________________
न्यायावतारः
100000000000000000000000000000000000000000000०००००००००००००००००००००००००००००००००००००००००००
प्रत्यक्षस्य नाप्यनुमानस्य केवला परार्थता । ऊरीक्रियते हि परैः केवलस्यानुमानस्य तथाविधता नत्वध्यक्षस्य । ननु दरीदृश्यते हि प्रतिज्ञादिप्रयोगोऽनुमाने परार्थ, न तथा समक्षे किञ्चिदिति । न, तत्रापि तथा वधे अगुल्यादिना निर्दिश्यमानतोपलम्भाद् यथावगतेपि साध्ये परव्युत्पत्तये प्रतिज्ञादेः प्रयुज्यमानस्य परार्थता, तथैवाध्यक्षेण निश्चितेप्यर्थेऽङ्गुल्यादि निर्दिश्य प्रतिपादयितुरध्यताबसितमर्थ कथमिव न परार्थता ?। तर्हि केवलादिप्रत्यक्षेण प्रतिपद्यार्थान् व्याकुर्वन् केवल्यादिवचनानि श्रुतरूपाणि कथं स्युस्तेषां परार्थप्रत्यक्षतापत्तेः । यो येनोपलभ्य प्रकाशते तस्य तथा परार्थतानियमापातात् । सत्यं, नेयं विभीषिकाऽत्र । यत आह 'परस्य' व्युत्पाद्यस्य तदुपायत्वान्-प्रत्यक्षानुमानाऽन्यतरावगमजननकारणत्वात्। न च केवल्यादिवचांसि अतीन्द्रियज्ञानायेति न तेषां परार्थप्रत्यक्षता, आगमतैव किन्तु । एवं च सांव्यवहारिकप्रत्यक्षेऽनुमितौ च परार्थता, नातीन्द्रियेऽध्यते । स्मरणादेस्तु प्रत्यक्षोद्भवत्वेन तेनैव गतार्थता, मास्तु वा तस्य सा, स्वानुभवसापेक्षत्वादेव तस्य ।। परार्थप्रत्यक्षमेव निरूपयति साक्षातप्रत्यक्षप्रतिपन्नार्थ-प्रतिपादि च यद्वचः । प्रत्यक्षप्रतिभासस्य, निमित्तत्वात्तदुच्यते ॥१२॥ प्रत्यक्षं इन्द्रियानिन्द्रियोद्भवं साक्षात्ज्ञानं, तेन प्रतिपन्नोऽवेतोऽर्थो रूपरसादिस्तस्य प्रतिपादि-निरूपकं यत्-पश्य पुरतः स्फुरन्मणिरलाभरणभासिनी श्रीजिनप्रतिमा, आस्वादयाम्लोऽयं रस इत्यादिरूपं वचः-वाक्यं, प्रत्यक्षप्रतिभासस्य परात्मनः साक्षादवबुद्धेः निमित्तवाद्हेतुत्वात्तत्परार्थ प्रत्यक्षमित्युच्यते-प्रतिपाद्यते बुधैः । नह्यन्तरेण वाक्यं प्रतिपाद्यते परः। आगमस्य च न प्रत्यक्षहेतुता, शब्दार्थप्रतीति