________________
न्यायावतारः
.00000000000000000000000000०००००००००००००००००००००००००००००००००000.00000000000000000000000
जनकत्वादेव सस्य प्रतीतो हृषीकव्यापारस्य प्रतिपादितपदार्थस्य चोपलम्भात् हेत्वादिनिरूपणेनान्यादिसाध्यज्ञानभावात् परार्थानुमानवदृश्यमानार्थनिरूपकवाक्यस्य परार्थप्रत्यक्षताततैव । सम्बोधनपूर्वक दृश्यमानार्थदर्शनोक्त वाक्य तथेति । अथानुमानस्य परार्थतां प्रतिपिप दयिषुढे तुमूलता तस्य समाकलय्याह
साध्याविनामुवो हेतोर्वचो यत्प्रतिपादकम् । परार्थमनुमानं तत, पक्षादिवचनात्मकम् ॥१३।। हेतोः प्रतिपादकं वाक्यं परार्थमनुमानमिति सम्बन्धः । साध्यंअप्रतीतमनिराकृतमभीप्सितं, तेनाविनाभूः - कारणकार्यादिभावेन प्रतिबद्धो, हेतुः-हिनोति-गमयति अप्रतीतं साध्यमिति व्युत्पत्तः । तादृशस्य हेतोः प्रतिपादक-निरूपणप्रवणं यत् धूमोऽत्र तेन वह्निमानयमित्यादिरूपं वाक्य, तत् वाक्यमेव निरुक्तनिरुक्त ‘परार्थ' परस्यैव साध्यार्थज्ञानजनकत्वादनुमान-लिङ्गज्ञानसम्बन्धस्मरणादनु जायमानं मान-प्रमाण परार्थानुमानमिति तत्त्वम् । कीदृशं तदित्याह-पक्षादिवचनात्मक' पच्यते-व्यक्तीक्रियतेऽथों यस्मिन्निति पक्षः-सन्दिग्ध - साध्यवान, आदिशब्दात् हेतुदृष्टान्तादिग्रहः । तस्य वचनं-निवेदनं तदेवात्मा-स्वरूपं यस्य तत् पक्षादिवचनात्मकम् । परं प्रतिपादयता ह्यवश्यतया पक्षहेतुयुगलं निगाद्यं वागाद्यतत्त्वतन्त्रिणा । न च हेतुमात्रेणेप्सितार्थसिद्धिः, सद्ध तोरपि तादृशपक्षबलेन दुष्टत्वभावात् । सत्यामपि व्याप्तौ वह्निधूमयोर्ह दे दुष्टत्वस्याविवाद सिद्धत्वात् । धूमदृष्टान्तरतु प्रतिपाद्यप्रेक्षामपेक्षतेऽवबोधे, तदन्तरा न तदावश्यकम्, इतरथान्यथा, स्फुटयिष्यति चाग्रेऽवाप्तयथार्थाभिधानो दिवाकरः श्रुताकरः कविरेतत्, तस्य कथञ्चिनिरर्थकत्वाख्यानेन । अन्ये तु साध्याभ्युपगतिः पक्षः, साध्यनिर्देशमृते हेतोाप्ती सन्देहात्। वहन्य