________________
न्यायावतारः
००००००००० 3000000000000000000०००००००००००००००००००००००००००००००
धानुष्कगुण संप्रेक्षिजनस्य परिविध्यतः । धानुष्कस्य विना लक्ष्य निर्देशेन गुणेतरौ ॥ १६ ॥
२३
धनुषा चरन्तीति धानुष्कः, तस्य गुणो यथालक्ष्यवेधकत्वादि, तं सम्यग् - यथार्थतया, प्रेक्षणशीलो-निरूपणप्रवणो, यो जनः तस्य । 'गुणेतरौ' यथा लक्ष्यं विद्धमिति गुणोऽन्यथा त्वन्यथेत्युभयमपि धानुष्कस्य अवभासते मनसि इति शेषः । कुत एवमित्याह-लक्ष्यनिर्देशेन -- कनीनिकादिवेधनीयकथनेन विना परिविध्यतो- लक्ष्यं वेधयन्नपि न स्वस्य गुणमेवाविर्भावयति, किंतु गुणदोषोभयमेवेत्युक्तमेव प्राक । यद्वा- प्रेक्षकजनस्याप्रतो लक्ष्यनिर्देशेन विना परिविध्यतो धानुष्कस्य गुणेतरौ स्यातां, निर्देशे तु गुण एव । एवं च प्रकृतेपि पक्षप्रयोगे तदभावे चोक्तवद्भावना कार्या दृष्टान्तमनुरुध्य गुणेतरयोरिति कार्य एवाभ्युपगमः साध्यस्य ।
उपवर्ण्य पक्ष प्रयोगस्थावश्यकतां परार्थानुमानेऽवश्यं कर्त्तव्यता हेतुप्रयोगस्यापीति तद्भदावाह
ording
हेतोस्तथोपपत्त्या स्यात्, प्रयोगो चान्यथापि वा । द्विविधोऽन्यतरेणापि साध्यसिद्धिर्भवेदिति ||१७||
तो:- पूर्वमुपदर्शितलक्षणस्य ' तथोपपत्त्या' सत्येव साध्ये उपलध्या, वाशब्दः पूर्वचरोत्तरवर- सहचर-स्वभाव-कार्य-कारणादिभेदप्रतिपत्त्यर्थं स्यात् प्रयोगः- परव्युत्पादनाय प्रतिपादनम् । अन्यथापि साःयाभावेऽनुपलब्ध्यापत्तेरित्येवं व्यतिरेकमुखेन । अपिशब्दो द्वयोरपि तुल्यकक्षतापरिग्रहाय । यथैवाऽम्वयमुखेन साध्यं सिद्धिपदवीं प्रेजति तथैवं व्यतिरेकमुखेनापि हेतुप्रयोगेन । वाशब्दोऽत्रापि पूर्ववद् भेदोपग्रहाय । तत्त्वतो द्विधैव तत्प्रयोगोऽवान्तरभेदास्तु प्रत्येकमुपलब्धे
1