________________
न्यायावतारः
___ २१
.000000000000000000003300030000000000०००००००००००००30.100000000000000000००००००००००००००००००
पेक्षयालोकस्य सद्धेतुत्वेपि धूमापेक्षयाऽसद्ध तुत्वात् । साध्यवनिर्णयस्तु हेतुदर्शननिर्णयजनितः तथा साध्यहेतुयुग्मोगिरणमेव परार्थे सार्थकम् ।
उक्त पक्षादिवचनात्मकं परार्थानुमान, परं कः पक्षः ? इति सम्भावयन प्रश्नं पक्षं तत्प्रयोगस्यावश्यककर्त्तव्यतां चाऽऽह
साध्याभ्युपगमः पक्षः, प्रत्यक्षाद्यनिराकृतः । तत्प्रयोगोऽत्र कर्तव्यो, हतोगोचरदीपकः ॥१४॥ साध्यं- व्यक्तीकृताकार, अभ्युपगमः- अभ्युपगम्यतेऽस्मिन्निति अभ्युपगमः, साध्यस्याभ्युपगमः साध्याभ्युपगमः, साध्याधिकरणमिति यावत् । यद्वा-साध्यस्याभ्युपगमो यस्मिन् स साध्याभ्युपगमः । ज्यधिकरणबहुव्रीहेरपि स्वीकृतत्वात्। द्वितीयपक्षे तु साध्यस्याभ्युपगमोनिर्देशः पक्ष इति । स च प्रत्यक्षादिनाऽनिराकृतोऽविरुद्धः,आदिशब्दालिङ्गलोकस्वषचनपरिग्रहः । प्रकटयिष्यति च प्रकरणकारोऽय एतद्दषणजालं निरूपयन् । अत्राहुः केचिद्ध तोः स्वरूपमाधिष्कुर्वता प्रादुष्कृतमेष साध्यमिति न तत्प्रयोगेनाऽर्थ इति । तन्ने त्याह'तत्प्रयोगो' तस्य निर्दिष्टरवरूपस्य पक्षस्य प्रतिपादनम् । अत्र परार्थानुमाने कर्त्तव्यः-कर्त्तव्यमेव । 'सर्व वाक्यं सावधारणमिति न्यायादनुक्तोपि प्रतीयते इति प्रामाणिकपटुवचनाचात्रै वकाराध्याहार भावश्यकः । अथ पक्षप्रयोगे फलमाह-हेतोर्यथोक्तलक्षणस्य, गोचरदीपक:- विषयप्रकाशकः, व्याप्तिप्रदर्शक इतियावत् । सत्येव वह्निलक्षणसाध्यनिर्देशे भवति श्रोतुर्ज्ञानं-धूमो वह्निव्याप्तः धूमसद्भावश्चात्र वह्निसद्भावाविनाभूत इति । साध्यनिर्देशाभावे चैकस्मादपि हेतोरनेकसाध्यसिद्धेः किमत्र प्रयोक्त्राभिप्रेतं साध्यमिति न निश्चिनुयात्। निश्चयनिहितनिविडप्रयत्नोपि निश्चता । तदवश्यंतया साध्या