________________
६०
न्यायावतारः
.०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००000000000000000000000000
न्दोलायमानप्रामाण्य एव । न चास्त्येव मानसं प्रत्यक्षं प्रतिप्राणिसिद्ध, येन सुखदुःखाद्यभिगमः तेन चात्मावगमो भविष्यतीतिवा- . च्यम् । तथा सति विप्रतिपत्त्यभावात् । नहि प्रत्यक्षावगम्ये भवति विवादः। यथा प्रत्यक्षेषु भूतेषु । विद्यन्ते चात्मसत्ता-तद्वयापकतैकताऽकर्त्त त्वादिविषयेषु विप्रतिपन्ना अनेके । तन्नासौ प्रत्यक्षसमधिगम्य.। न च प्रत्यक्षतरद् विद्यते प्रमाणं, विसंवादित्वात् शेषाणाम् । तथात्वेपि तत्प्रामाण्येनानुधावनं चेद् भविष्यत्येव विनिपातः ।
यदाह-हस्तस्पर्शादिवान्वेन, विषमे पथि धावता।
अनुमानप्रधानेन, विनिपातो न दुर्लभः ॥ इति ।। किच-अनुमानेनापि प्रत्यक्षेतररूपेण कथं गृह्य तासौ ? । यत इदं गृहीतलिङ्गसम्बन्धे भवेदन्यथा वा ?। नान्त्यं, तथात्वमेव नानुमानस्य । सिध्येच्चैवं तु यत्किमपि शशशृङ्गादि जीवाभावाद्यपि च । आये तु न कदापि जीवः प्रत्यक्षगोचरमागतो, येन तत्सम्बद्धलिङ्गग्रहोन्यथानुपपत्तिश्च निर्णीयेत । अभावे च तयोः कथमिव भवेदनुमानप्रथा। यतो नादृष्टवह्निधूमस्य धूमस्य लिङ्गत्वेन वह्नयन्यथानुपपन्नतया वा ग्रहो भवति । तन्नानुमानमेयः प्रमाता । आगमोपि परस्परविसंवादितया कथमिव स्वप्रामाण्यं ख्यापयेद्, येनात्र स स्यात् प्रमाणीभूतः । न चाप्रमाणेन सिद्धिः कस्यापि, अन्यथा सर्वसिद्धिप्रसङ्गो दुर्वार एव स्यात् । न च पुरुषप्रणीत एवागमः प्रमाणतया जागद्यते, न चासौ विसंवादि, दृष्टेष्टाव्याहतरूपत्वात्तस्येति वाच्यम् । यतस्तस्य पुरुषविशेषस्य सिद्धिरेव तावत्कुतो ? न प्रत्यक्षेण, तस्य वर्तमानमात्रग्रहणनिपुणत्वाद् । अनुमान - मपि (नानुमानेन) प्रत्यक्षपूर्वकत्वात्तस्य । आगमेन साधने तु स्पष्ट एवान्योन्याश्रयः । पुरुषविशेषसिद्धावपि जिनेन्द्र एव सर्वज्ञो, बुद्धो नेत्यत्र का प्रमा ? द्वयोरातत्वभावे च किं विरोधोऽजयोमते ? इत्यादेश्वर्चनीयत्वात् । उपमानं तु नाप्रत्यक्षे विषये सक्रमते । दृश्यमान