________________
न्यायावतारः
.0000000:००००००.:.ccc....८०००००००००००००००००000000000000000000000000000000000000000000
देशक अनुभूयमानयाथार्थ्यम्वरूपाभिधायि च वाक्यं 'न मांसभक्षणे दोष इत्यादेः 'क्षणिकाः सर्वसंस्कारा' इत्यादेश्व असद्भूतप्ररूपण - प्रवणस्य स्वरूपमाविर्भाव्य न्यक्कारं कुर्यादेवेति ।
अथैवं नितरां निजानुभवरूपं प्रत्यक्षानुमानादि प्रमाणं निरूप्य परार्थप्रधानः परार्थं तदाह लक्षयन्
स्वनिश्चयवदन्येषां, निश्चयोत्पादनं बुधैः । परार्थ मानमाख्यातं, वाक्यं तदुपचारतः ॥१०॥
स्वः-प्रमाता प्रत्यक्षादिभिरविसंवादिभिरर्थनिश्चायकः, स्वान्यनिर्भासमयत्वात्तस्य ! ज्ञानादनन्यो हि सः । तस्य निश्चयः-निर्णयः, ईहापोहादिना निर्भासितोऽपायावधारणरूपः प्रतिबोधः, नत्तुल्यः । 'अन्येषां प्रमात्रतिरिक्तषु, षष्ठीसप्तम्योरथ प्रत्यभेदात् । यद्वा शेषे षष्ठीयम् । तेनाऽन्यसम्बन्धि इत्यवधेयम्। निश्चयस्यानारोपितावबोधरूपस्य उत्पादनं प्रादुर्भावनं यत्तदिति शेषः । 'बुधैः' बोधन्ति-प्रमाणेस्वरूपसङ्ख्याविषयफलान्यवगच्छन्ति याथातथ्येनेति बुधाः तैः, वक्त्रधीनं हि वाचां प्रामाण्यमित्येवं कल्लेखः । 'परार्थ' अवयवे समुदायोपचारात् मध्यमपदलोपाहा परः-परप्रतिबोधोऽर्थों यस्य तत् । यद्वा परस्मै इति परार्थ, स्वयं निर्धारितत्वात् परेषां बोधायैवायं यत्नः । न च स्वयमबुद्धमर्थ बोधयत्यन्यं कश्चिद्विपश्चिदपि । मानप्रमाणं, आख्यातं-प्रवीणपरिषदि प्रामाण्यतया प्ररूपितम्। ननु निर्णीतज्ञानतारूपस्यमानस्यात्मनिष्ठत्वात्तदुत्पादने नपरे प्रभविष्णवोऽन्यथाऽनारतानन्तावबोधात्मनः केवलस्याप्युत्पत्तौ प्रयतेरन् परे कारुणिकाः इति नेयं वाचोयुक्तियुक्तियुक्ता । सत्यं, प्रयत्न आत्मस्थ एवावबुद्धये प्रत्यलस्तथापि तं तज्जन्यमयोपशमं च विदधत्येवान्ये, सार्वदिकसार्वत्रिकसद्बोधोद्भवेऽपि तज्जनकप्रयत्नस्य कारणतयाऽन्यौजसः