२॥ तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत तत्तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत तस्माद्यत्र क च शोचति स्वेदते पुरुषस्तेजस एव तदध्यापो जायन्ते ॥३॥ ता आप ऐक्षन्त बह्वयःस्याम प्रजायेमहीति ता अन्नमसृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भय एव तदध्यन्नायं जायते । ४।। इति द्वितीयः खण्डः । तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्यण्डजं जीवजमुद्भिज्जमिति ॥१॥ सेयं दैवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवे. नात्मनानुप्रविश्य नामरूपे व्याकरवाणीति । इत्यादि । Page #142 -------------------------------------------------------------------------- ________________ १२४ न्यायावतारः .००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००0060 बृहदारण्यके प्रथमे तुरीये ब्राह्मणे-आत्मैवेदमग्र आसीत् पुरुषविधिः सोनुवीक्ष्य नान्यदात्मनोऽपश्यत्सोहमस्मीत्यग्रे व्याहरत् ततोहं नामाभवत् तस्मादप्येतामन्त्रितोहमयमित्येवाग्र उक्त्वाथान्यन्नाम प्रब ते यदस्य भवति स यत्पूर्वोऽस्मात सर्वस्मात् सर्वान्पाप्मन औषत् तस्मान पुरुष औषति ह वै सतं योऽस्मात् पूर्वो बुभूवति य एवं वेद ॥१॥ सो बिभेत्तस्मादेका की बिभेति सहायमीक्षाञ्चक्रे यन्मदन्यन्नास्ति कस्मान्न बिभेमीति तत एवास्य भवं वीयाय कस्माद्वयमेष्यद् द्वितीयाद्वै भयं भवति ॥२॥ स वै नैव रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छत् सहैतावानास यथा स्त्रीपुमांसौ संपरिष्वक्तौ स इममेवात्मानं द्वेधा पातयततः पतिश्च पत्नी चाभवतां तस्मादिदमर्धबृगलभिव स्व इति इ स्माह याज्ञवल्क्यस्तस्मादयमाकाशः स्त्रिया पूर्यत एव तां समभवत्ततो मनुष्या अजायन्त ॥३॥ साहेयमीक्षांचक्र कथं नुमात्मान एव जनयित्वा सम्भवति हन तिरोऽसानीति सा गौरभव वृषभ इतरस्ताँ समेवाभवत्ततो गावोऽजायन्त वडवेतरा भवदश्ववृष इतरो गर्दभीतरागर्दभ इतरस्ताँ समेवाभवत्तत एकशफमजायताजेतराभत्रबस्त इतरोऽविरितरा मेष इतरस्ताँ समेवाभवत्ततोऽजावयोऽजायन्तैवमेव यदिदं किञ्च मिथुनमापिपीलिकाभ्यस्तत्सर्वमसृजत ॥४॥ सो वेद हं वाव सृष्टिरस्म्यहं हीदं सर्वमसृक्षीति तत: सृष्टिरभवत् सृष्टयाँ हास्यै तस्यां भवति य एवं वेद ।।५।। अथेत्यभ्यमन्थत्स मुखाच्च योनेहस्ताभ्यां चाग्निमसृजत् तस्मादेतदेतदुभयमलोमकं अन्तरतोऽलोमका हि यो निरन्तर तद्यदि तमाहुर मु यजामु यजेत्येकैकं देवमेतस्यैव सा विसृष्टिरेष उह्य व सर्वे देवा अथ यत्किंचेदमाई ततसोऽसृजत तदुसोम एतावद्वा इदं सर्वमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः सैषा ब्रह्मणोतिसृष्टिः । यच्छ यसो देवानसृजताथ यन्मर्त्यः सन्नमृतान्नसृजत तस्मादतिसृष्टयां हास्य तस्यां भवति य एवं वेद ॥६॥ तद्वेदं तह्य व्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतेऽसौ नामायमिदं रूप इति। Page #143 -------------------------------------------------------------------------- ________________ न्यायावतारः १२५ 00000000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० सूर्योपनिषदि पुनः सूर्याद् वै खल्विमानि भूतानि जायन्ते । बह्वचोपनिषदि तु-देवी ह्य काम आसीत सैत्र जगदण्डमसृजत् । कामकलेति विज्ञायते शृङ्गारकलेति विज्ञायते । तस्या एव ब्रह्मा अजीजनत्, विष्णुरजीजनत्, रुद्रोऽजीजनत्, सर्वे मरुद्गणा अजीजनन्, गान्धर्वा अप्सरस: किन्नरा वादित्रवादिनः समन्तादजीजनत, भाग्यमजीजनत् सर्वमजीजनत, सर्व शाक्तमजीजनत अण्डजे स्वेदजमुद्भिज जरायुजं यतकिंचैतत प्राणिस्थावरजङ्गमं मनुष्यमजीजनत् सैषा परा शक्तिः । इत्याद्यनेकधा कपोलकल्पनाकल्पितम् यद्वा तद्वा जगुः । पर आपौराणिकौपनिषदानां सर्वेषां तेषामिदमेक परस्परं न विसंबदते यदुत-ब्रह्मादिकृतमिदं स च व्यवस्थया विदधाति विश्व विश्वम् । अत्र विचार्यते तावद्विचारचतुराणां विचारणीयंयदुतोत्पन्नोऽसौ न वा ? । ( न तावदुत्पन्नस्तथात्वे जगदेव तथाऽस्तु ) आये च कथं तदुत्पत्तिः ? स्वयं चेद्, अस्तु जगतोप्येवं तस्येव अनादिता च तस्यापि। परतश्वेत. सोपि कथं कुत इत्यनवस्थावल्लरीमतिनभोमण्डलेऽप्यमान्ती क्व विश्राम्येत् । अन्यच्च-अभून्न चेजगत् कुत्राऽसौ क च रय्यादि निष्पादित तापितं पाण्डादि क च तापः । केन निष्पादितं मृदादिनेव घटादिरण्डादि । कथं चर्ते परमाणुप्रचयं तत्, सोऽभूत् चेत्, कथं विप्रकीर्ण एव नाशितः प्रलयकाले संयोगेन चेत्, न तावत् कुलालापसदोऽपि स्वकृतानि भाण्डानि विनाशयति । न च वार्यपि स्वपोषितत्वादधो नयति काष्टं, मन्यते यन्मा विनाङ्क्षीदेतदिति । अत एवोच्यते विज्ञैः-- यदि तेन कृतो लोको भूयोऽपि किमस्य संक्षयः क्रियते । उत्पादितः किमर्थ यदि संक्षेपणीय एवासौ ॥१॥ Page #144 -------------------------------------------------------------------------- ________________ १२६ न्यायावतारः .०००००००००००००००००0000000000000000000000००००००००००००००००००००००००००००००००००००000000000000 कश्च गुणोऽस्य प्रलयकरणेन परमाणुपुञ्जस्य, को ह्य वमुत्पाद्यतयाभिमतं विज्ञो विनाशयेद्वर्त्तमानम् । अनुत्पन्नश्च दनादित्वादस्तु जगदपि तथैव काहानिः । कार्यत्वादिकं तु निराकरिष्यत एव । यद्वाकथं न तस्यापि कार्यता, नित्यत्वाच्चेदितरेतराश्रयः। सिद्ध हि नित्यत्वे कार्यताभावः तस्मिँश्च सिद्ध नित्यतासिद्धिः । अथवा अस्तु जगतोऽपि कार्यतारहितत्वम्, अन्यथा स कुहास्थादवाक् सृष्टयु त्पत्तेः, क वा वर्णितमेकार्णवतादि सृष्टयनुत्पत्तेः स्थितमिति विलोकने विचाररहितेऽर्थेऽङ्गीकृते योग्यतामनुभवत् खविलोकनं भवतामपि भवत् केन वार्येत ? आकाशे चेत् जीवन्तु परं स कुतोऽनादिर्मतः। आत्मन आकाशः सन्भूत इति त्वौपचारिकमेवोत्पादवणनम् । अमूर्तस्योत्पादाभावान्न तस्योपादानकारणं किञ्चिदस्ति, यनोत्पाद्येताऽसौ निर्मयत्वादनवयवित्वाच्चेत, सत्यमुक्तं परमालोचयन्त्वेवं जीवे, सोप्येवंविधो न वा ? यद्यपि न योग्यमुक्तमनवयवित्वादिति । इहाकारो इदमिहाकाश इदमित्यवयवप्रतीतेघंटादेमहतो यद्यनेका अवयवाः तर्हि किं न स्युस्ततोऽतिमहत आकाशादेः, परमन्यदेतत् । जीवा अपि 'न जायते म्रियते वा विपश्चिदिति वाक्यात् नित्या एवेति न ते उत्पादिता इति चेत्ते के सकर्माणोऽभूवनकर्माणो वा? आये, तत्कर्मक कृतं? पूर्वसर्गे चेत्, कथमेतावत्कालं न फलितम्। विपाककालेऽपश्यं फलदानस्वभावं हि तत्, अन्यथा तदभ्युपगमवैयात्। पूर्व यदि फलदानपट्वेव तदासीत् तदा नास्थूल शरीर उपभोगः कर्मणामिति बलात्कारेणाप्यायातं जगतोऽनादित्वम् । यदि च कर्मणां तत् सामर्थ्य स्वयमीश्वरेण तदपेक्षया दीयते चेत्, तानि शिखण्डीभूतानीति व्यपेक्षेश्वरस्य तेषां, तथात्वे च सर्वशक्तिसमन्वितस्य न करुणा कापि, येन दुःखदुर्गदौर्गत्यविह्वलं जनं सृजति, जगति च बहव एव दुःखभोगिनो, विशेषेणेक्ष्यते चेत् न कोऽपि सर्वथा सुनिधानम् । कथं च तेन प्रथमत एव दुष्कृतकरणकाले एव न निवारिता जन्तवः ? का चैषा मदमत्तता ? यत् सत्यपि सामर्थ्य दुराचारात् पाल्यानां नावनम् । न सा शक्तिः चेदी Page #145 -------------------------------------------------------------------------- ________________ न्यायावतारः 000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० यतां जलाञ्जलिः सर्वैश्वर्यवादस्य । तथा च यद्गीयते झानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च, सह सिद्धं चतुष्टय ॥१॥ मिति । तदलीकमेव। अलीकगुणोत्कीर्तनेऽपि च स्पष्टैवातितीव्रा मृषाचादि. तेत्यत्रबुद्धपूर्वमेव प्राज्ञानामस्तीति । शिक्षणायापि तत्करणमनुहरत्यनार्यक्रियां हास्यायाऽन्यप्राणिबाधनामिकाम् । यतः सत्यपि शक्तिनिकरे कैषां पामरजनोचिता रीतिः ? स्वकृतत्वात्तस्य न तथात्वे चेद् बन्धः, कथं पुत्रवधे पितुः ? । अन्यच्च-तदर्थं चेत्, किमिति न चक्रेऽत्रैव नरकादिकं प्रत्यक्षं, येन लोकः कोऽपि न चार्वाकमतानुगो भवेत् । कोपि न च विदभ्यात् पापलेशम् । नृपाज्ञामिव प्रतिक्षणमनुपालयेचान्तःकरणत एव तदाज्ञां शेषामिव । कथ च न सोपि जगज्जीवदुःखीकरणानार्हति शिक्षाम् ? । कथं वा तङ्कजनाद्भावुकभावुकोद्भवोभावुकानाम् । नहि न्यायकारिणां युक्तमेतद्यदुत-स्वसेवातोऽपराधकारिणां मुक्तिरन्यथाऽनपराधानामपि बन्ध इति । अन्यच्च -जीवैः कर्माणि स्वयं कृतानि तेन कारितानि वा ? |आये, यथैवाशुभसमाचारादुपार्जितमशुभं तैस्तथोपभोगमपि तस्य कुर्याञ्च कोदोषः । किञ्च तथात्वे प्राणवधादिकमेकस्य पूर्वकृताशुभकर्मविपाकीभूतं यत्तदेवान्येषां नूत्नतत्समर्जनायेति न स्यान्नियमः। तस्य फलरूपत्वेनेतरस्येश्वरकारिताङ्गीकारात् । तथात्वे च पूर्वजन्मनीह परत्र च न कोपि कस्यापि कर्मणो बन्ध ईश्वरकारितत्वात् स्वयं तदकरणात् । तत् कैव कर्मबन्धस्थित्यभावे तत्फलदानस्थिति: । अन्यच्च-यदत्र विदधातीष्ट भवयोऽनिष्ट वा तच्चेदीश्वरकृतं, न तस्य शुभायेतरस्मै वगा। स्वयं कृतं चेदाजन्म विनेश्वरेण प्राणिनां सम्पद्यते पूर्वकर्मानुसारेण शुभाशुभफलानुभवः तर्हि किमीश्वरेण ? । जीवस्य स्वयमज्ञत्वाद् गत्यन्तरे तादृशे निदधात्यसौ, यत्र स्वयं स्वकृतादृष्टफलोपभोगायालम्भूष्णुः Page #146 -------------------------------------------------------------------------- ________________ १२८ न्यायावतारः 000000000000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००06066066. स्याच्चेद्,योग्यमुक्त, परमुदीक्षणीयमेतत्, यदत्रैव जनुपि परकृतकर्मानुसारेणेतरेषामपरप्रेरणं भवति वधाय दानाय वा परिणति: