________________
न्यायावतारः
.0000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
सम्भवत्यपि । यतो ‘गुणपर्यायवद्रव्य'मित्युच्यते । गुणपर्यायाश्च स्थिरीभूते द्रव्ये एव उत्पद्यन्ते । न च द्रव्यमपि सर्वदा समानरूपम् ।
यत:-सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः । मृद्भावाद्यनुवृत्तेराकृतिजातिव्यवस्थाना ॥१॥ दिति ।
समक्षमनुभवात् । यदि च न स्यात परिणामो द्रव्यादीनां, कुतस्तरां प्रतिक्षणं विविधकार्यकरणशक्तिसमुत्पादः । सत्येव च परिणामे स्मरणप्रत्यभिज्ञानादीनि भवन्ति । यत: पूर्वकाले यो ज्ञाता स एवाग्रतो यद्यज्ञातृत्वावस्थः तद्वस्त्वाश्रित्य भवेत्तदा स्मर्त्ता, ज्ञातृत्वस्मत त्वयोर्विरोधात् । नहि यद् यदा ज्ञायते तदा तस्य स्मरणं संविद्यते । न च ज्ञातृत्वस्मर्तृत्वयोरैक्यम, एकस्येन्द्रियादेरुद्भवाइन्यस्य च संस्कारादेरुद्भवावलोकनात । न चाननुभविताऽअनुभूत वा स्मयते केनापि किमपि । अन्यथा सर्वस्य सर्वानुस्मृतिप्रसङ्गात् । अनुभवसिद्धच स्मरणमिति नापरिणान्यात्मा। अवस्थाद्वयविरोधो नित्ये, एककर्त्तकत्वविरोधश्चानित्ये सर्वथा । न च ज्ञानस्यैव भिन्नत्वं तेनेति । यतो न केवलं ज्ञानं ज्ञातृत्वेनोच्यतेऽस्ति वा । न च ज्ञानविशेषेण विशिषता [न] जीवस्य ज्ञानस्य साश्रयत्वादावेयभेदे चाधारतापि तन्निरूपिता भिन्नैव । न चाधारताऽऽधाराद्भिन्नेति, भिन्नभिन्न ज्ञानानामधिकर णताप्रयोजको भवत्येकस्वरूप आत्मा कथम् । न चान्यस्मिन्नात्मनि भवेत् स्मरणादि, पूर्वोक्तातिप्रसङ्गस्य जागरुकत्वात् । न च द्रव्यस्यास्ति सर्वथा विनाशेऽर्पण-याचनादिव्यवहारः। अयं गुरुः सोऽन्तेवासीत्यादिव्यवहारस्याध्यक्षसिद्धत्वं तूभयोरपि । स च प्रत्यभिज्ञानोत्पाद्य एव । न च युज्यते सर्वथा नित्येऽनित्ये वैतदिति स्वीकार्य: परिणाम्यात्मा । न च भवान्तरगमो युज्यते अपरिणामिन्यात्मनि, जीवत्वेनावस्थानानरादित्वेन विनाशाच । नवोभयोरे कतराभावेऽपि भवति युक्तिसङ्गतं तद्गत्यन्तरादि । स्पषश्च मनुष्यत्वादेरभावो देवत्वे, नरत्वे च देवत्वाभावः । न चाऽन्यो जीव उत्पन्नो, वीतरागजन्मा