________________
न्यायावतारः
००००००००००००००00000000000000000000०००००००००००००००००००००००००००००००००००००००००0000000000000
निष्टतमस्य चेतनाभावस्याप्यापत्ति वस्योत्पतनादौतारतम्ये च सत्यपि न परमः प्रकर्षो यावज्जीवमभ्यस्यतामप्युपलब्धस्तथा वाच्यतापि न सर्वज्ञत्वसाधिका, किन्तु पदार्थप्रचयपरिचयेन कल्पितैव सेति । नहि प्रत्यक्षा सर्वविषयवाच्यतापि स्वीक्रियते । किमिति चेदनुमानेन न चास्ति व्याप्तिस्तादशी यदनुमानकल्पितमपि कस्यचित् प्रत्यक्ष भवत्येव । न च ज्योतिषचिकित्सादिशास्त्रप्रणयनं तत्समर्थकं, मतभेदेन तस्य भेदोपलम्भात् । सर्वज्ञमतमपि भवेत्तथैव विरोधमधिरोहत् । न चागमेन साध्येत तत्सद्भावो, येन परस्परविरुद्धवाच्यव्याख्याका हि आगमाः, कथमिव यथातथं वस्तु प्रतिपादयेत् सर्वज्ञताख्यम् । अन्यच्चागमोऽपि सर्वज्ञतालङ्कृतोक्तत्वेन प्रमाणीक्रियेताऽन्यथा वा ? । आद्येऽन्योन्याश्रयः । सर्वज्ञतासिद्धावागमप्रामाण्यसिद्धस्तत्सिद्धौ च सर्वज्ञतासिद्धोरिति । अन्यप्रतिपादितस्य प्रामाण्ये तु न तदवितथम् । न चातज्ज्ञायकस्तत्प्ररूपक आप्तो भवेत्, न चानाप्तप्ररूपित विद्वद्भिराश्रीयते प्रमाणतया । उपमानं तु कथमिव भवेत् उपमानोपमेययोद्धयोः प्रत्यक्षेणैव तत्प्रामाण्याभ्युपगमात् । न चात्रोपमानभूत उपमेयभूतो वा वेविद्यते वा प्रत्यक्षं, येनोपमेयं सर्वज्ञतास्पदत्वेन गृह णीय यूयम् । अर्थापतिस्त्वर्थानुपपत्तिकल्पिता भवेत्, न चात्रास्ति कोऽपि तथावि. धोऽर्थो, यो न सर्वज्ञतामन्तरेण सम्भवी भवेत् । जीवधर्मपदार्थबोधस्वागमा दरूपादपौरुषेयादेवेति प्रमाणपञ्चकातिक्रान्तत्वादभावप्र - माणविषयमेवेदं सर्वज्ञत्वमितिवाच्यम् ।
यतो यत्तावदुक्तं प्रमाणपञ्चकातिक्रान्तत्वादभावविषयमिदमिति । तदेवासिद्धम् । यतो या प्रत्यक्षस्याप्रवृत्तिरेव तावद्भवद्भिरक्त , सा किं भवदीयप्रत्यक्षस्य केवलस्व किं वा यावत्प्रत्यक्षस्य ? । आये, न सोऽस्ति नियमो, यदुत-भवद्भिः सर्व प्रत्यक्षमीक्षणीयं प्रत्यक्षणीय, द्वीपान्तरादेः परमाण्वादेश्च प्रत्यक्ष मेवानीक्षणात् । अन्त्ये, भवानेव सर्वज्ञतास्पदं, अतीन्द्रियाणामनिन्द्रियाणामशेषाणां प्रत्यक्षाणामवगमात्।