केवलकर्मसात्राज्यात तर्हि तेनैवैतस्यात्रागमने किमाञ्चर्यम् । न च नोद्यं . कथमचेतनानि कर्माणि यथायोग्यं गत्यन्तरं प्रापयेत्तद्वन्तम्। लोहो. पललोहयोरचेतनेपि विनैव परप्रेरणां दृश्यते एवाकर्षस्तथा चोत्तममध्यमाधमकर्मणां वैचित्र्यात् किमिति न घटां प्राञ्चति यथार्ह गतिप्राप्त्यादि, येनादृष्टासम्भवितकल्पनागहने प्रवेशः प्रविष्ठविवेकानाम् । अकर्मकत्वे च कथं नानुचितिपदवीमञ्चतीश्वरस्य, नेषां क्षित्यादित्वेन वैवम्यापादनम् । न चैकमप्यन्तरेण जीवेयुनराः तित्यप्ते जोवायूनाम् । न च तान्यपि स्युरेकैकमन्त।। तन्नाकर्मभिरप्यात्मभिः सृष्टिसृष्टिः सृष्टिसर्जनपटिष्ठोटाकोटिमेति । किञ्च-प्रयोजनमनुद्दिश्य न मन्दोपि प्रवर्त्तते' इति न्यायात किमर्थमसौ यत्न आस्थीयत ईश्वरेण ? सति तस्मिन् स्पष्टैवाकृतार्थता । अन्त्ये च प्रेक्षापूर्वकारिताऽभावः। न चेश्वरे न तद्दषणं, निःस्पृहत्वेन गुणत्वादितिचेत्, तन्न वरं, यतो निःस्पृहत्वं परोपकाराय स्वोपकाराय वा स्यादत्र तु तस्य कृतार्थत्वादितरेषांअल्पानां सुखविधानेऽपि बहूनां दुःखजम्बालविमोहनाच न तल्ल शोऽपि । एतेन कैव तीर्थकृतां तीर्थप्रवर्त्तने फलप्रातिः ? अस्ति चेत्, स्वार्थपरायणता । नास्ति चेद्, नोत्तमनीत्यनुसारितेति मूढोल्लापो निरस्तः । ते हि पूर्वजन्मन्येव परोपकारप्रवणेकान्तःकरणतयाऽभान्त्सुः तीर्थकृत्कर्म प्रवचनप्रवर्त्तनायेति न तेषामकृतार्थता निष्फलारम्भता वा । प्रवर्त्तयति च शासनमजरमरणमभयकरं तृतीयौषधवत् सर्वगुणं तदुदयेन । नामकर्मत्वाञ्च न पराधीनतापत्तिरात्मगुणानाम् । न चायनं वेद्यते तत् कर्मेति दिक । न चैवमीश्वरस्यास्ति कर्मलेशोप्यभ्युपगतो भवता । किञ्च-सर्वशक्तिमत ईश्वरस्य किमित्यसम्भविन्यण्डादिक्रियोपरफुरुते ? कथं च ततः प्रादुर्भावोऽस्य सचराचरस्य ? इति विचारयन्तां स्वयं विज्ञाः । न ह्यवं कल्पनामात्रेण भवति पदार्थप्रादुर्भूतिः । कथं च सर्वथा निःसङ्गत्येश्वरस्य भवेत् Page #147 -------------------------------------------------------------------------- ________________ न्यायावतारः १२६ 00000000000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० कल्पनाप्रसङ्गः कथं वा नाभूदर्वाक् नित्यत्वेनावस्थितत्वात्तस्य । नहि तस्य कल्पनासम्भवेऽस्ति कारणं किञ्चित् । करुणा तु पूर्व निरस्तैव विधातुर्विधातृत्वे । कथं च कुर्यादसौ करुणया विधानो लोकं दुःखदौर्गत्यदुर्योनिजन्मादिक्लेशविह्वलं, येनोद्भवेदेतादृश उल्लायोऽनिवार्यः। - यदाहुः-दुःखदौर्गत्यदुर्योनि-जन्मादिक्लेशविह्वलम् । जनं तु सृजतस्तस्य कृपालोः का कृपालुता ? ॥१॥ कथं च नामार्वाक सृष्टे जनाभावाद् दुःखसम्भवो, येन करुणोद्भवः सम्पद्यत सम्भावनापदम् । अपरं च किमसौ शरीरमुपादायैतत् करोत्यन्यथा वा? | आद्ये, कर्माणुरहितः कथमुपादत्ते ? सर्वदा वा किमिति नोपादत्त ? कियत्परिमाणं वा तद् ? जगत्परिमाणे तस्मिन्नुपादीयमाने अन्यकरणीयावकाशाभावः । परिमाणवत्ति च सर्वव्यापिस्वाभावेन सर्वत्र क्रियाविरहः । तथा च तत्र स्वयमेव क्रियाऽभावः । अन्यकर्माणूपादाने तु स्पष्टव कृतनाशाकृताभ्यागमप्रसङ्गापतिः । सूक्ष्मशरीराभ्युपगमे च स्पष्टव स्थूलपदार्थभूभूधरसरित्सरित्पत्यादिकरणायाऽयोग्यता । स्थूलसूक्ष्मयोर्भेदाभावेऽरत्येव सर्वेषामदृष्टं सूक्ष्ममिति किं विश्वविधातूदूषणेन । विचारणीयमावश्यकमेतद्यदुतविश्वविधात्रभ्युपगम्यश्चेत्, कोऽसौ ब्रह्मा प्रजापतिः शक्तिः प्रधान यावनीयो वा कोपि ? यतस्तेप्याख्यान्ति-यदिष्टमीश्वरेण जायतामाकाश, जातमवलोकितम् चारु । जायतामुद्योतो जातो चीक्षितः सुन्दसे दिवस इति चक्रऽभिधा तस्य । अन्धकार उद्भवतु जातो, रात्रिरित्यभिदवे ताम् इत्यादि । यदि विहितमेव स्याद्विश्व केनापि, किमिति स्वापलापिनस्तादृशानऽकरिष्यदसौस्वासममहिम(मलि)म्लुचः यदापि जेगीयते श्रुतिस्मृत्यादि । तत्र विचार्यते तावत्-को ब्रह्मा प्रजापतिःशक्तिर्वा । तत्र प्रश्नोपनिषदि दृश्यतां, यदाह तत्र-संवत्सरो वै प्रमापतिस्तस्यायने दक्षिणं चोत्तरं च ॥९॥ मासो वै प्रजापतिस्तस्य Page #148 -------------------------------------------------------------------------- ________________ १३० न्यायावतारः 0.00000000000000000000 30000000 1000........03000000000000000000000000000000008 10000000 कृष्णपक्ष एव रयिः शुक्लः प्राणः || १२ || अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः || १३ || अन्न ं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति । - बृहदारण्यकेऽपि स एव संवत्सरः प्रजापतिस्तस्य रात्रय एव पञ्चदश कलासु चैवास्य षोडशी कला । अत्रोहनीयमूहावतां यदुतैतत् कर्तृभिस्तावदनिर्णीतो यः कोऽपि प्रजापतिर्निर्दिष्टो, येन विकल्पयति संवत्सरादिभिर्न च निर्णीते भवत्येवायमुल्लेखः । अन्ततो गत्वा चान्नमेव प्रजापतितया निर्दिदेश, यन्त्र केनापि न कक्षीक्रियते तदाधारत्वात् सर्वेषां तच्चावश्यमेव प्रजारक्षणतत्परमिति माननीयं विद्वद्भिः । कल्पनाकल्पितत्वं च न तं प्रच्छन्नमैन्द्रजालिकानामितरेपाभित्र किन्तु तद् ये हवे तदिष्टापूर्त्ते कृतमित्युपासते ते चान्द्रमसमेत्र लोकमभिजायन्ते त एव पुनरावर्त्तन्ते तस्मादेते ऋषयः प्रजाकामाः दक्षिण प्रतिपद्यन्ते एष वै रयिर्यः पितृयाणः ॥ ॥ अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यभिजायन्त एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्त्तन्त इत्येव निरोधः । विलोक्यतां विद्वः सोऽत्र स्पष्ट वाक्चत्येते - कृतमित्युपासनं दक्षिणायने तपोत्रह्मचर्यादि स्वीकरणं च दृष्ट्वातितरामांतरां दृष्टि सूर्ये प्रजापतितया निवेशयन्ति । एवमेव मासस्य प्रजापतित्वे तस्मादेते ऋषयः शुक्ल इष्टिं कुर्वन्ति, इतर इतरस्मिन् । रात्रेः प्रजापतित्वे प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते । ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते । अत्रापि स्पष्टमेव निरटङ्कि स्वाभिप्रायः सूरिभिर्मासरजन्योः प्रजापतिकल्पनायाम् । यद्यपि च रात्रौ रत्या संयोजनं प्रतिपादितं स्वेषामपि प्रतिकूलं परं तदत्र प्रस्तावे प्रजोपपादनस्य प्रक्रान्तत्वादनिवार्य गृहमेभ्यपेक्षया तस्यान्यकान्तां विहाय स्वदारसन्तोषेण स्वदाराभिगमरूपस्य वा ब्रह्मचर्यरूपत्वमिति युक्तमेव । अतः मुण्डकोपनिषदि - 'तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । श्रन्ना • Page #149 -------------------------------------------------------------------------- ________________ न्यायावतारः १३१ ........१०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० प्राणो मनः सत्यं लोकाः कर्मसु चामृत'मित्यनेन ब्रह्मतपःफलतयाsनमभिप्रेतम् । न चैनं प्रजापतिं नाङ्गीकरोति कोऽप्याबालगोपालम् । एतदेव च सर्वविधानसावधानम् इत्यपि युक्तमेव । यद्यपि च विरुद्ध वर्ति इदं यत्-ब्रह्मणस्तपसा जातायां पुष्टाविति तत्कारणस्य सष्टमेवेतरस्यावलोकनात् अपलप्यते चेत् प्रत्यक्ष कुलकमायाता नीतिरेषा भवतां यदुत-भ्रान्तं प्रत्यक्षमिति कथमन्यथा जगन्मिथ्या प्रपञ्चोऽसन्नित्याद्यवक्ष्यन् भवत्पूर्वजाः । मा च त्वरिषत भवन्तो निर्णीयते भवदभिमतमपि । प्रतिपादयाञ्चक्रुस्तावच्छान्दोग्ये-ऋषयः मनो ब्रह्मत्युपासीत । ४ । १८ । आदित्यो ब्रह्म त्यादेशः। १-१-३ बृहदारण्यकेइयं पृथिवी सर्वेषां भूतानां यावदमृतमिदं ब्रह्मदं सर्वं । इमाः आपः (यावत) ब्रह्मदं सर्व । अयमग्निः । अयं वायुः । अयमादित्यः । अयं चन्द्रः । इयं विद्युत् । अयमाकाशः । अयं स्तनयित्नुः । अयं धर्मः । इदै सत्यं । इदं मानुषम् । अयमात्मा सर्वषां भूतानां मध्वस्यात्मन: सर्वाणि भूतानि मधु यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चाय- . मात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योयमात्मेदममृतमिदं सर्वम् । विलोक्यतां विचक्षणा जगन्निदानमीक्षणैर्वदन्ति यत्परे स्फुटविहाय ब्रह्म नापरम् । न निश्चितं महर्षिभिर्यतो विकल्प्य देशितं, क आग्रहस्तदा तदीयवाक्यसेविनां ननु॥११॥ पाहुश्च पुनः वाग्वै सम्राट् परमं ब्रह्म । प्राणो वै सम्राट् परमं ब्रह्म । चक्षुर्वै सम्राट् परमं ब्रह्म । श्रोत्रं वै सम्राट् परमं ब्रह्म । मनो वै सम्राट् परमं ब्रह्म । हृदयं वै सम्राट् । सर्वेषां भूतानां आयतनं हृदयं वै सम्राट् सर्वेषां भूतानां प्रतिष्ठा हृदये ह्य व सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति हृदयं वै स्म्राट परमं ब्रह्म नैनं हृदयं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते। Page #150 -------------------------------------------------------------------------- ________________ १३२ न्यायावतारः .000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००0000000000 भृगुवल्लयामपि-अधीहि भगवो ब्रह्मति तस्मै एतत्प्रोवाच अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । विचार्यतां महाशया यदि अत्र न ब्रह्मत्वेन प्रतिपिपादयिषितं स्यादन्नादि, कथं प्राण वाचमिति भवेद्वचनयुगलम् । प्रोक्त चाग्रे अन्न ब्रह्मति । प्राणो ब्रह्मति । मनो ब्रह्मति विज्ञानं ब्रह्मेति । आनन्दो ब्रह्मति । श्रुतिरहस्यमिदं नहि निश्चितौ, जगति कौचन ब्रह्मप्रजापती। श्रवणतत्परशान्तिकृते जगु श्रृंषय एवं यथारुचि कल्पिती ॥१॥ भो भोः कणादकपिलादय ! आश्रयध्वं, किं ब्रह्म यद्विदधते जगतां व्यवस्थाम् । युष्माकमेतदृषिभिर्गदितं पुरोक्त, नेत्रेनिमील्य पिवताऽऽयतिसौख्यदातृ ॥