________________
२६
न्यायावतारः
B000000000000000000000000000000000000०००००००००००००००००.20300330d0000333613301236331331.
साध्यसिद्धिः, पार्थिवस्य लोहलेख्यत्वदर्शनेन लोहलेख्यत्वस्य वज्रेडप्यापत्तः। किन्तु साध्यसाधनयोरविनाभावनिर्णयेन कथञ्चिदपि स्यादिति तस्य सद्भावेऽसद्भावेपि व्यर्थतेत्याहोदाहरणस्य -
अन्तर्व्याप्त्यैव साध्यस्य, सिद्धयहिरुदाहतिः । व्यर्थेव तदसद्भावेऽप्येवं न्यायविदो विदुः ॥२०॥ अन्तर्व्याप्त्या- कार्यकारणाद्यन्यतमभावेन साधनस्य साध्याविनाभूत्वनिर्णयलक्षणया तात्त्विकव्याप्त्या, एबकारो दृष्टान्तोपनयादि. व्यवच्छेदपरः, उक्तलक्षणव्याप्तिमात्रेणेत्यर्थः । साध्यस्य-प्रपञ्चितप्राकखरूपस्य वह्नयादिलक्षणस्य, सिद्धेः-निर्णयात् । भवत्येव च धूमस्य वह्निना सहाविनाभावनिर्णये धूमोपलम्भमात्रेणैव वह्रिलक्षणसाध्यसिद्धिव्युत्पन्नस्येति । बहिरुदाहृतिर्महातसादिलक्षणसाध्यसाधनसाहचर्यादिमात्रप्रदर्शकोदाहरणं व्यर्था, विनाभूतस्यापि श्यामत्वादिना मैत्रातनयत्वादेर्दर्शनात् बहिरुदाहरणस्य व्यर्थता । एवकारः साध्यसिध्यङ्गताव्यवच्छेदाय । अन्तर्याप्त्यैव साध्यस्य सिद्धत्वात् । न चानुपसंहारित्वं, तस्य दूषणत्वेनानभ्युपगमात् । अन्यथा सर्व कस्यापि ज्ञेयं वाच्यत्वात् इत्याद्यनुमानभणितिर्व्यवच्छिद्येत।नच पक्षैकदेश एवोदाहरणतया स्वीक्रियत एवैतादृश उदाहरणे दृष्टतयाङ्गीकारेनुमानस्यासत्यमपि साधयेत् न कः । अन्तर्व्याप्तिसद्भावे तन्मात्रेण साध्यव्युत्पत्तेदृष्टान्तस्य वैयर्थं व्याव]तरथापि तस्य तथात्वमाह-'तदसद्भावे' साध्यसिद्धेरभवनेऽन्ताप्त्येत्यत्रापि ज्ञेयम् । अपिरुभयथापि बहिरुदाहृतेर्वैयर्यप्रदर्शनपरः । सिद्धऽसिद्ध का साध्येऽकिश्चित्करत्वात्तस्याः । न चैतत्स्वमनीषिकाविजम्भितम्, येन शिष्टत्वातिक्रान्तिः स्यादित्याह एवं-पूर्वोक्तप्रकारेण बहिरुदाहृतेर्व्यर्थता न्यायविदोऽनुमानतत्स्वरूपविषयकारणज्ञानविचारवन्तो विदुरा - ख्यातवन्तः । युक्तिस्तु दर्शितैव प्राक् ।