________________
न्यायावतारः
.०००००००.००
00000000000००००००००००००००००००००००००००००००००००००००००००००००००000000000000
ण्णइत्ते' त्यादि। तत्कृतानां कर्मणां भोक्तताप्रतिपादनायाहुः भोक्त'ति। भुनक्ति-कृतमनुभवतीति भोक्ता । उभयपदोऽयं। यद्वा भुङ्क्ते -धातूंनाम नेकार्थत्वाद् ‘भोगोऽयं पदातिर्मे' इति दर्शनादनुभवति विपाककाल इति भोक्ता-अनुभविता। यद्वा अस्त्वभ्यवहार एवार्थः। चावकर्मणामनुभवनियमादेव । न च वाच्यं कर्त्तत्वग्रहादेव गतार्थमिदं, नार्थोsनेनेति। यतो नैहिकपारलौकिकभेदेन भिन्नैव कर्त्तता भोक्तृता च । नहि नियमोऽस्त्येष यदुत-यदा कर्ता तदैव भोक्ता, किन्तु कालान्तरे भवान्तरे वेति ज्ञापनाय । यद्वा-य एव कर्त्ता स एव भोक्ते ति दर्शनेनैकान्तनित्यानित्यत्ववादिनौ शिक्षयति, यदुत-नैकान्तनित्यत्वे एकान्तानित्यत्वे वाङ्गीक्रियमाणे युज्येते कर्त्त ताभोक्तृते। किन्तु कथञ्चित्रित्यानित्यतया जात्यन्तरगते एवोभे एते। यतोऽवस्थाभेदो हि भेदकोऽत्रस्थावतः । नहि घटो नष्ट इत्यत्र घटतया परिणत द्रव्य नष्टं, कपालोसादस्याऽऽकस्मिकत्वापत्तेः। किन्तु कपालावस्थोत्पन्ना घटावस्था च नष्टा । न च मृदः घटकपालौ भिन्नावेव । तथात्वे निद्रव्यतापाता. दाकृतेः, किन्तु भिन्नाभिन्नावेव । विवेचितं विस्तरेणैतत्पूर्वम् । किञ्चैकान्तनित्यानित्यानां नैव युज्यतेऽर्थक्रियापि । यतो नित्योsनित्यो वा क्रमेणार्थक्रियां कुर्याद्युगपद्वा ? । नाद्यन, यतोऽस्य तथाकरणे किं कारणं ?, कारणापेक्षेति चेकिं कारणेनान्तर्गडुकल्पेन । क्रियते अतिशयापादनमिति चेत्, स्पष्टवाहितातिशयतयाऽनाहितातिशयतया च भिन्नता तद्रव्यत्वेनाभिन्नता च ।क्षणे च नैवक्रम एव। न च नित्ये एकान्तेन तद्रहितस्य तद्वत्ता अनित्ये चावस्थानाभावात्तद्वत्ता भवेदिति। युगपच्चेद्, द्वितीयक्षणेऽकर्त्तत्वात् स्पष्टोऽवस्थाभेदः नित्यैकान्तस्य । अनित्यैकान्तस्य तु द्वितीयक्षणे निरन्वयविनाशस्य प्रत्यक्षविरुद्धस्याभ्युपगमे न स्मरणादि । न चार्थक्रियैव घटते तावदेकान्ते, यतो ज्ञातृत्वकर्तृत्वानुभवितृस्मत त्वादीनां भिन्न कालीनत्वमेककर्त्त त्वं चानुभूयते एव । न चेदं तथाऽभ्युपगमे । नहि यदेव