२॥ माश्रित्य विश्वजननाय परं महेश, दैवं विना च भवतीह न कार्यजातम् । तत्त्वाश्रितं कुरुत किन्तु महेश्वरेण नाऽजागलस्तननिभेन निजेष्टसिद्धिः ॥३॥ अथ चतुरचातुर्यावज्ञातदिवस्पतिपाठकाः संश्रयध्वं यूयं योगिन इव तुर्यावस्था तुरीयविकल्प स्वमनोरथपूर्तये यदचिन्त्यप्रभावोऽसौ 'महतो महीयानित्यादिवाक्यादिति चेद्. भवतु चिन्तामण्यादिवत् स्वमहिमाधरीकृताखिलविश्वस्य विश्वाधिपतेः सामर्थ्य तादृशं, परं न तहते आराधकं स्यादिति विद्यमानस्यैव जगतस्तत्प्रभाव इयत्युपयोगम् । अन्यथेच्छाप्रादुर्भावादिना पूर्वोक्तदोषानतिवृत्तेः। न च तस्य वीतरागत्वाद् वैषम्यकारणं किञ्चिदिति, भाव्यं च तथा सति जगता वैषम्यरहितेनेति नासावप्यर्हति घटनाकोटिम् । अथ विहायाऽसदाग्रह यथार्थपञ्चमुखाराधनपटिष्टतयैवमाचक्षतोरीकृत्य पञ्चमं विकल्पं यन् Page #151 -------------------------------------------------------------------------- ________________ न्यायावतारः १३३ Booooooooo०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० महेश्वर एव तावद् यः सर्वज्ञः स सर्वविदिति श्रुत्या सर्वज्ञः । सर्वज्ञश्वातीतानागताद्यद्धावेत्तृत्वादेव । तथा अवाप्तवेदनश्चावश्यम्भाविनीं स्थितिं जानाति पर्यालोचयति च । यतो नहि तदज्ञातमस्त्यभूद् भवि यद्भवति वा, सर्वज्ञताक्षतेः । परिणमति च जगति तथैव यथा अनेन ज्ञानेनावभासितम् । ज्ञानं च तदधीनमेवेति, यथा यथा परिणमति तस्य ज्ञानं तथा तथा विश्वेक्ष्यविश्वान्तर्वर्त्तिपदार्थप्रकरोऽप्यावर्त्तते इति साहचर्येणाऽनन्यथासिद्धनियतपूर्ववृत्तितया भवत्येव तद्विश्वविधेः कार गं ज्ञानम् । न च भिन्न तत्ततो, गुणानां द्रव्याभेदेन व्यवस्थानात् । 1 अन्यच्च - श्रुतिषु भवान्तरगमादौ नेक्ष्यते तन्नामापि । आदिसर्गसाधनत्वं तु कल्पितमर्वा व ज्ञातम, उत्पत्तिश्च जीवस्य प्रेत्य प्रवेदितैवमृषिभिर्यथाहु: - इति तु पञ्चम्याम्महुतावापः पुरुषवचसो भवन्तीति स उल्वावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा यावद्वाथ जायते ॥ १॥ स जातो यावदायुषं जीवति त प्रेतं दिष्टमिताग्नय एव हरन्ति यत एवेतो यतः सम्भूतो भवति |२| इति नवमः खण्डः । अथ य इमे ग्राम इटापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान् षड् दक्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति || ३ | मासेभ्यः पितृलोकं पितृलोकादा का शमा का शाश्ञ्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ||४|| तस्मिन् यावत्सपात मुषित्वाथैतमेवाध्वानं पुनर्निवर्त्तन्ते यथैतमाकाशमाकाशाद्वायु वायुभूत्वा धूमो भवति धूमो भूत्या भवति ||५|| अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहि-यवा औषधिवनस्पतयस्तिलमाषा जायन्ते तो वै खलु निष्पतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति || ६ || तद्य इह रमणीयचरणा अभ्यासो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा । अथ य इह कपूय चरणा अभ्यासो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा शूकरयोनिं वा चण्डालयोनिं वा ॥७॥ अथैतयोः पथोर्न कतरेण च न Page #152 -------------------------------------------------------------------------- ________________ १३४ न्यायावतारः 00000000000000001000000000000000000000000000000000000000000000000000000000000000 7 तानीमानि क्षुद्राण्यसकृदावर्त्तीनि भूतानि भवन्ति, जायस्व म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते तस्माज्जुगुप्सेत तद्वेष लोकः । एतदेव बृहदारण्यकेऽपि षष्ठेऽध्याये द्वितीये ब्राह्मणे । नात्र ब्रह्मनामाण्यनुश्रूयते, किमु तत्कर्तृ स्वम् । न केवलं भवावताराधिकारे एव न श्रूयते किन्तु ब्रह्मत्वावातावपि न तत्कर्त्त त्वमनुगीतम् । तथाच श्रुतिः तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासने, तेऽर्चिषमभिसम्भवत्यर्चिषोऽइरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षान्यान्षडुदति मासांस्तान् ॥१॥ मासेभ्यः संवत्सरं संवत्पदादित्यमादित्याचन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो मानवः स एनान्ब्रह्म गमयत्येष देवयानः ||२|| मुण्डकोपनिषद्यपि - तपः श्रद्धये ह्य् पवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुत्रोऽव्ययात्मा । अनेकत्र च भवान्तरगत्यादिनिर्देशः कृतः श्रुतिस्मृत्योः । न परं कुत्रापि ब्रह्म-प्रजापतिप्रभृतिकर्त्तव्यलेशोऽपि दर्शितो दीर्घदर्शिभिः । परं दृश्यते कर्मकृतमेवागमनं तदिदमाह-विस्रस्यमानशरीरस्थस्य देहिनः देहाद्विमुच्यमानस्य किमत्र परिशिष्यते एतद्वै तत् । ४॥ 1 ܘ न प्राणेन नापानेन मृत्योर्जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ||५|| हन्त त इदं प्रवक्ष्यामि गुह्य ं ब्रह्म सनातनम् । यथा च मरणं प्राप्य आत्मा भवति गौतम ! ॥६॥ योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयंति यथाकर्म यथाश्रुतम् ॥७॥ मुण्डके पि - परीक्ष्य लोकान्कर्मचितान् । एष वः पुण्यः सुकृतो ब्रह्मलोकः । Page #153 -------------------------------------------------------------------------- ________________ न्यायावतारः १३५ ..00000000000000000000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००० छान्दोग्ये च तद्यथेह कर्मजितो लोकः क्षीयते, एवमेवामुत्र पुण्य-जितो लोकः क्षीयते । बृहदारण्यकेऽपि-पुण्यो वै पुण्येन कर्मणा भवति पापः पापेने ति। तथा तेन प्रद्योतेनैष आत्मा निष्कामति चक्षुष्टो वा मूनों वान्येभ्यो था शरीरदेशेभ्यस्तमुस्क्रामन्तं प्राणोनूत्क्रामति प्राणमनूत्क्रामन्त सर्वे प्राणा अनूत्क्रामन्ति स विज्ञानो भवति विज्ञानमेवान्ववक्रामति तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च ॥२॥ न केवलमेतावन्मात्रं भवान्तरसह क्रमणविषयं कर्मवलं स्वीकृतमुपनिषत्कार: किन्तु नवीनतरशरोरादानेपि यथाकमैवेति पूर्व कठोपनिषदि प्रोक्तमपि स्पष्टं दर्शयति तद्यथा-'पेशस्कारी पेशसो मात्रामादाय मात्रामादायान्यन्नवतरं कल्याणतरं रूपं तनु । एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयिस्वान्यन्नवतरं कल्याणतरं रूपं तनुते पित्र्यं वा गान्धर्व वा दैवं वा प्राजापत्यं वा ब्राहम्यं वान्येषां वा भूतानां ॥४। तथा पुण्यः पुप्येन कर्मणा । तथैव यत्कर्म कुरुते तदभिसम्पद्यते । तदेष श्लोको भवतितदेव सक्तः सह कर्मणैति लिङ्ग मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यकिन्चेह करोत्ययम् ॥ इत्यादिषु स्वयमेवाष्प्रभावो दृश्यते इतरनिरपेक्ष इति स्वीक्रियते पूर्वोक्तयुक्त्त्या । 'यस्यैव महिमा भुवि । तस्य भासा सर्वमिदं विभाति' इत्युपनिषदश्व ज्ञानद्वारा कर्त्त त्वं चेद् वरम काषुर्भवन्तो यत्प्रपन्ना विचार्य स्वयमन्यमध्वानं शुभतरपुण्य जनपथावतारवत् । न चात्रास्ति चाकचिक्यम् । यतो न यज्ञातं सर्वशेनास्ति किश्चित् न चात्र व्यक्तिविषयो विवादः । अभ्युपगम्यते चास्माभिरपीदं तदुक्तं सर्वभावेषु कर्तव, ज्ञातृत्वं यदि सम्मतम् । मतं नः सन्ति सर्वज्ञाः । इति । पारमर्षेपि-'जं जह भगवया दिट्ठ तं तहेव परिणमइतिवचनात् । पापठति च लोकोऽपि यद्-एकनावधृतं यथा प्रथमतो, Page #154 -------------------------------------------------------------------------- ________________ १३६ जातं च चेत् पश्चातत्तथा तर्हि 'भवदभिमतमेव जात' मिति भावत्कं सत्यं, भवानेवात्र प्रभुः कत्तु मकतु मन्यथा कतु चेतीहापि यदीश्वरेण egमेवो द्रवेजगति नान्यविचारितं स्यादेव तर्हि तद्विहितमेवैतदितिव्यपदेशः । भण्यते च सुश्रुतपरमार्थेनापि यदीश्वरदृष्टं यत्तदेव भावि नान्यथेति । यथा वा तेन वस्तूनां मनोवाक्कायादीनां भूतादोनां ऋत्वादीनां च स्वभावः परिगीतो दृष्टो वा तथैव भवतीति कल्प्यतेऽसौ कर्त्त तया सर्वेषां चेत्, न हानिरुपचरितस्य सर्वथा मृषात्वायोगात् । यथोच्यत एव । न्यायावतारः 0000000000000000000000000000000000000000000000 30000000000000000000000000 छान्दोग्ये - कोयमात्मेति वयमुपास्महे कतरः स आत्मा येनपश्यति येन वा शृणोति येन वा गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वा चाखादु च विजानाति || १ || यदेतत् हृदयं मनश्चैतत् सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेघा दृष्टिधृ तिर्मतिर्मनीषा जूति: स्मृतिः सङ्कलः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ||२|| एष ब्रह्मष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्च महाभूतानि पृथ्वीवायुराकाशमापो ज्योतींषीत्येतानोमानि च क्षुद्र मिश्राणीव | बीजानीतराणि चेतराणि चाण्डजानि जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गात्रः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च ब्रह्म ||२|| स्थावरं सर्व तत्प्रज्ञा नेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठाप्रज्ञानं स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत् इत्योम् । अत्र यथाहि जीवलक्षणमात्मानं गौणीकृत्य तज्ज्ञानमेव प्रवानीकृतं स्तेन सर्वकार्य सिद्धिरुदाहृता । तथेश्वरस्य परमप्रज्ञा नेत्रत्वाद्यद्यच्यते सर्वविधातृत्वं नानुभवत्यनृततामिति । उच्यते चापेक्षयैवात्मनोऽपि सर्वविधानविज्ञत्वम् । Page #155 -------------------------------------------------------------------------- ________________ न्यायावतारः १३७ DOOOOOOOooooooo......................... oooooooooooo0000000000000000000 000000000000000 - यबृहदारण्यके यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथ्वीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ||३|| योऽप्सु तिष्ठन्नद्द्भ्योऽन्तरो यमापो न विदुर्यस्यापः शरीरं यो योऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ||४|| योऽग्नौ ॥