________________
२२
न्यायावतारः
00000000000000000000000000000000000000000000000000000000 .:.0000000000००००00000000000.
भ्युपगमः पक्षापरपर्यायः प्रयोक्तव्यः । ये तु न पक्षप्रयोगमभिमन्वत शाक्यादयस्ताँश्छिक्षयन्नाह साध्यासिद्धिं -
अन्यथा वाद्यभिप्रेतहेतोर्गोचरमोहितः । प्रत्यर्थस्य भवेद्धतुविरुद्धारेकितो यथा ॥१५॥
अन्यथा साध्याभ्युपगमाभावे, वादिनः स्वपक्षस्थापन परपक्ष - प्रत्याचक्षणचणस्याभिप्रेतः-स्वाभिप्रेतसाध्यसाधनप्रत्यलत्वात्सम्मतः, हेतुः-साध्याविनाभावित्वेन साध्यगमक: प्रत्यक्षादिगम्यः, तस्य गोचरो-विषयः साध्यादिस्तत्र मोहितः-साध्यनिर्देशाभावेन साध्यज्ञानाभाववान् प्रतिवादी परपक्षोत्थापनस्थिरास्थः, प्रत्यर्थस्यासाध्यस्य हेतुर्गमको भवेत् । यथोपप्रदर्शने । विरुद्धारेकितो-साध्याभावसाधकत्वसंदिग्धतावान् हेतुः । भावार्थः-स्थापयता पक्षं वादिना विना पक्षप्रयोग साध्याभ्युपगमापराभिधं यो हेतुरुक्तः केवलः स सन्दिग्धविरुद्धव्यावृत्तिकवदसाध्यस्य साध्येतरस्यापि वा साधकः समापद्यतेत्यवश्यं वक्तव्यः पक्षप्रयोगः । भवत्येव बृहद्भानु सिषाधयिषयापि व्याकृतो धूमाख्यो हेतुः साध्यनिर्देशमृते वर्गमकोपि वह्नयभावं जलादिकं वापेक्ष्य विरुद्ध इति । न चान्तरा पक्षप्रयोगं व्याप्तिप्रदर्शनं स्यात्ततश्च परार्थानुमानप्रथा दुरापास्तप्रसरैव साध्यमनभ्युपगच्छतः । नो को हेतुाप्तः साध्येनैकेनैव, आलोकेन वह्निशैत्याभावाद्यनेक - साध्यप्रतिपत्तेः । मृगशीषोंदयेन पूर्वचरोत्तरचराद्यनेकप्रतिपत्तेश्चेति । न प्रतीयात् सभ्यः सभाभूषणोपि वादिवाञ्छितं साध्यं निश्चितमन्तरेण साध्यनिर्देशं प्रत्यवतिष्ठते च प्रत्यर्थी प्रत्यर्थापेक्षया विरुद्धतादिकमुद्भावयन्निति स्यात्सर्व सुस्थं सिषाधयिषितसाध्यमुल्लिखतो विबुधलेखस्याख्यातम्।
एतदेव दृष्टान्तेन दृढयितुमाइ