________________
२७
न्यायावतारः
Decorecocerocooooooococoooooooooooo000000000000000000000000000000cooooooooooooo00000000
तदेवं परार्थानुमानं निरूप्याथ तद्दोषान्निरूपयन्नादौ तावत्पक्षाभासं प्रदर्शयति
प्रतिपाद्यस्य यः सिद्धः, पक्षाभासोऽक्ष लिङ्गतः । लोकस्ववचनाभ्यां तु, बाधितोऽनेकधा मतः ॥ २१ ॥
प्रतिपाद्यस्य प्रतिपादयितुं प्रक्रान्तस्य साध्याभ्युपगमस्य, यः वक्ष्यमाणदोषाणामन्यतमेन केनापि दुष्टोऽक्षबाधादिना सिद्धोऽनाहार्यनिश्चितबोधेन निर्णीतः, पक्षाभासः । सोऽनेकधाऽक्षाद्यने कबाधकसंभवेन मतः पूर्वप्रवीणैः । तदेवाह - 'अक्षलिङ्गतः हृषीकाण्यक्षाणि । यद्वा मनः श्रोतांसि च । लिङ्ग च साध्यान्वयव्यतिरेकानुविधायि ताभ्यां तृतीयाद्विवचने तससंभवाद्विभक्तिकत्वात्तसः । बाधितो - त्रिरुद्धतयाधिगतः पक्षाभासो ज्ञेयः । तद्यथा आह कश्चित् अनुष्णोऽग्निद्रव्यत्वात् जलवत् । अत्र हि द्रव्यत्वेन साध्यमानमग्नावनुष्णत्वं प्रत्यक्षवाधितम् । न च बह्निमन्तरेणान्यदस्ति उष्णतावद्द्रव्यं येन हेतोरनेकान्तिकता पत्तिः कर्त्त पार्यते । न चाध्यक्षविरोधेऽन्यः बाधोऽप्यवेक्ष्यतेऽपीति । चाक्षुषप्रत्यक्ष बाधितः साध्याभ्युपगम इत्यतत्राधितत्वम् । एवं शेषेन्द्रियमनोभिरपि विरुद्धता - शब्दो न श्रावणः, गन्धो न घ्राणविषयो, रसो न रसनाविषयः, स्पर्शो न स्पर्शनविषयः, सुखादि न मनोविषयमित्यादिष्वनुमानेषु स्वधियोह्या । एवं कश्चिच्चेदाऽऽहनात्मगुणो ज्ञानं न वा सर्वज्ञः सम्भवति, न च पर्वतो वह्निमान् इत्यादिलिङ्गबाधितानुमानततिः अन्वयव्यतिरेक- तारतम्यवत्त्वधूमवत्त्वलक्षणे तुभिस्तद्विरुद्धार्थसिद्धिसम्भवात् । तथैव 'लोकस्ववचनाभ्यां ' लोको व्यवहार्यौ जनो, न तु यः कोऽपि तस्यार्थावगम-तत्प्रामाण्याप्रामाण्यविचारविकलत्वात् । तेन बाधितस्तद्भ्युपगम विरुद्धस्तद्विरुद्वाभ्युपगमे हि स्पष्टो व्यवहारोच्छेदः । न चातिशयितो दोषोऽस्मात् परः । यथाह कश्चित् न प्रमाणप्रमेयव्यवहारो, न वा किश्चिदचेतनं वस्तु, नित्य
>
>