५॥ योऽन्तरिक्षे || ६ || यो बायो ||७|| यो दिवि || ८ || य आदित्ये ॥ ६ ॥ यो दिक्षु ||१०|| चन्द्रतारके ||११|| य आकाशे ।। १२ । यस्तमसि ॥१३॥ यस्तेजसि ॥१४॥ यः सर्वेषु भूतेषु ||१५|| यः प्राणे ||१६|| यो वाचि ||१७|| यचक्षुषि | १८ || यः श्रोत्रे ॥ १६ ॥ यो मनसि ||२०|| यस्त्वचि ॥२१॥ यो विज्ञाने ||२२|| यो रेतसि ||२३|| अदृष्टो द्रष्टाऽश्रतः श्रोताऽमतो मन्ताऽविज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽनोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञातैष त आत्मान्तर्याम्यमृतोऽतोन्यदार्त्त ततो होद्दालक आरुणिरुपररामेति । अत्र स्पष्टमेव विचित्र पर्यायानुयायिनोप्यात्मन उक्तापेक्षयाभिमतं कर्तृत्व, व्यक्तीकृतं च नान्य इत्यादि । तद्वदत्रापीश्वर परिदृष्टतयाअभ्यनुज्ञायते चेत्, न कोऽपि विरोधलेशः । उपचरिते हि युज्यत एव सर्वं तस्येति । अथ चाश्रियते श्रियै षष्ठो विकल्पो विकल्प पृष्ठैर्विकल्प पृष्ठः कालादिवत्तस्य साधारणकारणतां मन्यमानैरेवम् । यतस्तेन दृष्ट चेद् भवति, न तावन्मात्रतस्तस्य कर्तृ ता युज्यते । उपचारतोऽप्येवं हि गीयमाने कर्त्तत्वे येन येन यद् यद् दृष्टं जायते तस्य तस्य स स कर्त्ता भवेत् । तथा च हिंसां विदधतो दर्शनेन तस्य पापीयसो जीवान् स्या शुभ कर्मबन्धो के चापद्येरन् कर्त्तार एवं सूर्य-योगि-कर्त्रितरजनाद्याः । न च तत् सम्भवति, सम्भवति चेदुपचारेण सर्वे न तथापि वन्ध्यासूर त. मित्र कस्मैचिदपि साफल्यायेति विकल्प्य मन्यते तस्य कर्त्तता, तदाप्रवदता विकल्प्यते च यत् तेनोपदिष्टं तत्तदेव विधिस्तत्कर Page #156 -------------------------------------------------------------------------- ________________ १३८ न्यायावतारः ००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० णाच्चामृतत्वाधिगमस्तदकरणाच्च संसारसंसृतिर्जायते जीवस्य । प्रोचिवांसश्चर्षयोऽप्येतत् यदुतप्लवा ह्ये ते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ यो नाभिनन्दन्ति मूढा जरामृत्यु ते पुनरापि यति ॥१। अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः । जंघन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः ।।२।। अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत्कर्मिणो न प्रवेदयन्ति रागात्तेनातुराः क्षीणलोकाश्च्यवन्ते ॥३॥ इष्टापूर्त मन्यमाना वरिष्ठं नान्यच्छे यो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते मुकृतेऽनुभूत्वेमं लोकं हीनतरं चाविशन्ति ॥४॥ तपः श्रद्धये ह्य पवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचयाँ चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यमृतात्मा।११। तथा तमात्मस्थं ये नु पश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् । यज्ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति । इति श्रुतिसमुदायात् स्पष्ट एव निदेशितोऽमृतमार्ग इतरस्य तद्ये यथा यान्ति ते तथा गतिभाजो भवन्तीति स्वीकतु मुचितं तस्यैतत्कर्तृत्वम् । लभ्यते हि यो गुणो यदनुशासनात्तस्य गीयमानं कर्तत्वं तस्य न दोषपोषाय, कारणमात्रस्य कर्तृत्वात कञ्चित्, कारणं चेष्टप्रवृत्ती प्रादुर्भवत्येवागिष्टसाधनतादि, न च तच्छाखमते, न च तदपि करिमृते इति स्पष्टं शास्त्रकर्तुरीमृतप्राप्तौ कारणत्वम् । अत एव पठ्यते-मुक्तिदाता त्वमेवेति । . न च वाच्यं यद्यप्येवं स्यान्मुक्तिकारणज्ञानप्रयोजकशास्त्रप्रणेतृत्वेन तस्य मुक्तिकर्त्त त्वम्, तथापि संसृतिसंसरणकारणता तु न कथञ्चनापि घटाकोटीमाटीकते । अन्यथा मुक्तिदातृतया आराध्यता Page #157 -------------------------------------------------------------------------- ________________ न्यायावतारः "booooooOOOOOOO0000000000000000 १३६ 0000000000000000000000000000........................ वत्तस्य सम्भवन्ती तिरस्कार्यता न शक्यते निवारयितु दोषोत्पादकस्य स्पष्टमेव दृष्टविवेकविकच कल्याणैस्तिरस्करणीयत्वादिति । यतः स्यादेव स तिरस्कारपात्रं यदि शास्त्राणि प्राज्ञापयिष्यत्तथाबुद्धया, परं 1 मृतायैव तेन धानि तानि कर्मवशपरनाथवद्भिर्जीवैश्च यथारुचि गृहीतानि प्रवृत्ताश्चामी तथा चेत संसारसंसरणमवश्यं भावीति ज्ञानमेव तथात्वाय जातं तस्य । न च तच्छास्त्रमृते इति तद्विधातुरदोषवत्त्वेऽपि तस्य तत्कारणता स्पष्ठैव । अत एवोच्यते- 'नाकारमन्तरा शास्त्र शस्त्रयोर्विदुषां भिदा । तथा 'साक्षरा विपरीताः स्यू राक्षसा नेतरे पुनरित्यादि । भवत्येव च ज्ञातेष्टानिष्टप्रकाराणामेवानात्मवित्तया ज्ञातानामनृतवद्नविपरीतप्ररूपण-लोभेन्द्रियपराधीनतादिना संसारसंसृतिवृद्धिः । न चाशास्त्रमशासितं वोत्पन्नं तज्ज्ञानं न च ज्ञानमूलमन्य इति स्पष्टैव तस्य तस्याः संसृतेरपि कर्त्तता । यद्वा-ये न लीयन्ते तदुक्तामृतमार्गे मारयित्वा मनोविकारास्त एत्रावाप्नुवन्ति संसारमिति प्राप्तस्तदा ज्ञानादर एव भवपर्यटननिबन्धनमिति तस्योपचर्यते सकारणं भवाटव्यटनकर्त्ततापि विपर्ययारोपादिति चेत् । साध्वेतत् साधितं भवद्भिः यथा तथा कर्त्त त्वम् । तदेवं न कल्पते कल्पयितुं जगदीश्वरस्य साक्षात् जगद्विधातृता विकल्पपटकैरप्यविकल्पनीयैः । 9 यच्च शिपिविष्टसाधनसावधानतयोद्गीर्णमर्वागेव । तन्नैव युक्तिक्षमम् । तत्र यत्तावदुक्तं - ' जन्तु' त्यादि । तदसुन्दरं यतः प्रत्यक्षविरुद्वैषा कल्पना । न तावज्जीवा अज्ञानिनो, न वा स्वमीप्सितं न जानन्ति, न वा तत्र न यतन्ते, फलं चावाप्नुवन्त्येव यथाकर्म । यदा च प्रवृत्तिर्जीवगुण एव तदा किमघटमानकं विलोकितं विलोकनाचतुरैः । न च स्वेष्टसाधनताज्ञानमीश्वरेणाऽऽपाद्यते । तथा सति सर्वेषां तद्वत्ताप्रसङ्गात् । न हीश्वरो द्वेष्टि रज्यते वा कस्मैचित् पुचिद्वा, येनैकस्य तत्सम्पादयेन्नान्यस्य । न च तद्भावे ईश्वरतापि Page #158 -------------------------------------------------------------------------- ________________ १४० न्यायावतारः .००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० वास्तवी । स्याच्च सर्वेषां समानमेवेष्टसाधनता ज्ञानम् । न च तत्तथा अवलोक्यते इति विचित्रतान्यथानुपपत्त्या कल्पनीयमेवाभिनवं किञ्चित्कारणं, यत स्वयं विचित्रं सद् विचित्रताधायि स्यात् । यदप्यवाचि यत्-कथं 'चादृष्टस्वर्गश्वभ्रादिमार्ग'इत्यादि । तदप्यसमञ्जसम्, यतो वर्तमानभवेऽपि येन यद् यदा यत्र प्राप्तव्यं, स तदा तत्र तत्प्राप्त्यै गच्छत्येव, ददाति चापरोऽपि तस्मै तत् । न चाऽत्र नेता दृश्यते, दृश्यते वा तत्कार्य । कल्प्यते चेद् यथेच्छं परं, नहि कस्यचित् स्वतन्त्रकल्पनामनुरुध्यते पदार्थः। क च कल्प्यतेऽसाविति. वाच्यम, गमने याचने दाने आदाने वा ' यतः पादाभ्यां गत, मुखेन याचितं, हस्ताभ्यां दत्तमादत्तं च प्रत्यक्षम् । प्रेरित ईश्वरेण चेत् । कि जगत्यामुपकारादिविलोपकाऽनिष्टतमयतया कल्पनया । तथात्वे तस्यैवोपकारोऽयं न तु दातुः, तस्य श्रेष्ठिप्रेरितकिङ्करवत्तदादिष्टकार्यकरणात् । नहि तत्र श्रेष्ठिनं विहाय भवत्युत्तमर्णः किङ्करः, स वा तस्याधमर्ण आदाता। बुद्धिर्दत्ता चेत् तेन कस्मैचिदविक्तिवृत्तान्तादेष्टा सा?, येनैवं कल्प्यमानं कल्प्यं स्यात् । कथं च न दत्ता साऽखिलेभ्यो ? यथा सर्व एव स्युनिवृतात्मानः। अन्यच्च-एवं सति बुद्धिर्वधादेरपि स्यात् तद्दत्ता। तथा च कोऽन्योजगति तादृशोऽपसदो, यो दद्यादन्येभ्योऽसद्बुद्धिम् । स्वतः सा चेत्, किं नेतरापि तथा। केन कृतमेतदितिचेद् गृहाण प्रतिप्राणि भिन्न भागधेयं यदस्ति, तद्विलसितमेतत। ननु कथमेवं सत्यपि तस्योपकर्त्त त्वादि ? परवतैव तेन करणादितिचेत, तत्केन कृतमिति विभावय । यतस्तदपि तेनैव कृतमस्ति । अन्यच्च-अदृष्टं साधनं, कर्त्ता त्वात्मैव । नही-- श्वरवत्तस्य विधातृत्वमेवाभिमन्यमानं स्यान्मन्तव्यम् । यदि च समग्रेऽपि अदृष्टश्रुतमार्गे यान्ति जीवाः स्वकर्मणा, तर्हि तदनुसारेण भवान्तरगतिरपि स्यात, क एव विरोधः? । अन्यच्च-यदि तेन नीता गत्यन्तरं जीवा यान्ति, तदा यदि जातु स न नयेनॉस्तत्प्रति काऽवस्था Page #159 -------------------------------------------------------------------------- ________________ न्यायावतारः १४१ ..300000.