________________
न्यायावतारः
8
000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
दर्शनन्यायेन तस्यानादितया स्वीकरणीयत्वात् । उत्पादे वा स्पष्टैव पूर्वस्य कृतस्याफलता उत्तरस्याकृतस्याप्यभ्यागमता च । एवं हिंसाद्यहिंसादि च व्यर्थमेव । न च धनादि यथा पुत्रादेरुपयोगितामेति, तथा सन्तानस्योपयोगितामेष्यति हिंसादिजन्यादृष्टमिति घाच्यम् । सन्तानस्य भिन्नाभिन्नत्वकल्पनया सन्तानिभ्योऽयुज्यमानत्वादुभयथापि भवत्कल्पनया, अन्यथा सन्तानस्य परिणामितापातः । सन्तानस्यापि च क्षणिकत्वं न कथ ?, तस्यापि सत्त्वाविशेषात् । सन्तानिरूपत्वे चानर्थक एव सन्तानाभ्युपगमः कल्पितश्च । न च तथा भवेद्वासनासक्रमादि । न च वासनासक्रमो युक्तो द्वयोः क्षणयोः, तुलोनामावनामादिवच्चेन्, नैतत्पर्यालोच्य भाषितम् । नहि तुलाद्वयस्यैककालीनतावदस्ति द्वयोः क्षणयोरेककालीनता, येन युक्तो भवेद्वापनासक्रमः। नित्यवाहे तु न नरादिभवनाशो देवादिभवोत्पादो घा युक्तः । एकस्मिन् विरुद्धत्वाद्, द्वयोर्विरुद्धधर्माभ्युपगमे च स्पष्टः स्याद्वादा युपगमः, पूर्वापरावस्थाभ्युपगमेन परिणामित्वाभ्युपगमश्च । यतः सात चैकस्मिन् जीवेऽनेकावस्थाभावेन कथमिवैक्यं भवेत् । ननु प्रमातृत्वादियुक्त आत्मा विचार्यते विचारवद्भिर्भवद्भिः, परमविचारितमेवैतद् । यतः सति धर्मिणि धर्माश्चिन्त्यंते, नाऽसति ।धर्मी च भवदभिमतो जीवः । स एव च नास्ति यदा, तदा का तस्य प्रमातृस्वादिचिन्ताकणिकापि ? । न चालीकमिदम् । यतः प्रमाणाधीना हि प्रमेयव्यवस्थितिः । न हि प्रमाणातीतमभ्युपगम्यते सद्भिः । प्रमाणातीतश्च जीवः । यतोऽसावभ्युपगम्यमानो भवद्भिः केन प्रमाणेन परिच्छिद्याभ्युपगम्यते, प्रत्यक्षेणेतरेण वा । आद्यन चेत् । तन्न चारु, हृषीकाणि हि स्वस्वविषयेषु रूपरसगन्धस्पर्शशब्देषु नियतानि । न च तद्वानात्माभ्युपगतो भवद्भिः । योगिप्रत्यक्षेण वेविद्यते चेत्. तत् केन प्रमाणेन भवद्भिः प्रमितं ? यत्तैः प्रत्यक्षेण ज्ञातो जीवः । प्रत्यक्षेण तावन्नैव, विनष्टानुत्पन्नस्य ह्यग्राहकवादिन्द्रियाणाम् । न चेतरदस्ति मानं, यतो ज्ञायेत तत् । आगमस्त्वधुनाss