________________
२३
न्यायावतार
0000000000000000000000000000000000OOOCOO0000OOOOOOOOOO0000000 2.000000 .0cco CC.COCO01
रनुपलब्धे श्वेत्येवाह-द्विविध' इति । द्वे एव-तथोपपत्त्यन्यथानुपपत्याख्ये एव, विधे-प्रकारौ, अन्येषां तयोरेवान्तर्भावात् यस्य स द्विविधः। ननु किं सर्वत्रापि द्विविध एव प्रयोगो हेतोरुतान्यथापि क्वचिदित्याह'अन्यतरेणापि' तथोपपत्त्याख्येनान्यथानुपपत्त्याख्येन वा प्रयोगेन 'साध्यसिद्धिः' साध्यस्य 'प्रसाधितस्वरूपस्य सिद्धिव्युत्पादनं भवेत ।' अवधारणफलत्वाद्वाक्यस्य स्यादेव । नोभयथा हेतुप्रयोगापेक्षा, सत्यां साध्यसिद्धावन्यहेतुप्रयोगे निग्रहस्थानाईत्वापत्तेः । इतिशब्दो व्युत्पन्नापेक्षया परार्थानुमाने पक्षहेत्वोरेव प्रयोग आवश्यकस्तावन्मात्रेणैवेप्सितसिद्धः । दृष्टान्तादेस्तु स्वमनीषिकयैवोल्लिख्यमानत्वात् । इतरस्य तु स्यादेव व्युत्पत्तौ दृष्टान्तापेक्षा। न चैतावताऽऽवश्यकता दृष्टान्तस्य सर्वेषु परार्थानुमानेषु । यतो वक्ष्यत्यन्ताप्त्यैवेत्यादिना दृष्टान्तदर्शनस्य साध्यसिद्धरनङगता ।
अथ परमकारुणिको भगवान् दिवाकरो मेघवत् सर्वानुकम्पापरतया बालबोधाय दृष्टान्तप्रयोगस्यावश्यकत्वात्तत्य च साधर्म्यतरभेदभिन्नत्वात् साधर्म्यदृष्टान्तं तावत् सुबोधत्वाद्वयातिनिबन्धनतया च मुख्यमवधारयन्नाह
साध्यसाधनयोर्व्याप्ति-यंत्र निश्चीयतेतराम् । साधम्र्येण स दृष्टान्तः, सम्बन्धस्मरणान्मतः॥१८॥
साध्यंनिर्णीतस्वरूपं वह्नयादि, साधनमपि प्रागुक्तलक्षणं धूमादि।साध्यते साध्यमनेनेति व्युत्पत्तेः । तयोा तर विनामावस्तकेंणोहापराभिधानेन, सत्येव वह्नयादौ धूमाधुपलम्भोऽसति चानुपलम्भ इति सहचारित्वोपलम्भेपि धूमस्य वह्निजन्यतां यथावनिर्णीयाविनाभावो वह्निना धूमस्येति यो निर्णयः संपनीपद्यते, स एव च व्याप्तिरित्यभिधीयते। सा यत्र महानसादी निश्चीयतेतराम् असिद्धा