________________
न्यायावतारः
B00000000000000000000000000०००००००००००००००००००००००००००0000000000000000000०००००००००००००००
स्पष्टमेवेति । न च वाच्यं यावत्पर्यायसाक्षात्कारः कथमिव सम्पद्यते ? अतीतानागतानां विनष्टानुत्पन्नत्वेन ग्रहणासम्भवात्तदग्रहणे च कर्थ स्याद् द्रव्यसाक्षात्कारोऽपि सर्वथा । यत:
'एगदपियंमि जे अत्थपज्जषा वयणपज्जवा वावि ।
तीयाणागयभूआ तावतिअंत हवइ दव्वं ति वचनात् । सर्वपर्यायरूपत्वाद् द्रव्यस्येति । ज्योतिषशास्त्रेण यथाऽस्पष्ट विज्ञायतेऽनुद्भतमपि चन्द्रोपरागादि प्रश्नादेशेनातीतमपि विचारादि, तथा केवल वेधसोभयोरपि साक्षात्कागत् अतीतस्यातीतत्वेनानागतस्यानागतत्वेनावगमाच न वितथता । भवति चैवमेव केवलज्ञानस्यापि सद्वाच्यनिबन्धमीभूतोत्पाद-व्यय-ध्रौव्ययुक्ततापि, वर्तमानपर्यायाणामतीतत्वभावात् प्रतिसमयमनागतानां च वर्त्तमानताभावात् ज्ञानस्य च ज्ञेयानन्यत्वात्तत्तद्रपेणोत्पादविनाशौ केवलेन रूपेण ध्रौव्यं चेति । नह्यस्ति तकिमपि द्रव्यं चराचरेऽपि लोके यन्नानेन पदार्थत्रयेण व्याप्तम् । ___ न च नास्त्येव सकलार्थविषयकं ज्ञानम् । यतो हि यत्प्रमाणपञ्चकातिक्रान्तं वाच्यं तदभावप्रमाणगोचरमेव । न चात्रास्ति प्रमाणेनो. पलब्धिः । प्रमाणाधीना च पदार्थव्यवस्थितिः । उपलभ्येत चेत् प्रमाणेन तत्सद्भावः, केन ? प्रत्यक्षेणेतरेण वा ? । न तावत्प्रत्यक्षेण, तस्येन्द्रियगोचररूपादिविषयत्वादेन्द्रियकस्य मानसस्य च केवलस्य स्वात्मगुणादि साक्षात्कारनियमात् । अन्यच्च तेनाध्यक्षमेव गृह्यते । न चेदमध्यक्ष, भवन्मतेनैव साम्प्रतं तदभावादिति । न च तद्भावकालेऽप्यवगम्येत तत्तज्ज्ञेयज्ञानशून्यैः गान्धिकवद्रत्नपरीक्षकता । तद्वत्त्वं च विवादास्प. दमेव । न चानुमानादिना तदितरेणाप्यवगम्यते । यतोऽनुमानं तावत् प्रत्यक्षपूर्वकं, लिङ्गलिङ्गिसम्बन्धग्रहणस्मरणपूर्वकत्वात्तस्य । न चावरणस्य देशतो हान्या सर्वहानेस्तारतम्यात्सर्वेपलम्भस्य च सिद्धिः, तथा सति चैतन्यस्यांशत आवरणोपलब्धेर्भवेदेव सर्वथावरणात् भवतामप्य