________________
१८
.
न्यायावतारः
000000000000०००००००००००००००००....०००००००००००००००००००००००००००००..........20000..........
स्वीकृतत्वात् । उपदेशावबोधसंस्कारकारित्वादेव हि देवगुरूधर्मनिमित्तानामाश्रयणात् तथापि प्रयत्नः स न मानमिति चेदस्तु कारणे कार्योपचारात्तस्य मानतेत्येतदाह-वाक्य'मित्यादि । उच्यते इति वाक्यं-आख्यातान्तं, उपलक्षणमेतत् संज्ञादीनां । 'तत्' मानं, उपचारतः-आरोपेन । नहि परार्थमानत्वं वाक्यस्य, किन्तु तस्य कारणमिति तदपि परार्थ मानम् । उपलभ्यते हि उपलब्धिमद्भिः कारणस्यापि कार्यत्वव्यपदेश उपचाराद्यथा घृतमायुनड्वलोदकं च पादरोगः । प्रत्यक्षपदार्थप्रतिपादकवाक्यस्य परार्थमानत्वाभावे सर्वस्यापि वाक्यस्यागमत्वेन प्रतिपन्नप्रतिपादितपरिदृश्यमानार्थबोधस्याकारणकत्वम् । न चान्यथासिद्धत्वं तस्य, तद्बोधेनैव तस्यान्वयव्यतिरेकप्रतिपत्तेः । परस्य तद्बोधे चावश्यक्तृप्तत्वाभावाच्चेति वाच्यम् । परस्य तथा बोधे तस्यावश्यक्लृप्तत्वात् । बोधस्य तु द्वारतैव, वाक्यजन्यत्वे सति परार्थमानजनकत्वात् । एवं चोपलभ्य कश्चित्कञ्चिदर्थमध्यक्षादिना परप्रबोधाय वितन्वन् वाक्यव्रजं परस्य तद्बोधं जनयतीति सुष्ठूक्तं वाक्यं' समारोपादेव परार्थ मानम् ।
भथ परार्थप्रमाणश्य भेदौ मानकारणतां चाहप्रत्यक्षणानुमानेन, प्रसिद्धार्थप्रकाशनात् । परस्य तदुपायत्वात्, परार्थत्वं द्वयोरपि ॥११॥ प्रत्यक्षेण-पूर्वोक्तरूपेण, प्रसिद्धः-प्रकर्षण स्पष्टतालक्षणेन सिद्धोऽभिनिष्पन्नो निःसंदेहावबोधविषयतां प्रापितो योऽर्थः जिनप्रतिमादिः, तस्य प्रकाशन-परस्मै निरूपणं, तथैव अनुमानेन-प्रानिरूपितयथार्थस्वरूपेण च । चो गम्यो, द्योतकत्वात्तस्य । प्रसिद्धो-निर्दूषणहेतुतर्कादिना निर्णीतो योऽर्थ आत्मादिः, तस्य प्रकाशनात् परार्थत्वं-परव्युसादननिमित्तकत्वं द्वयोरपि-प्रत्यक्षानुमानयोरपि । अपिना न केवलं