________________
न्यायावतारः
29
100000000000000000000000०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
नन्वेषं न किञ्चिदपि भवेदभावप्रमाण गोचरं चेन्मा भवतु तथाभूता. ऽसत्यवादनिबन्धनं, का नो हानिः । स्वज्ञानमपेक्ष्य वाभवतु । न च तेन परवस्तुप्रतिपेधो भवति । योग्यस्यानीक्षणे योग्यस्थले सत्यांयोग्यतायां हि स्यात्प्रतिषेधः । न चैवं भवतामिति प्रतिपादितमेव । न च नास्ति इन्द्रियानिन्द्रियप्रत्यक्षमन्तरेणान्यत्प्रत्यक्षमिति शम्यं वक्तुम् भवता, तत्प्रतिषेधकप्रमाणाभावात् । अतद्वानपि चावबुध्यत्येव तद्वन्तं, संशयाविर्भावनिराकरणादिनाऽचतुर्वेद्यपि जानात्येव चतुर्वे. दिनम् । गान्धिकोऽपि वेत्त्येव रत्नपरीक्षकान् येन केनचित् पृष्टः सन् साधयत्यसौ स्पष्ट याह्यमुकस्य रत्नपरीक्षकस्य पार्श्वे इति । न च संशयनिराकरणादिना नावबुध्यते सर्वज्ञतावत्त्वं, तस्यानिन्द्रियविषयतयातीन्द्रियवेदनवेद्यत्वात् । अन्यच्च रूपिपदार्थप्रकाशनपटुभिरप्यसो ज्ञायत एव तथाविधमनोवत्तादर्शनात् कर्मपरमाणुवर्गणायाः प्रतिबन्धिकाया अनुपलम्भाश्च । ऐन्द्रियकेनाप्यध्यक्षेणावगम्यत एव तत्सत्ता, प्रोक्तातीन्द्रियार्थसंवाददर्शनात् । वेत्त्येव च तद्वानेन्द्रियकमपि । अत एष 'आवीकम्मति पठ्यते । एवं श्रुतेनापि कथमिव न तत्सत्ता ज्ञायेत तत्काले । यतस्तत्रापि पदपङ्क्त्यादेः प्रकल्पितावबुद्धग्रथितावबोधितार्थस्य विप्रकृष्टस्य च संवादस्थलस्य सत्त्वमप्रतिपन्नं न । ततस्तदा परेणाप्याप्तवचनविश्वासरूपादागमादुपमानादिनाच वेत्त शक्यत एवेति न तदानीमनवबुद्धयत्ता सर्वज्ञत्वस्य । इदानीं तु ये तथाविधज्ञानवन्तस्तेषां प्रत्यक्षीकरणे कः प्रतिस्खलनपटुतामाप्नोति । अस्मदादीनां तु तथाविधज्ञानाऽभावात्तदप्रत्यक्षे न तदभावोऽन्यथा परमाणुप्रभृतीनां स्यादेवाभावः । स्यादेव च भवदीयात्मनोऽप्रत्यक्षत्वाद्भवतामेव जडत्वापादयित्री चैतन्यशून्यता । तथा चेकिं जडेन सह वार्ताप्रसङ्गेन।अनुमीयते चेदात्मेति । समानमेवैतद्भवदुक्तसर्वज्ञत्वानुमानेन तस्यापि कदाचिन्न यत् प्रत्यक्षं येन सम्बन्धग्रहणं स्यादित्यलं प्रसङ्गानुप्रसंङोनेति ।