________________
०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
४८.....०००००००००
न्यायावतारः 'यच्चोक्त नानुमानं तद्ग्राहक तद्धि प्रत्यक्षपूर्वक'मित्यादि । तद्युक्तमुक्तमयुक्तं तूक्तम् । यत् कदा भवानभूद् ग्रहगृहीतो, यदपरं यथा तथा लपमानमवेक्ष्य वक्ष्यति-यदयं प्रथिल इति । जातस्तथाचेदलं वादेन। आप्तादवधारणे तु तल्लिङ्गस्य न तथ्यता, अहिलतायां स्वकृतभानानुपलम्भात् गृहीतत्वाभानाच' स्वस्थतायां तु कुतस्त्यं तद्भान स्यात् । अन्यैश्च महिलता नैवानुभूता । तत्रापि तथाप्रसङ्गात् । न च नेदमनुमानं व्यभिचारि वेति स्वीकार्य एव तथाविधः प्रज्ञापको, यः स्वयमग्रहिलो विवेदिवान् महिलतां तच्चिह्नानि च, येनाख्यातमाश्रित्य भवतानुमीयते इयं । अन्यच्च-अनुमाने लिङ्गज्ञानभ्य नियमो, न तत्प्रत्यक्षस्य । अन्यथाऽदृष्टसिंहस्य न स्यात्सिंहशब्दजन्या भीतिरेवं सर्पदंशादिश्वप्यनुसन्धेयं । लिङ्गज्ञानं चात्रास्त्येव सर्वज्ञतासाधने । यतः तदाचरणात्तदाचारात्तदाकृतेश्च ज्ञातस्यैवंभूतस्य परहितरतस्य परिहृतस्वजनादेर्देहनिर्ममस्य वाक्यं नाज्ञानपूर्वकम् । यो हि यत्र विषये हितरतादिविशेषणो न सोविदित्वा निरूपयति पदार्थज्ञानं चातीन्द्रियमेव । अनेवंविधेनातीन्द्रियार्थानां वेदनाभावात् । निरूपिताश्च जीवादयोधर्मादयोमोक्षादयश्च । यच्चोक्त मावरणहान्ये'त्यादि । तदप्ययुक्तम् । यतो जीवस्य प्रदेशाष्टकं तावत् सदैवानावृतं तिष्ठति। न च तत्र देशतोप्यभूदावरणं, येन तस्याखिलावृत्या जडतापत्तिः स्यात् । तस्य ह्यकर्मत्वात् कर्मसङ्ग एव न सिद्धप्रदेशवत् । एतदेव च शाश्वतं जीवत्वं, अन्येषप्रदेशानां तु सर्वथा ज्ञानमात्रावृतिर्भवत्येव केषाञ्चित्सूक्ष्मैकेन्द्रियाऽपर्याप्तप्रथमसमयभाविनामिति न भापयितव्यं भीतिमद्भिः । तथा चावरणहानेर्देशत उपलम्भात् सर्वथा हानेरवश्यं कार्योंगीकारः । त्यक्तबाल्येन आवरणहान्यभावे च भवेद्भवतां सदैव बालत्वम् । यत्र सर्वथा तस्य हानिस्तत्रैव सर्वज्ञता । एवं रागादीनां दोषाणामपि काचित्क-कादाचित्का हानिः स्वयमनुभूतैवान्यथागम्यगाम्येव भवान्भवेत्तथात्वे अलं वार्त्तया। न चेत् सा यत्र सर्वथा तत्र सर्वज्ञतैव, प्रतिबन्धकाभावस्य कार्यजनकत्वात्। अभव्यादिषु देशहानौ सत्यामपि पुनरुपचयान सर्वथा