००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० कर्मणो, जीवस्यैकस्य निष्फलत्वमन्यस्य मुक्ततामन्तरेण । तथा चायातं भवदीयमतेन यन्न तस्य सत्ता मुमुक्षूणां क्षेमकरी। ज्ञानं न स्यात् चेत न जीवस्वभावत्वात्तत्तु स्वयं सिद्धमावृतं तु यत्कर्मणा तदेवेश्वरकृत्यमित्यभ्युपगन्तव्यं भवद्भिस्तु । यद्वा-अस्तु ज्ञानदानमात्रक ता यत उपकारो ह्य ष । उत्तमनीतियं यं परेभ्योऽसमानरत्ननिभज्ञानवितरणम् । परं च कर्त्त तायामज्ञानमपि तेनैव वितीर्ण स्यात्तदन्येन चेद्, विमुञ्चन्तु सर्वकतृ ताग्रहम् । एवं च स्वर्ग नेताऽसौ. जीवान श्वभ्राणि । यथा चादृष्टमार्गो यात्यसौ श्वघ्र स्वकर्मणा किं न याता स्वर्गमपि, येन कल्प्यते तदाश्रित्य तत्कर्त्त ता, यया तस्य विषमतामाप्तिः, अल्पानां स्वर्गप्रापणात् बहूनां च श्वभ्रपातनात् । ___ यचोदितं 'कथमचेतनानि भूतानि' । तत् स्वजीवितमप्यनालोच्दैवाभिहितम् । कथमन्यथा विविधाहारोपजातजीवितधारणापथ्यो द्भूतरोगादि-विषोपभोगजातमरणादि दृष्टा वा ब्र यादेवं । जीवेन सम्बद्धानां संयुक्तानां वा तथाभावात् को वक्ति च वियुक्तान्येवाचेतनानि तानि भूतानामुपकारायापकाराय वा भवन्ति भूतानीति येनैवमुपालम्भः, को वा निषिषेध जीवसत्तां, येनानधिष्ठितानीत्याधुदीयते । यद्वा-अचेतनान्यपि भूतानि किं नावलोकितानि मनोहररूपादिद्वारा जीवानामुपकारकृन्ति प्रतिकूलरूपादिद्वारा चापकारपरायणानि ? । येनैव नोद्यते । न च करवाललता व्यापारिता सती न छिनत्ति शिर आदि । साधिष्ठाना चेत् किं न लगति पथि पतितः कण्टकः स्वयमेव ? | यद्वा-पतिता कृपाणलतिका न कृन्तत्युत्तमाङ्गमनाभोगेन शयानस्य ? । केन च विहिता सा तीक्ष्णता कण्टकानां, महेश्वरेण चेद्, आ: पापपुजावस्कारायमानता तस्य । स्वभावेन चेद्, आयान्त्वध्वनि वायुना चेद्भूत एवासौ पथि विप्रकीर्णा वा केन च स तेनैव विहित इतिचेत्, किमपराद्धम् अङ्गिभिर्यदसौ वायुद्वारा तान् व्यकिरत् । निर्विवादं चेदं-यद्वनस्पत्यादिना वायू Page #160 -------------------------------------------------------------------------- ________________ १४२ न्यायावतारः .००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००0000000000000 द्भवो व्यजनादिना निष्पाद्यते च स्वयमपि तर्हि क एतादृश आग्रहो, यद्यक्तियुक्त विधाने स्वतन्त्रेऽपि तत्कत तोल्लेखः, स्वभाव एवायं दृढतराग्रहस्य । कथं नु भवेद् ऋतुवैचित्र्येण वैचित्र्यं वायोन चेत् स विधाता। सत्यं, परं यत्तस्य स्खलनं तत् किमीश्वरस्यानुपयुक्तता, तत्स्थलवर्ति जीवानामुपरि द्वषो वा, नाहुतयस्तत्रस्थैः सम्यग्दत्ता अभविष्यन्निति चेत् यत्र नैवाहुतिनामापि विदन्ति जनाः । तत्र किमिति नियमेनापि । पूर्वजन्मविहिताऽच्चे द्, वरमुक्त, तदेवासाधारणं कारणम् । कथमेकास्यदृष्टमचेतनं विदध्यात् किश्चिदपि स्वयमिति चेत् ।कः किमाह? नहि लोकविवरवृत्त्यदृष्टं तद् विदयाति । किन्त्वात्मसंसक्तमेव । ननु न वायुना संसर्गस्तस्य कथ चर्ते तस्येति पूर्वमेव लोहोपललोहदृष्टान्तेन निरटक्येतत् . मा विस्माषुः । तत्त्वतस्तु सूर्यगतिवैचि. व्येण तत्स्थली याऽऽत्मादृष्टानुसारेण तद्वैचित्र्यं नानुपपन्नम् । ऋतुभेदेनाऽइस्करगतिवैचित्र्यमस्त्येव । तत्रापि कारणं त्वात्मादृष्टमेव । अत एव चोचिवांसो विद्वांसो जलनिधिवारिदमर्यादा-ज्वलनानिलगतिवैचित्र्यपृथ्वीस्थैर्यनिदानतां तस्य दर्शयन्तः सूर्याचन्द्रमसोरपि तनिदानमेव भ्रमणम् । यदाहुः आप्लावयति नाम्भोधि-राश्वासयति चाम्बुदः। यन्महीं स प्रभावोऽयं, ध्र वं धर्मस्य केवलः ।।१।। न ज्वलत्यनलस्तिर्यस्यदूर्ध्व वाति नानिलः । । अचिन्त्यमहिमा तत्र धर्म एव निबन्धनम् ।।२।। निरालम्बा निराधारा, विश्वाधारा वसुन्धरा।. यच्चावतिष्ठते तत्र, धर्मादन्यन्न कारणम् ॥३॥ सूर्याचन्द्रमसावेतो, विश्वोपकृतिहेतवे । उदयेते जगत्यस्मिन्, नूनं धर्मस्य शासनात् ॥४॥ Page #161 -------------------------------------------------------------------------- ________________ न्यायावतारः १४३ 03060030००००००००००००००००००००००००००००००००००००००००००००० 100.00000०००००००००००००००००००००००००० इत्यादि । न च नाज्ञातं भवति क्रियते वेति नियमोऽस्ति । दृश्यते याज्ञानां बालमत्तसुतमूर्छितादीनां क्रिया । न च सा न फलति । तथा च यल्लपितं न समर्थो ज्ञातुमिति । तदालजालमेव । अन्यच्चसर्व एवात्मानः सुखप्रियाः दुःख द्विषश्च ति प्रयतन्त एव यथारुचि । पर मोहान्धवाददृष्टगुणदोषतया भवति विपरीतापि प्रवृत्तिः । नह्यातुर आमयवेगपीडितोऽध्यौषधमुपयुक्तमुपभुजानोऽपि न विदधात्यपथ्यम् । न च तत् केनचिदन्येन कारितम् । तद्वत्रापि । अत एव चोक्तं महर्षिभिः'दुःखद्विट् सुखलिप्सुर्मोहान्धवाददृष्टगुणदोपः । यां यां करोति चेलां तया तया दुःखमाइत्ते ।। (पशम०) इत्यादि । 'सकम्मुणा किश्च पावकारी' इत्यादि च । एतेन ये प्रलापंचक्रुरविदितवस्तुस्वभावाः यत्-यदि जीव एव स्वयं प्रवर्तते स्वभोग्यकर्मकरणे किमित्यायतिकटुकं कुर्याद् यायाद्वाऽशुभतरलेश्यापरिणामदेहादिदुःखदावानलज्वालाभितप्त नरकमिति । ते निरस्ताः । आतुरवत्तस्योपपत्तेः । वेत्ति घ सोऽपि भोक्तव्यमवश्यं स्वकृतं भागधेयं शुभमशुभं वा । किमिति प्रवर्तते प्रत्याशुभतरविपाकवितरणपटुनि जीवः कर्मण्यशुभे, येरङ्गीकृतमीश्वरो विधातेति तैरपि कर्मानुसारेणैव तत्फलदातृता स्वीकृतव । तर्हि तैरपि चिन्त्यमेवैतत्-यत् कथममी प्रवर्त्तन्ते सुधोपममायतिहितदं आपातसुन्दरं च विहाय सुकृतमार्गमन्यथाभूत एव । न चेश्वरो दाता फलं, न विहित चेजीवैरिति । गत्यन्तरगतिश्च जीवानामनिष्ठापि साधयत्येवादृष्टं स्वस्य विहितपूर्वम् । यथा विषमतमविषवेगातिशायि हालाहलमास्वाद्य कण्डूति कण्डूयनां वा विधायानीप्सुरपि तत्फलं किमवाप्नोति जीवितव्यमव्याबाधतां वा ? न चेद् अत्राप्येतदेव विदांकुर्वन्तु विद्वद्वराः । यथाविहितं भोक्तव्वमेव स्वादृष्ट कलम् । न तत्र स्वस्य समीहाउसमीहा वोप Page #162 -------------------------------------------------------------------------- ________________ १४४ न्यायावतारः ००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० योगिनी । अज्ञानेनाधिष्ठातृत्वमपि न सर्वथाऽनुपपन्नम् । यथाहिभवद्भिरपि यदाऽऽह्रियते परिणमति चान्नादि जायते शरीरादितया तन्नाधिष्ठित किं ? अधिष्ठितं चेत्,किं तज्ज्ञातं कथं भवति कथं वा न ? न चेत्तथैव विदन्तु कर्म । यथा वोपभुक्तमप्योषधमचेतनं सदपि दूरीकरोत्येव गहानात्मनाप्यनिर्वार्यान् स्वयम् । तच्च . कथं क तत्करोतीति ज्ञायते ? तथापि किमुपभोक्ता नीरोगी न जायते ? जायते चेद् अवबुध्यध्वमेवात्राधिष्ठितत्वम् । न काप्यनुपपत्तिः परमार्थपथवेदिनाम् । ईश्वरसिद्धिश्च नामलप्यते कैश्चिदपि । न च शक्या कर्त्त विहितापि च पूर्व सा । परं न स एक एव, विहितानुष्ठानविधानावाप्तात्मनेमल्यानां सर्वेषामेव तथात्वात् । जात्यपेक्षया वैकत्वे न कोऽपि विवादो, व्यक्त्यपेक्षमनेकत्वभावेऽपि जात्यपेक्षकत्वस्याविरुद्धत्वादेतत्त्वन्यदेव । .. यश्वोदितः श्लोक: अज्ञो जन्तु रित्यादि । स एवमपि न शक्यते योजयितु ? यजन्तुरनादिकालीनक्लिष्टतराष्टादृष्ठविलुप्तविवेकलोचनो जीव आत्मनः-स्वस्य सुखदुःखयोः-सुखदुःखनिबन्धनीभूत-शुभाशुभादृष्टहेत्वोर्विवे काविवेकयोरज्ञो-मिथ्यात्व-ज्ञानावरणीयादिघनतरमलमलिमसत्वादबोधः । नहि भवति जीवानां स्वयं ज्ञानम्, उपदेशादेव तद्भावात् । अत एवोच्यते-केषाश्चित्तद्भाव-स्त्वत्यन्ताल्प इति नैव विवक्ष्यते- सुच्चा जाणइ कल्लाणं' । गुरुशुश्रूषा-फलं श्रुतज्ञानं । परवागरणेणं इत्यादि । सुखयतीति सुखं, दुःखयतीति च दुःखं, सातेतरवेदनीयानिमित्त एव गृह्यते अत्र । यतस्ते एव ह्यात्मनः सुखदुःखविधानविज्ञ । तहिं कथं स प्राप्नुयात् सुखदुःखे ? इति प्रोचुः-ईश्वरप्रेरितो गच्छेत् स्वर्ग वे'ति । तत्रेश्वरो-ज्ञानावःणादि घातिकर्मसमूलकाषंकषणावाप्तज्ञानाद्यैश्वर्यो विशिष्पुरुषः, तादृशस्येश्व Page #163 -------------------------------------------------------------------------- ________________ न्यायावतारः १४५ .०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० रस्य प्रेरणाविषयमागत उपदेशानुसारेण प्रवर्तको विहायाश्रवाध्वनः सम्प्राप्तसंवरनिर्जरावा जीवः । अत एवोपचारात् पठ्यने-'आरुग्गबोहिलाभं समाहिवरमुत्तमं दितु'। 'ता देव दिज बोहिं भवे भवे पासजिणचंदे' त्यादि । तथाप्रवृत्तश्च । वाशब्दस्य निःश्रेयसमनुजत्वादिसमुच्चयार्थकत्वात् स्वर्गमपवर्ग मनुजत्वं वा प्राप्नुयात्, तद्योग्यताप्राप्तः। न चेत्तथाप्रवृत्तः, किन्विन्द्रियकषायप्रमादमत्तो भूत्वा यथोन्मत्तं चेच्चचाराऽसौ श्वभ्रमेव वेति । एवकारोऽत्र व्यवस्थायाम् । सा च पूर्व दर्शितैव 'न चेत्तथाप्रवृत्त'इत्यादिना। वाशब्दश्चात्रापि समुच्चये तिर्यगांत-कुमानुषत्वादेः, तथा च पिहितविवेकलोचनो जीवः श्वभ्र तिर्यक्त्वं कुमानुषत्व वा यायादिति । न च तेन विरोध आपादयितु शक्यः । विहीयतां तदाऽऽग्रहः परमेश्वरपरमार्थस्वरूपाऽप्रज्ञताप्रोद्भूतपरमैश्व र्यपावनपरमेश्वरकलङ्ककरानपुणविषमतापादकविश्वविधातृतायाः । किच-अकर्मणो विश्वेश्वरस्य शरीरविधानं, तदन्तरेण विश्वविधानं च कथं घटनीयम्, क्रियामात्रस्य मूर्तजन्यत्वेन व्याप्तः । नव चाङ्गीकृता युष्माभिरपि कालाकाशादीनाममूर्तानां क्रिया । यदि चेच्छामात्रजन्यत्वं स्वीक्रियते विश्वस्य 'सोऽकामयते'त्यादिवचनात्, तदप्यचारु । नहीच्छापि कृतकृत्यस्याऽकर्मणो वा सम्भवति । विरुद्ध चेदं, प्रत्यक्षेणैव क्रियाजन्यत्वात् कार्यस्य । ननु कथं तर्हि 'अणिमिसनयणा मणकज्जसाहणा पुप्फदाम अमिलाण'त्ति देववर्णन सङ्गच्छते ? इति चेत् । सत्यं, 'मनसा कार्यसाधका' इत्यनेन न तेषां क्रियारहितत्वं, क्रियामन्तरेण कार्यसिद्धिसद्भावो वा प्रज्ञाप्यते । किन्तु यथा नराणां दृश्यमानेन भवभाविशरीरेण कार्यजननं, न तथा तेषाम् । किन्तूत्तरवैक्रियेणेति ज्ञाप्यते । न चानादाय वैक्रियादिपुद्गलान विधातु शक्नुवन्ति तेऽपि किश्चित्कार्यम् । यद्वा-यावदिच्छितकार्यसम्पूर्णता-शीघ्रताद्योतनाय । चतस्तेषां न किमपि न्यूनं कार्यम्, येन त इहागच्छेयुरितिदर्शनाय, नरलोकानागमनाधिकार पठितत्वादस्या गाथायाः । कथमन्यथाभिषेकार्थमुदकानयनादौ क्षीरा Page #164 -------------------------------------------------------------------------- ________________ १४६ न्यायावतारः ०००००००००००००००००००००००००००००००००००००००००००००००००० ००००००००००००००००००००००००००००...3000040 