________________
. न्यायावतारः
.0080000000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
कर्त त्वं तदेव भोक्तृत्व, तयोभिन्नावस्थाभावात् । एकान्ते हि न परस्परविरोधिक्रियायुग्मं युज्यते कथञ्चनापि । तदुक्तम्क्रमाक्रमाभ्यां नित्यानां, युज्यतेऽर्थक्रिया नहि । एकान्तक्षणिकस्वेऽपि, युज्यतेऽर्थक्रिया नहीं' ॥१॥ [वीत०] ति
तद्युक्तमुक्त-कर्ता यथा तथैव भोतति । यद्वा-नाभोक्तृणां कता, सिद्धष्वपि तथाप्रसङ्गात् कर्तृत्वस्याहेतुकत्यापाताच । न च पाच्यमेव सतीतरेतराश्रयत्वं स्पष्टं स्यात्, कतै त्वस्य भोक्तृत्वाश्रयाद् भोक्तृत्वस्य कर्त्तत्वाश्रयाच्चेति। बीजाकुरदित्तरेतराश्रयाभावात् । यतोऽन्यदेव भुज्यते कर्म, क्रियतेऽपि चान्यदेव । न च भवति कर्मपरिपाकाभावे आत्मनस्तथाविधोऽध्यवसायः । न च तदभावेऽभिनवकर्मकरणमिति योग्यैव कत्तु गापेक्षेति । एवं च कर्तृताभोक्तृताद्वयेन जीवस्वरूपं प्रतिपाद्य तत्रिबन्धनीभूतं परिणामवाद दिदर्शयिषव पाहुः- 'विवृत्तिमानि ति । तत्र विवर्त्तनं-देवत्व-नारकत्व नरव . तिर्यक्वादिरूपेण परावर्त्तनं विवृत्तिः-परिणाम इत्यर्थः ।
यदाह- नार्थान्तरगमो यस्मात्, सर्वथैव न चागमः । 'परिणामः प्रमासिद्ध इष्टश्च खलु पण्डितैः ।। तथापरिणामो ह्यन्तिरगमनं न च सर्वथा विनाश इति । नावस्थानं च तथा परिणामस्तद्विदामिष्टः ॥ १॥
न चापरिणामिन आत्मनः कर्त्त त्वं भोक्तृत्वं वेति । विवेचितं चेदं पूर्वम् । यद्वैतत्त्रयं हेतुहेतुमद्भावेन योज्यम । यथा यत एव कर्ताउज एव भोत्ता, यत एव च भोत्ताऽत एव विवृत्तिमानिति । न चापरिणामिन आत्मनो भोक्तृत्वादि युक्तियुक्तम् । अत एवोक्तमन्यत्र कषच्छेद निरूपणानन्तरं तदुभयनिबन्धनं भाववादस्ताप' [धर्मबिंदुः] इति 'परिणामिन्यात्मनि हिंसादय' इति च । न चापरिणाम द्रव्यं