________________
न्यायावतारः
००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००:3606000000000000
मनित्यंवा सर्वथा समस्तं वस्तुवृन्दमित्याद्यनुमानपरम्परा ज्ञेया । अत्रं हि प्रवृत्त्यादि-भोजनादि-प्रत्यर्पर्णादिव्यवहारानुपपत्तिरिति लोकविरद्धता । अत्र यद्यप्यस्त्येव प्रत्यक्षानुमानादिविरुद्धता, परं लोकविरोधस्य प्राबल्यज्ञापनाय पृथगुपन्यासोऽन्यथा तु सप्रमाणे लोकाभ्युपगमे प्रमाणबाधात । इतरथा तु न किञ्चिदिति नार्थः कोप्यनेन सिद्धयतीति । स्ववचनेनेति । तत्र स्वस्य-प्रमाणप्रयोजकस्य वादिप्रतिवाद्यन्यतरस्य, वचन-लपनलपितम् , अङ्गीकृतं साध्यमिति यावत्। तेन बाधितः । तत्रापि सप्रमाणाभ्युपगमे पौरस्त्ये पाश्चात्यस्यान्यथावचनस्य स्पष्टैव विरुद्धता। पौरस्त्येऽप्रमाणाभ्युपगमे तु प्रतिपादकस्य बुद्धिशून्यता पश्चात्ततोऽन्यथा प्रतिपादने इति पार्थक्येनोपन्यासः । तत्त्वतस्तु स्ववचनप्रतिबद्धो न चलिष्यति, चलने वितण्डापातात् निग्रहस्थानाईतापत्तेर्वा, तस्य निरुत्तरत्वापादनात् । अचलने तु पूर्वापरविरुद्धवादित्वेन निग्रहार्हत्वमिति पार्थक्यस्यार्थवत्तेति । यथाऽऽह कश्चन-प्रसिद्ध प्रमाणं न चैतत्प्रमेयावसायि प्रोवाचेति । अत्र च प्रमीयतेऽनेन प्रमीयमानतास्पद वस्तु तत्प्रमाणमिति प्रमाणशब्देनैवाङ्गीकृतं वादिना प्रमाणस्य प्रमेयपरिच्छेदकत्वमन्यथा च पश्वाल्लपितं तत्र च पूर्ववदोषापात आपद्यते । तुश्वार्थे । स च चतुर्णामपि बाधकानां समुच्चयाय पूर्वाभ्यां वानयोःसमुच्चयाय । अन्ये त्वाऽऽगमबाधितसूचनायेत्याहुः-यथा जैनैः कार्या पाशुपतादिसेवेत्यादि । अत्रादेवे देवत्वबुद्धयादिना प्रत्यक्षेणैव मिथ्यात्वापातान्निषिद्धत्वाच्चास्यागमे तद्विरुद्धता स्पष्टेति । एवं प्रत्यक्ष लिङ्गलोकस्ववचनैर्बाधितः साध्याभ्युपगमः पक्षाभास इत्युच्यते । न च प्रत्यक्षादीनामेकविधतेयत्ता वेत्याह तद्बाधितानामनेकधात्वम्- 'अनेकधा' एकेन प्रकारेणेत्येकधा, न तथाऽनेकधा । प्रत्यक्षादीनामनेकधास्वात्तैबोधितस्य साध्याभ्युपगमस्य पक्षाभासापरपर्यायस्याप्यनेकधात्वं न दुरुपपादम् । न चेदं स्वकल्पनाकल्पितमित्याह-'मतः' इति । मतोऽ.