ब्ध्यादिगमनं तदादेशश्च सङ्गच्छते ? इति विचारणीयम् । सत्यां चेच्छायां रागादिमत्त्वप्रसङ्ग इति पूर्वमुक्तमेवैतत्, किमावर्त्तनेन । यदपि चोदाहरन्-'न केवलं पारलौकिकेत्यादि । तदपि शोभते गेहेनर्दिनामेव, न त्वतथाविधानां भवादृशाम् । यतो विचारणीयं तावदेतद्-यत् न साहचर्यमानं व्याप्तिः, किन्त्वन्यथानुपपन्नत्वं, पूर्वमुक्तमेव चैतत् हेतुस्वरूपाख्याने । प्रकृते च भवद्भिर्विशिष्टातिमत्त्वात् कार्यत्वं, तस्माच्च सकत्र्तृ कत्वं, ततश्चान्येषामयोग्यत्वादीश्वरसिद्धिरभिप्रेता कर्तुं विश्वविधानलम्पटतया। परमत्रापि विचारणीयं तावत-किं हि विशिष्टकृतिमत्त्वं ? आकृतिमात्रस्य विशिष्टत्वात् । नहि परमाणुरपि त्रुट्यादिसमानाकृतिकः, परमाणूनां चानादित्वादकार्यत्वमभिमतमेव भवद्भिनित्याऽणुरूपे त्यादिवचनात् । परमाणुभिन्नत्वं तथात्वं चेद्, अत्र तावत् प्रलयवादिनोऽपि केचिदाहुः परं त्रुटेर्विभागं तत् तथापि न सुन्दरमेतत्, अस्तु वा यत्किञ्चित् । विश्वविधातुरपि नभोमण्डलावगाहकत्वाद् विशिष्टाकृतिमत्त्वमात्मनोऽपि च 'एषम आत्मान्तर्ह दयेणीयान् ब्रीहेर्वा यवाद्वेत्यादिवाक्यात तथात्वम् । औपाधिकी ह्याकृतिरेषा चेत्, नहि घटादीनामपि स्वाभाविकी, सा हि कार्यजन्यैव, विनाशिनी च तद्विनाशदनन्तरम । मूर्त्तत्वेनविशेषणेऽपि परमाण्वादौ पूर्वोक्तरीत्याऽस्त्येव कार्यत्वाभावः । अस्तु वा विशिष्टकृतिमत्तया कार्यता भवदभिमता, तथाप्युत्प. त्तिमत्त्वमेव तथा कदाचित् सिद्धर्यत्न तु सकर्तृकत्वम्, विद्यु. दिन्द्रधनुरादिषु बाधदर्शनात् । नहि तत्र विशिष्टाकृतिमत्ता न । न च तत्र विलोक्यते सकर्त्त कत्वम् । न च प्रत्यक्षेण प्रमितेऽपि पदार्थेs दृश्यकल्पना युक्ता । शरीरादावुद्भवदपि नखकेशमलादि दृश्यते एवं विशिष्टाकृतिमत्, न च तत्केनापि विहितम् । (स्वस्येच्छा तश्चिकीर्षा तत्प्रवृत्त्यभावात्) अनुभवसिद्ध चास्य स्वाभाविकोद्भवत्वम् । यदि च तत्रापि तत्कर्त ताऽनुमीयते, तदा नेश्वरकर्तृताग्रहस्येयत्ता । न चान Page #165 -------------------------------------------------------------------------- ________________ न्यायावतारः १४७ ००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० र्थकं पयोमुक्पयःक्लित्रभाजनस्य धान्याङ्क रोत्पादनमपीश्वरस्य कर्त्तव्यं, फलानुमेया हि प्रारम्भा मतिमतां स्युरत्र च न ऋते विनाशमुपलभ्यते किञ्चित्फलमन्यत् । एतेषां सर्वेषां पक्षकुक्षिनिक्षेपेऽपि न प्रत्यक्षबाधोद्धारोऽनैकान्तिकोद्धारेऽपि । न च तदपि न्याय्यम् । एव सति सर्वत्र तथा वक्तुं शक्यत्वात् । ननु च क निर्णीतैषा व्याप्तिरिति वाच्यम् । यतो नहि सामान्यकार्यत्वेन सकत कत्वस्य व्याप्तिग्रहोजातो भवतामिन्द्रधनुरादेरकर्त्त - कस्य जागरुकत्वात् । यत्र च यद् दृश्यते तद्वि शष्टमेव कार्यत्वं विशिष्टं च कर्त्त त्वम् । नहि पटकार्यस्य कुलालकत कता, न वा घटकार्यस्य तन्तुवायकर्त कता । किन्तु विशिष्टव । व्याप्तिरपि विशिष्ट व तदा योग्या । सामान्यव्याप्त्यभावे कथं सकत कतासिद्धिर्जगतः । नहि च किञ्चिद्विलोकितमशरीरेण कर्त्त कतावद् व्यापकं वा सकत कं नित्यज्ञानवद्वा तत्किं न चिन्त्यते ? । न चात्रानुकूलतर्को न । यो हि कार्य विदध्यात् स प्रयत्नपूर्वक एव स्यात् । उपादानज्ञान-चिकीर्षावत्तस्यापि हेतुत्वावश्यकत्वात् । न चाशरीरः प्रयत्नः । न च व्यापके क्रिया युज्यते । सर्वत्र समतया स्थितत्वं हि तत् । क्रियायां च सत्यां चलनाद्यापत्तेरेकत्रामावस्तस्यान्यत्र च द्विगुणतापातः । ततश्च व्यापकस्वाभावः । यश्च वेत्ति नून, ततो जायते तस्य तद्विषयिणी चिकीर्षा प्रयतते च । यस्तु नित्यज्ञानवत्तस्यागेगानादितो ज्ञानादिमत्त्वात् कुतस्तरां सा नार्वागेवाभविष्यत् । एवमकृतार्थवादयोप्यूह्याः । यच्चोच्यते-'नहि घटादिक'मित्यादि । तदप्यसमञ्जसमेव । यतो भवन्मते तावन्न कार्य एव यत्नः, भवददृष्टानुसारेण विधास्यत्येव विधाता भवताम् । न च कार्यो वदने कवलप्रक्षेपोऽपि, तमपि स एव विधास्यति । किञ्च-विधात्रा सर्वे क्रियते इति वादिनां भवतां पद् रोगाद्युत्पद्यते ? । तत्तेन कृतमन्येन वा ? | आये, किं तस्य Page #166 -------------------------------------------------------------------------- ________________ १४८ न्यायावतारः -००००००००००००००००००००००००००००००010००००००००००००००००००००००००००००००00000000000000000000000 प्रतीकारेण ? क्रियते चेदसौ निरुजत्वार्थ, भवति चापि तदा विधाताऽपकर्ता अगदङ्कारोभद्रकर्ता सुष्ठु विधाताराधना विहिता। ? अन्येन चेत्, कोऽसौ विहायादृष्ट ? तदेव चेत्, अस्तु समस्तमेव तद्विहितम् । न च वाच्यं भवद्भिरपि न विधेयः प्रयत्नः, अदृष्टं करिष्यति स्वयमेव सर्वमिति । यतोऽस्माकं ह्यस्मत्कृतिविशिष्टमेवोदितावस्थं कर्म फलति । भवतां यत्र न भवतः प्रयत्नलेशः तदपि विधीयते विधात्रेति । न ताहगत्र नियम इत्यापाद्यते पूर्वोक्तम् । __ अन्यच्च अस्माभिः कार्य त्रिविधमिष्यते-वैससिकंप्रायोगिकमिश्नक चेति । तत्राऽभ्रेन्द्रधनुरादिकमाद्यम् । तत्र नैवोद्यमोऽस्मत्प्रभृतीनाम् । द्वितीयं घटादिकमुद्योगोद्भवम् । तृतीयं केशरोमादि, जीवति स्वभावा. द्भावात् । तत्र द्वितीयग्मिन्नस्त्येवोद्यमोद्भवतेति नास्माकमनुचित प्रयत्नकरणम । भवतां तु पूर्वोक्तया रीत्या अनुचित एव । नाशक्त ईश्वरो यदेकं कुर्यान्नान्यत् । अस्तु वा सकत कं समग्रभोक्त जीवादृष्टानुसारेणैव सर्व भवतीति कृत्वा, तथापि न विश्वेश्वरस्य विश्वविधात. त्वसिद्धिः । बुद्धिपूर्वककत तायामेवोपादानज्ञान-चिकीर्षा-प्रयत्नभावनियमात् । सुप्त-मत्तादिषु तथाऽभावात् तथा कल्पनाया आवश्यकत्वात्। भूभूधरसरित्सरित्पत्यादिकं चापि तत्तद्र पेण परिणतानां जीवानां सालानां प्रयत्नोद्भूतं भवेत् तदा न कोऽपि विरोधः । अनूदितं चोपनिषत्काररपि-'पृथ्ठयां तिष्ठन्नित्यादिना। वैससिकस्यापि जगज्जीवादृष्ठोदयाद्यनुसारणैव भावात् । पर नैतावतोद्यमत्यागप्रसङ्गः । वैस्रसिकस्य तथात्वेपि प्रायोगिकस्य तथास्यात् । न चैतावता जगतोऽनादिताव्याघातः,अपरापरजीवगृहीततया अनादितोपपत्तेः। एवम्भूत एव हि बीजाकुरन्यायो यद् दृश्यमानेप्यल्पकालीनत्वेऽपरापरव्यक्तिसमूहेनापर्यवसानता। एवमत्रापि । नहि कदापि भूतपूर्वमेतत् यदुतन कोपि विचित्रादृष्टवान् पृथिवीत्वादिनिबन्धनादृष्टवान् वा । तथाच सकत्तु कतायामपि न कोपि विरोधः । अत एवोच्यते Page #167 -------------------------------------------------------------------------- ________________ न्यायावतारः । १४६ 000080000००००० ०००००००००००००००००००००० ००००००००००००००००००००००००००००००००००००००००००००००० परमैश्वर्ययुक्तत्वान्मत आत्मैव वेश्वरः।। से च कतैति निदोषः, कर्त्त वादो व्यवस्थितः ॥१॥ तथा च यथाकथञ्चित् सकत कत्थसिद्धावपि न वो मनोरथपूर्तिः । एतेन य आहुः-जातं विश्व स्वभावेन, चेत् कुम्भो न कथं भवेत् । कुम्भार्थे क्रियते यत्नः, कथं विश्व स्वभावज ॥१|मिति ते निरस्ताः। अत्रैवं वाच्यं स्यादन्यैःकृतं विश्व महेशेन, चेत कुम्भादि न किं कृतम् ? । जन्त्वदृष्टभवः कुम्भः, चेद्विश्वं न कथं तथा ? ॥१॥ कुलालः कुलवृद्धयथे, वितनोति घटादिकम् । विश्वेशस्य विधातृत्वे, पोष्यं तस्य कियद्भवेत् ।।२।। स्तोकभाजनकृत्यर्थ, कुलालः सप्तगर्दभः । महेशस्य गृह व्याप्त', गर्द भैः सर्वदा भवेत् ॥३॥ सर्वमेतद्वालचापलमेवान्योन्यम् । अन्यथा नैतद विदितं विदुषां थदुत-यत्नसाध्ये यत्नो, नायानसाध्ये । न च यत्नसाध्यमन्यथा भवति। परमपि चान्यथेति यथायोगं सर्वम् । अनेनैतदपि प्रत्युक्तं, यत् कैश्चि. दुग्यते-यदुत श्यामघष्टस्य पाकेन नाशे कथं न चेन्महेश्वरो विधाता, न स्यात्ररक्तघटोत्पत्तिः, विद्धे च घटे परिमाणनाशेन वस्तुनाशावश्यंभाबात नूनछिद्रघटोत्पत्तिर्भवेदिति । तदपि स्वकपोलकल्पितसिद्धये एव यतमानैर्यतः प्रोक्तम् । अन्यथा स्यादेवावयविनि पाकः पर्यायपरावृत्तिरेव च छिद्रे । कथमन्यथोभयत्रापि प्रत्यभिज्ञा विशिष्टचिह्नानि च तथावस्थितान्येव विलोक्येरन् । भ्रान्तौ कथ्यमानायां कि नियमनं स्याद् भवतामभ्रान्ततायां तबास्ति संबादः, न भवदुक्तसिद्धौ अन्तरा कल्पनाम्। Page #168 -------------------------------------------------------------------------- ________________ १५० न्यायावतारः 000000000000000000000000000000000000000000000000000000000000000000000000000@dddo@ यद्वा भवेत् कदाचित्तथेति कक्षीक्रियते, तथापि कुर्याददृष्टमेव तत् । यतो हि सर्वत्र सर्वकार्याणामात्मनामदृष्ट विधीयते इत्यङ्गीकारेणैव च भवद्भिरात्मनां सर्वव्यापित्वं स्वीक्रियते, तत्किमत्र विस्मृतम् । स्मृतं चेद्, दीयतां कर्त्त तायै महेशस्य जलाञ्जलिः, सर्वव्यापितायै वा आत्मनः । अत एव च नेदमपि नोद्यम् - यदायोजितं द्वयणुकादि धृता वा सूर्यादयः । यथादृष्टमेव तद्भावात् । नहि सर्वत्र समायोजना | , यद्वा-सादृष्टजीवविहितत्वेन तत् स्यात् कर्त्त कतान्त्रितम् । न च न वियुज्यते सयोगेन जीवेन स्कन्धादि संयुज्यते वा, वृक्षादि देहादिपरिणतेः प्रत्यक्षं दर्शनात् । विचारयन्तां भवन्त एव बालतनुपरिमाण स्वेषां वार्त्तमानिकं च, समेष्यति चेतावतैव मनसि सादृजीवानां पुद्गलोपचयकर्त्तता, दृष्टपूर्वयोधनस्य वृद्धत्वे क्षीणतापि गोचरीक्रियमाणाSध्यक्षं तदपचयकर्त्ततापि प्रत्यापयिष्यति यथायथं शरीरवृद्ध निंयमात् पृथिव्यादीनां तथाविध आयोगः स्यात् को विस्मयः ? । कथं च प्रतिक्षणं वयुज्यमान- संयुज्यमानप्रमाणातीतद्वयणुकयणुक्रानन्तानन्तस्कन्ध विषया अनन्तानन्ताकृतिरेककालीने कस्मिन्नेवेश्वरे सङ्गता स्यात् । नहीं कतिसाध्यौ संयोगवियोगौ इच्छामात्र साध्यत्वे च कृतिजन्यत्वं कार्यमात्रस्य भवतां यदभिप्रेतं तन्मिथ्या स्यात् । अदृष्टजन्यत्वे च सानुकूलता, प्रतिजीवं भिन्नत्वात्तस्य । स्वीक्रियते च भवद्भिरप्युपभोगसाधनानामदृष्टविहिततेति किमन्तर्गडुकल्पया तदिच्छया, कृत्या वा तदीययेति । [ नरकादौ वा सूर्यादयः] यथा च पतत्रिणः सादृष्टजीवत्वादववृतास्तिष्ठन्ति तथा सूर्यादयोपि स्युश्च दवधृतास्तदा को विरोध: ? सूर्यलोकाना नावृत्तिश्रुतेश्च सष्ठैव तेषां सकर्मता । तथा च सूर्यस्य विधोर्नक्षत्रादीनां च स्वप्रयत्नात्रधृतत्वमेव युक्तम् । यद्वा-यथा वायुना अवधृता यथा अभ्रादय आकाशे Page #169 -------------------------------------------------------------------------- ________________ भ्यायावतारः ..300000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००.