________________
न्यायावतारः
२५
.0000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
दिदूषणकदम्बकाकलकिततयाऽभ्रान्तज्ञानेनाबाधं ज्ञायते । प्रथम तावद्वयाप्ति प्रतिपित्सुमहानसादौ वह्निधूमयोरभावमुपलभते । पश्चात्क्रमाद्वह्नि धूमं वहन्यभावं धूमाभावं चोपलभ्य निर्णयति, यदुत यत्र यत्र धूमोपलम्भस्तत्र तत्र धूमस्य वह्विजन्यत्वादवश्यंतया वह्नयुपलम्भ इति स व्याप्तिप्रतिपत्त्याधारः साधर्म्यण-साध्यसाधनोभयवत्त्वलक्षणधर्मवत्त्वेन. दृष्टान्तः मतो विद्वद्भिः। कुतः ? इत्याह-सम्बन्धस्मरणात्साधनदशनेन साधनसाध्यवन्महानसादेः स्मरणम् । ततश्च तयोरविनाभावलक्षणः सम्बन्धो व्याप्त्यपराह्नः स्मृतिपथमायातीति साधर्म्यताऽस्य । ततश्चास्यापि महानसादिवद्धमादिलक्षणसाधनवत्त्वेन वह्नयादिलक्षणसाध्यवत्ताऽवश्यम्, इति निर्णयोऽनुमानम् । . आविर्भाव्य साधर्म्यदृष्टान्तस्य स्वरूपमाह वैधर्म्यदृष्टान्तस्य तत्
साध्ये निवर्तमाने तु, साधनस्याप्यसम्भवः । स्थाप्यते यत्र दृष्टान्ते, वैधम्र्येणेति स स्मृतः ॥१९॥ साध्ये-वयादिलक्षणे निवर्तमाने दृष्टान्तीक्रियमाण आधारेऽवर्तमाने, तुशब्दः साधर्म्यदृष्टान्तापेक्षया विरुद्धतासूचनया विशेषणार्थः । तत्र हि यत्र साधनं तत्र साध्यमित्येवं व्याप्तिग्रहो अत्र त्वन्यथैव । साधनस्य धूमादिलक्षणहेतोः, अपिः साधनस्य यावत्साध्याधिकरणवृत्तिताज्ञापनाय । असम्भवोऽ वद्यमानता यत्र हदादिलक्षणे दृष्टान्तेव्यतिरेकव्याप्तिग्रहणधार स्थाप्यते-ऊहापोहादिना निर्णीयते,सपूर्वोक्तो बह्निधूमव्याप्त्यपेक्षया हृदादिलक्षण व, वैधम्र्येण साध्याभावेन साधनाभावो नियमित इति वैधर्म्यता प्रकृतानुमाने । स्मृतः पूर्वपुरुषै
ायनिष्कर्षनिरर्गलप्रतिभैः । इतिना दृष्टान्तस्वरूपाख्यानसमाप्त: सूचाकृता। - ' दृष्टान्त विध्यं प्रदर्य मन्दमतिव्युत्पत्तये, नहि दृधान्तमात्रेण