००००००००००००००० प्रतिष्ठमानाश्चत्प्रत्यक्ष दरीदृश्यन्ते, का हानिस्तेषामत्रधृतत्वे सूर्यादीनां? येनाऽदृष्टकल्पना क्रियते, अदृश्रादेः सिद्धस्य कारणतः विहाय । यद्वा किं न हा उदिताहस्करकिरणागमनजालके स्वतन्त्रमवध्रियमाणास्त्रसरेणवस्त्रुट्यादयोऽध्यक्षम् ?, येनैवं कल्प्यते । यचोदीरितमुदीरणाप्रधानैः- यद्यद्वाक्यामित्यादि । तदापि विश्वविधातृत्वसिद्धये नालम् । तावतातु सङकेतकर्त्त त्वसिद्धिः, न च सोऽ. सम्भव्यस्मदादीनाम् । यतो दृश्यत एवं नृपादिभिः प्रचारिता देशविशेषेण विशिष्ठा वातन्निवासिजनविहिता विचित्रा भाषा वाक्यपतिश्च । अन्यच्च-न नियता सर्वकाले भाषापि, वेदोपनिषत्काव्या. दीनां संस्कृतभाषासंस्कृतानामपि भाषावैचित्र्यम् । संस्कृतभाषा तेन प्रवर्तिता, को नियमो ? यन्नान्येन सा प्रवर्तिता । तथात्वे वा कथं पैयाकरणमतानां भिन्नता ? तन्न युक्तमिदम् । विचारणीयं चान्यदपि विद्भिः-यन म्लेच्छानां या भाण सङ्केतबन्धनबद्धा सा केन विहिता ? विधात्रैव सापीति चेत, कथं हि 'न म्लेच्छित वै' इत्यादिनं वदेद्यापनों भाषामित्यादिनिषेधः कदाग्रहाज्ञानादिनिर्मितोपि युक्तियुक्तः स्यात्, तस्या भपि विश्वेश्वरविहितत्वाविशेषात् । कथं च स्वयं विधाय निषेधयेत् साक्षरः ? । अन्यञ्चनास्ति भाषाया नियमिता, प्रतिद्वादशक्रोशं तद्विपरिवृत्तेः । एतावता सिद्धमिदम्-यन्नकः कश्चित्सङ्केतविधाता नियमितः सिद्धथति, येन विश्वविधातापि सिद्धयति । का वार्ता तर्हि विश्वविधातृतायाः ? | अस्तु वा प्रवर्तकः सङ्कतस्य, व्यवहारप्रवर्तकस्य कुलकरादेस्तथाभावेन विरोधानवकाशात् । हश्यते देशव्यवस्थापकप्रवर्तिता विचित्रा भाषा । उच्यते च विद्वद्भिरत एव 'यः स्रष्टा सर्वनीतीना मित्यादि । स्वनिवासदेशापेक्षं चैतदिति न कोपि पूर्वोक्तो विरोधोऽत्र । Page #170 -------------------------------------------------------------------------- ________________ १५२ न्यायावतारः .००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००00000000000 एतेन शब्दार्थावधारणसङ्ख्याव्याहरादि सर्वं प्रयुक्त वेदितव्यम् । आदिशब्दशब्दितं नाशाद्यपि दिशाऽनयैव भाव्यम् । यतो भवत्येव कालपरावर्त्तादिना घटपटादे शः, उपलभ्यते च तथैव । तथा च किमदृष्ठकल्पनया। आगमाश्चोदीरितास्तेऽपि पूर्वापराविरोधेन व्याख्यायन्ते चेत्, न ते कत्ते त्वस्य साक्षात् सावकाः किन्त्वौपचारिककत त्वसाधकाः । तच्च तवृत्तपदार्थप्रतिपादकशास्त्रप्रणयनादिना स्यादेव । परं तदपि नाऽनादिसिद्धस्याशरीरस्य । तदुक्तमभियुक्तः 'धर्माधर्मो विना नाङ्ग, विनाङ्गेन मुखं कुतः'। मुखाद्विना न वक्त त्वं, तच्छास्तारः परे कथ ॥१॥ मिति सशरीरस्येश्वरत्वेऽङ्गीक्रियमाणे युज्यत एव सर्वम् ।, यतोऽज्ञानपङ्कादुद्धाराय निःशेषभूमिस्मृगसाधारणपुण्यप्राग्भारलब्धावतारा युगादाववतरन्ति युगोत्तमाः । ते च द्यावाभूम्योर्ज्ञानदातृत्वेन पर्यायेण विश्वस्य गृहारामादिविधेत्तत्प्रवर्तितत्वात् कर्त्त ता । पूर्व हि तत्कालायुगलिनो न गृहारानादिव्यवस्थावन्त आसीरन् । साम-दाम दण्डभेदरूपाणां नीतीनां नैगमादिनयानां वा प्रकाशनात स्यादेव च भुवनगोप्तृत्वम् । नहि नीतिज्ञानमन्तरेण कोऽपि तदनुसारेण प्रवर्तते, लभते चोत्तमतां, रक्षति चान्याँस्तद्विधाने तु स्यादेव भुवनगोप्तृता । आसीच्च युगादीश्वरावतारादर्वाग् जगत्सुखबाहुल्यमपि धर्माधर्मपरिज्ञानाभावादसदिवात्मोद्योतकराध्वनो विनष्टत्वात् । आविष्कृतं च शिववम॑ तेनैव पुरुषोत्तमेन । एवमन्यान्यश्रुतयोऽप्यवगन्तव्या अविरोधेन। को वाऽऽग्रहस्तासां परस्परविरुद्धतमानां यथार्थत्वे ? यतस्तत्रैव तावद्धि प्रतिषिद्धमन्योन्यम् । एके तावत्-'ब्रह्म वेदमग्र' इत्याहुः । तदाऽन्ये-'असदेवेदमग्र' इत्याहुरन्ये च-'मृत्युनैवेदमावृतमासीत्', तथैव एके 'अन्नं वै प्रजापति' रित्याहुः, तदाऽपरे एके केचित्तन्नेत्याहुः । एवमेव केचिद्धृदये श्रात्मानमाहुरन्येऽङ्गुष्ठपरिमाणमन्ये यवादिमानमन्ये वालाग्रंशतभागमानमविशेषेणोदाजह: । कियन्तो दधिमाष Page #171 -------------------------------------------------------------------------- ________________ न्यायावतारः ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० 0000 ०००००००००००००००००००. भोजने कृष्णा विविच्यन्ते । ज्ञायन्ते चोपनिषदो भिन्नभिन्नै ऋषिभिः स्वतन्त्रं प्ररूपितत्वात् स्पष्ट विरुद्धाः । न चासम्भत्रितमिदमल्पज्ञानाम्, यथावज्जानाभाराच्छमस्थानाम् । छद्मस्थत्वं च तेषा वैकल्पिकन्याख्यानेनैव स्पष्ट निर्णीयत इति नात्र चर्चा चाऽस्ति । तदेवमारम्भाभावाद्विश्वस्य यथा कल्पितं मनुष्योत्पादाभावाचानादित्वं संसारस्य सिद्धम् । सिद्ध च तस्मिन् प्रमाणादिव्यवस्थाया अनादिनिधनात्मकत्वमपि सिद्धमेव । यद्यपि च पूर्व युगादीशान्न व्यवहारो यथावस्थित इति व्यवस्थापित, परं तद् राज्यकरण-प्रजापालनाद्यपेक्षया । न तु प्रमाणाद्यपेक्षया । यतो न प्राक प्रत्यक्षादिप्रमाणं तद्व्यवहारश्च नाभूत् । राज्यकरणादि चापि भरताद्यपेक्षयैव युगादीशादिविहितं, न तु महाविदेहादौ, तस्य तत्र शाश्वतत्वात् । अनादिनिधनास्मिकाऽपीयं प्रमाणादिव्यवस्था पुनः कीदृशी ? इत्याहु:-यद्वा प्रमाणादिव्यवस्थायाः क्षुण्णत्वं दर्शयन्तः स्वीद्धत्यं परिहरन्त आहुः-'सर्वसंव्यवहर्त णां प्रसिद्धापि' इति । तत्र सर्वे-स्वपरपक्षादिभिन्नाः समस्तास्ते च ते संव्यवहारः-सम्यगबाधं प्रमाणप्रमिततया व्यवहरन्ति-अर्पणाऽऽदानादिव्यवहारं विदधतीतिसंव्यवहर्तारस्तेषां । नियमो ह्यष यदुत विवेकिनां समाचारश्चिन्त्यते शास्त्रेषु, नेतरेषाम् तत् सुष्ठूक्त'-'संव्यवहत णा'मिति 'सर्वे'ति च मध्यस्थानां अनेकानामपि न प्रमाणादिव्यवस्थायामस्ति भेद इति बापनाय । 'आद्यत्र यमज्ञानमपि भवति मिथ्यात्वसंयुक्त मिति तु सदसदाद्यपेक्षया तद्वतः। यतो न स्याद् द्रव्यपर्यायादिका ज्ञप्तिरनुभक्गम्या बुद्धिमताम् । परं सामान्यापेक्षया वार्त्तमानिकपर्यायेषु व्यवहारेण न विरुद्धत्वमित्येवं निरदेशि। तेषां 'प्रसिद्धापि' प्रकर्षणाऽबाधतया व्यवहारसाधनतया तज्ज्ञापितवस्तुप्रवृत्त्यादिना वा सिद्धा-अनुभवमानीता, प्रसिद्धा वा प्रकटा, न तु प्रच्छन्ना, तादृश्यपि । भनेन स्वौ Page #172 -------------------------------------------------------------------------- ________________ न्यायावतारः .०००००००००००००० ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० द्धत्यं परिहरन्ति । यतो नहि प्रसिद्धार्थानुशासकोऽवाप्नोति अनुशास्तृशिरःशेखरताम् । तत्त्वतस्तु प्रस्तुतप्रकरणप्रस्तुता · प्रमाणादिव्यवस्था न कथञ्चनापि कैश्चिदपि विरोधमनुभवन्तीतिदर्शनार्थमुपन्यासः । नहि प्रसिद्धमर्थ शासच्छास्त्रमर्थवद् भवति । तत् प्रसिद्धस्वेऽस्य च स्यादेवानर्थक्यमित्येवं कार्या व्याख्या । यद्वा-संव्यवहार कर्तारोऽत्र विद्वांसः सन्ति । न च तेऽत्राधिकृताः 'तव्यामोह. निवृत्तिः स्याद् व्यामूढमनसामिहे'ति प्रतिज्ञानात् । तथाच विद्वत्परि. षदि प्रसिद्धापि व्यवस्थेयं नेतरेषां तथेति । तेभ्यस्तत्कीर्तनमप्रसिद्धत्वात् सफलमेव । यद्वा-प्रकीर्णकरूपेण यद्यपीयं प्रसिद्धा तथापि नैवं यथार्थमुपनिबद्धाऽस्ति । अनुपनिबद्धायां चैवंन स्याद् व्यामोहनिवृत्ति. रिति युक्त प्रसिद्धाया अपि निबन्धनमेतस्या इति ज्ञाप्यतेऽपिना । किमित्याहु:-'प्रकीर्तिते'ति । प्रकर्षण-अव्याप्त्यतिव्याप्त्यसम्भवव्य. वच्छेदेन कीर्तिता-श्लोकबद्धोपनिबन्वेन संशब्दिता । यथा वाचकपाठकानां सुखावधारणपाठप्रमुख सिद्धयत् तथोपनिबद्धेत्यर्थः । अत्र कीर्तितेतिशब्दोऽन्त्यमङ्गलाय । तच्च शिष्यपशिष्यादिवंशस्याविच्छित्या शास्त्रप्रवर्तकम । 'अन्ते अन्वुच्छित्तिकरं 'सिस्सपसिस्साइवसस्से'ति वचनात् । कीर्तितशब्दश्च प्रशस्तभावोत्पादकत्वान्मङ्गलमेव, प्रशस्तभावस्यैव मङ्गलपदार्थत्वात, अन्यथा मङ्गलस्यापि मङ्गलकार्याकरणात् । प्रशस्तमपि वस्तु प्रशस्तभावोत्पादकतयैव मङ्गलम् । अत एव च शिष्यबुद्धिमङ्गलपरिग्रहायैव मनलमित्यमियुक्तपादा आख्यान्ति । भद्रादिगणान्तगर्तत्वादपि मङ्गलमेष शब्दः । यतो 'देवता वाचकाः शब्दा, ये च भद्रादिवाचकाः। ते सर्वे नैव निन्द्याः. स्युलिपितो गणतोऽपि वेतिवचनात् । ग्रन्थसम्पूर्णतां कुर्वन्त आहु: इति न्यायावतारसूत्र' तत्र इतिः सम्पूर्णार्थमव्ययम् । न्यायस्य प्रमाण-प्रमेयादिपदार्थबोधस्यावतारो-निरूपणं यस्मिन् स न्याया Page #173 -------------------------------------------------------------------------- ________________ न्यायावतारः १५५ 100000000000000000000000200००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० वतारः । यद्वा-न्याये-यथार्थार्थपरिच्छेदके स्याद्वादश्रुते यथास्थितमार्गे वाअवतारो यस्मादिति न्यायावतारः, स चासौ सूत्रं च-अल्पाक्षरैरपरिमिताथं सूत्रयतीति व्युत्पत्तेर्बह्वर्थसंग्रहमयमल्पाक्षरोपनिबद्धं न्यायावतारसूत्रं तन्नामकप्रकरणमितियावत् । आदावभिधानस्यानिर्देशस्तु सज्ञानिर्देशस्यानियमज्ञापनार्थम् । अर्थान्तरेण तु प्रमाणमित्यनेन तु सूचितमेव तत् । __ अथ प्रान्ते कर्तारः स्वनामोल्ल खं स्वकृति दर्शयन्त आहुः- 'कृतिरियं श्रीसितपट्टसिद्धसेनदिवाकरस्येति'। कृतिः-प्रकरणोपनिबन्धनप्रयत्नः, इयं-प्रत्यक्षमुपलभ्यमाना, ज्ञानस्याप्रत्यक्षत्वेऽपि लिप्यादेः शब्दादेश्व प्रत्यक्षत्वाद्, हृद्विवर्तिताया वैवं निर्देशः। कस्येत्याह-'श्री'त्यादि। सितंश्वेतं वस्त्रं यस्यासी । अनेन रत्न(क्त)पट्ट-नग्नाटताव्यवच्छेदमाहुः । यद्यपि च नग्नाटा जैनाभासतया स्वापयशःपङ्क प्रचिक्षालयिषव एनान् स्वीचक्र नाममात्रेणैतत्प्रणीतकल्याणमन्दिरस्तोत्रपाठाङ्गीकारेण परमेतत् तत्त्वार्थाङ्गीकरणानुकारम् । यतस्तत्तैरभ्युपगम्यते परं एकादश जिने' इति सूत्रं विदधात्येव शल्यमन्तःकरणे तेषाम् । यतस्तेषां हि क्षीणघातिकर्मणामवाप्तासाधारणानन्तज्ञानानां न क्षुधाऽऽहारश्च तैरभ्युपगतः । तदभावे कथं क्षुत्पिपासापरिषहसहनं तेषां सङ्गच्छते ? कथं च विनिर्दि रोयुर्वाचकमिश्रा अपि चेन तथाभावो भवेत् । एकेनाधिका न दशेति तु सङ्ग्रहकारशैली विरुद्धमेव द्राविडीयप्राणायामानुकारवञ्च । वैयाकरणानां चार्धमात्रालाघवमपि पुत्रजन्मोत्सवायेति कथमेवंकुयुः। तन वाचकमिश्रा नग्नाटाः, कथं च ते व्याख्यास्यन् 'मूर्छा परिग्रह' इति किन्तु निह्नवशिरःशेखरकाणामिव सङ्गमात्रस्यैव परिग्रहत्वं व्याख्यायेरन् । यदि ते स्युस्तथाङ्गीकारश्च तेषां तेषां महते आनन्दायैव यदि स्यात् सम्यक्तयासी । एवमत्रापि । 'स्थाने गभीरहृदयोदधिसम्भवायाः, पीयूषतां तव गिरः समुदीरयन्ति। पीत्वा यतः परमसम्मदसङ्गभाजो, भव्या व्रजन्ति तरसाप्यजरामरत्वम् ।।' Page #174 -------------------------------------------------------------------------- ________________ १५६ न्यायावतारः ...00000000000000000000000000000000000000001000000000000000000000000000000000000000 इत्यत्र शमिताशेषाशुभादृष्टदलिकानां शासनप्रवर्त्तनफलकतीर्थकरनामकर्मोदयवतां स्पष्टं देशनाविधानविलसितं वाग्भिः निर्दिदिशुः । भव्याश्च तत्पानकारिण इति । न च तथा तेषां मते, अव्यक्तध्वनिर्जिनो, गणभृत एव च तदर्थविद इति हि तन्मतम् । न च युक्त तत्, सष्ठुवाचकत्वस्य तेषां सम्भवात् । प्रत्युतानेकभव्यानां बोधोत्पादः स्यादेव तथा योजनगामिन्या वाचा व्याख्याने | अलमेतेन विवादेनाधुना । परं नैते तन्मतानुगा इति स्पष्टितमेतेन । सिद्धसेनोऽवाप्ताचाये पदमहोत्सवात्र सरैतदभिधानः । प्राक् हि कुमुदवन्द्र इत्यभवच्छ्रीमतां तेषामभिधानम् । यत आहुः कल्याणमन्दिरावसाने 'जननयनकुमुदचन्द्रा' इत्यादि । लब्धाचार्यपदाश्च त एव सिद्धसेना इति । यदवोचुः महादेवस्तुतिद्वात्रिंशिकायां 'महार्चिर्धनेशो महाज्ञा महेन्द्रो महाशान्तिभर्त्ता महासिद्धसेन ' इत्यादि । द्वात्रिंशद्वात्रिंशिकायां पञ्चम्यां स्तुतिद्वात्रिंशिकायाम् 'इति निरुपमयोगसिद्धसेनः प्रबलतमोरिपुनिर्जयेषु वीरः' इत्यादि च । तत्र सितपट्टश्चासौ सिद्धसेनश्च सितपट्टसिद्धसेनः श्रिया - ज्ञानादिलक्ष्म्या युक्तो । , यद्वा-विद्याया अनवद्यकल्पलताया विद्वत्त्वकवित्वरूपे उभे फले तैः प्राप्ते | कवित्वे तावदाहुरेव चौलुक्यचूडाश्चितचरणाः श्री हेमचन्द्रसूरिपादाः स्वोपज्ञे श्रीसिद्धहेमचन्द्राभिधाने शब्दानुशासने 'अनुसिद्धसेनं कवयोऽन्येतेभ्यो हीनाः कवय इति' उत्कृष्टेऽनूपेने 'ति सूत्रे | विद्वत्त्वं च सुगृहीतनामधेयानां भगवतां सम्मत्याद्यनेकातिशयगनतमार्थप्रथितप्रकरणावलोकनेन स्पष्टमेव प्रतीयते । आस्तामेतत्, भवविरहसूरयो हरिभद्राचार्या अपि पूर्वान्तर्गता पूर्वग्रन्थतारतारकदर्शनपटिष्ठदर्शना अप्याचख्युर्यदाहस्ते- 'तथा चाह महामति' रिति 'प्रसिद्धानि प्रमाणानी 'त्यादिश्लोकातिदेशसमये । ततश्च श्रिया विद्वत्त्वकवित्व 4 - Page #175 -------------------------------------------------------------------------- ________________ न्यायावतारः १५७ 100000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० रूपया विद्याफलरूपया शोभया, युक्तः-सितपट्टसिद्धसेनो मध्यमपदलोपाच्छीसितपट्टसिद्धसेनः, स चासौ दिवाकरो नृपबोधनावाप्तैतद्विरुदः । अत एव च नृपगुणवर्णनामयी द्वात्रिंशिका विदध एकादशी तैर्वादीत्यपि चाभिधीयते वादकलानिपुणत्वात् तेषाम् । तस्य श्रीसितपट्टसिद्धसेनदिवाकरस्य कृतिरियमिति सम्बन्धः। न च स्वनामोश्चारणस्य गर्हितत्वात् कथमेतदिति वाच्यम् । मातापितृकृताभिधानस्याभिधाननिषेधात् । एतच गुरुपादारविन्दसेवाप्रातमिति युक्ततोच्चारणस्य । यद्वा आत्मनाम गुरोर्नामेति निषेधव्यबहारो निर्विशेषणतदभिधानप्रयोगमाश्रित्य । अन्यथा देवतानां गुरूणां चे'त्यत्रोपपदशून्यस्य न स्वाभिधानस्य निषेधप्रसङ्ग एव, आदित एव तनिषेधात् । अनेन आत्मानमे'त्यादि स्वकीर्त्यनुवृत्तये उच्चारनिषेधाख्यानपर न तु लेखनमित्यादि, य आहुः । तन्न, देवतानामित्यत्रोच्चारस्यैव विधानविशेषोपलम्भात् । गुरूणां सार्वाणां चरणकमलोपासनभवात्, प्रसादात्तीर्णेयं विषमतरपद्यार्थगहना । सरितस्रोतःपूर्णा जिनवचनधेडां श्रितघता, सदाऽतो भूयासं सकलसुखकृतशास्तृशरणः ॥१॥ न्यायावतारसूत्रस्य, दीपिका दीपिता मया । विद्वत्तेवावच स्नेह-वर्तिभावात्तमोनुदे ॥२॥ पायं पायं वचनममृतं तावक तृप्तचित्ता, .. दर्श दर्श त्रिभुवनगतं वर्त्तनं तत्प्रभावात् । पोषं पोषं निरुपधिसुखं मेनिरे यां न शिष्टां, Page #176 -------------------------------------------------------------------------- ________________ न्यायावतारः ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० (सेवं सेवं हृदयकजगं सर्वदा त्वां सुखी स्याम् ।) माम नामं चरणकमलं प्रार्थयाम्येतदेव ॥३॥ पदानां त्रयं ते समासाद्य बुद्धा, वितेनुर्गणेशाः समां द्वादशाङ्गीम् । स नार्थोऽस्ति विश्व न यस्तत्र बद्धः, चरित्रं न चित्रं कथं ते जिनेश ! ॥४॥ जयन्ति ते गणाधिपात्रिपाद्गवाश्रिताः पुनरदीदृशन्न दोषविश्वमाप्तशास्त्रगुम्फनैः । न चित्रकृत्तदारतत्रिविक्रमस्य विक्रमः, पदत्रयं तदीयमानशे भुवं यतोऽल्पिकाम् ॥५॥ जयन्ति स्वप्रभावालिन्यत्कृताखिलतीर्थिकाः । विक्रमादित्यभूपाब्ज-प्रोल्लासैकदिवाकराः ॥६॥ सत्तर्ककर्कशगिरा रचितासमार्थप्रद्योतिसम्मतिमुखाऽप्रतिमप्रबन्धाः । अज्ञानसन्तमसभेदनभानुकल्पा, आता जयन्ति गुरवो ननु सिद्धसूर्याः (शुभ्रा दिवाकरपदेन जयन्ति सिद्धाः ) ॥७॥ श्रिता वाणी लोपं सुरगुरुरपि स्वर्गमगमद्, हरिसङ्कीर्णाभूत् भुवनवलये वाद्यभिधया (वादियशसा)। न चन्द्रो नाऽऽदित्योऽन्धतमसमपाकर्तुमिह यदलं तत्तै (चैभि) नं विकचशमशास्त्रप्रणयनात् ॥८॥ Page #177 -------------------------------------------------------------------------- ________________ न्यायावतारः .000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० न शक्तः सूक्तीनामसममहिमानं प्रथयितुमलं देवेशार्थ्यः कुवलयतले किं भवति ना । करेऽध्येतु दधे शिखितनुगता पुस्तकमिम, न सिद्धानां शक्ता गुणगणनिधीनां मतिपुषाम् ।।६।। प्रभावोऽचिन्त्योऽयं तदपि ननु तासामवगमे, गुरूणां कल्पानामधरितपुपर्षद्र मरुचाम् । द्रवेयु वाणो विधुकिरणयुक्ताः क्षितितले, न किं चन्द्राह्वानाः कठिनतरतान्यत्कृतगुणाः । १०॥ गच्छे स्वच्छे कल्पवृक्षाऽनुकारे, जाता शाखा सागराख्या तपाख्ये । मान्या सद्भिः शुद्धसाधुप्रशाखा, याऽऽन्या श्राद्धैः शासनोदीप्तिकामैः ॥११॥ सत्रोद्भुतेन गणिनाऽऽनन्दाहन यथामति । अयवीरपदाम्भोज-रेणुना रचिता धियै ॥१२॥ विधायैनां मया प्राप्त यदणु सुकृतं ततः । सहाऽऽनुयां भव्यलोकैः प्रत्य जैनेन्द्रनासनम् ॥१३॥ Page #178 -------------------------------------------------------------------------- ________________ Neodesdeseskastaskeslave ___इति पूज्य-प्रागमोद्धारक-आचार्य श्रीआनन्दसागरसूरीश्वरनिर्मिता ॥ न्यायावतारसूत्रस्य दीपिकानाम्नी वृत्तिः ।। E Ale - - - - .०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००00000000000 ॐ शांति प्रिन्टर्स, इन्दौर नगर-२ * Page #179 -------------------------------------------------------------------------- ________________ ॥जैनं जयति शासनम्॥ Page #180 -------------------------------------------------------------------------- ________________ आगमोद्धारक-ग्रन्थमालानां प्रकाशनो (1) सर्वज्ञशतक सटीक महोपाध्याय श्री धर्मसागरजी सूत्रव्याख्यानविधिशतक धर्मसागरग्रन्थसंग्रह (4) औष्ट्रिकमतोत्सूत्रप्रदीपिका (5) तात्त्विकप्रश्नोत्तराणि आगमोद्धारकरी (6) आगमोद्धारककृतिसन्दोह भाग 1-2-3-4 5-6 , न्यायावतार सटीक (E) अधिकार-विंशिका वृत्ति (e) लोकविंशिका वृत्ति ( आद्य खण्ड) (10) आगमोद्धारकश्रीनी श्रुतोपासना (11) कुलकसंदोह श्रीपूर्वाचार्यकृत (12) संदेहसमुच्चय श्रीज्ञानकलशसूरिनिर्मित (13) जैनस्तोत्रसंचय भाग 1-2-3 श्रीपूर्वाचार्य कृत (14) गुरुतत्त्वप्रदीप चिरन्तनाचार्यकृत [उत्सूत्रकन्दकुदालापरनाम] (15) शतार्थविवरणम् गणी श्रीमानसागरजीकृत प्राप्ति-स्थान:श्री जैनानन्द पुस्तकालय, गोपीपुरा, सुरत.